________________
३३८
तिस्रः २ कोटयः, कूणिकस्याप्येवमेव ।
एनं च व्यतिकरं ज्ञात्वा चेटकेनाप्यष्टादश गणराजा मिलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिपरिमाणं, ततो युद्धं संप्रलग्नं, चेटकराजश्च प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति, अमोधबाणश्च सः, तत्र च कूनिकसैन्ये गरुडव्यूहः, चेटकसैन्ये च सागरव्यूहो विरचितः, ततश्च कूणिकस्य कालोदण्डनायको युद्धयमानस्तावद्गतो यावच्चेटकः, ततस्तेनैकशरनिपातेनासी निपातितो, भग्नं च कूणिकबलं, गते च द्वे अपि बले निजं निजमावासस्थानम् एवं च दशसु दिवसेसु चेटकेन विनाशिता दशापि कालादयः, एकादशे तु दिवसे चेटकजयार्थं देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह ।
ततः शक्रचमरावागतौ, ततः शक्रो बभाण- चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थं वज्रप्रतिरूपकमभेद्यकवचं कृतवान्, चमरस्तु द्वौ सङ्ग्रामी विकुर्वितवान्-महाशिलाकण्डकं रथमुशलं चेति ॥
'जइत्य'त्ति जितवान् 'पराजइत्थ' त्ति पराजितवान् हारितवानित्यर्थः ' वज्जि'त्ति 'वज्री' इन्द्रः 'विदेहपुत्ते ' त्ति कोनिकः, एतावेव तत्र जेतारौ नान्यः कश्चिदिति 'नव मल्लइ' त्ति मल्लकिनामानो राजविशेषाः 'नव लेच्छइ' त्ति लेच्छकिनामानो राजविशेषा एव 'कासीकोसलग' त्ति काशी-वाणारसी जनपदोsपि काशी तत्सम्बन्धिन आद्या नव कोशला - अयोध्या तज्जनपदोऽपि कोशला तत्सम्बन्धिनो नव द्वितीयाः, 'गणरायाणो 'त्ति समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजाः सामन्ता इत्यर्थःः, ते च तदानीं चेटकराजत्य वैशालीनगरीनायकस्य साहाय्याय गणं कृतवन्त इति ।
भगवती अङ्गसूत्रं ७/-/९/३७२
अथ महाशिलाकण्टके सङ्ग्रामे चमरेण विकुर्विते सति कूणिको यदकरोत्तद्दर्शनार्थःमिदमाह - 'तए 'मित्यादि, ततो महाशिलाकण्टकसङ्ग्रामविकुर्व्वणानन्तरमुदायिनामानं 'हस्थिरायं' ति हस्तिप्रधानं 'पडिकप्पेह' त्ति सन्नद्धं कुरुत 'पञ्च्चप्पिणह'त्ति प्रत्यर्पयत निवेदयतेत्यर्थः, ‘हट्ठतुट्ठ' इह यावत्करणादेवं दृश्यम् -'हट्ठतुट्ठचित्तमाणंदिया नंदिया पीइमणा' इत्यादि, तत्र हृष्टतुष्टंअत्यर्थं तुष्टं हृष्टं वा विस्मितं तुष्टं च-तोषवञ्चित्तं मनो यत्र तत्तथा तद् हृष्टतुष्टचित्तं यथा भवति इत्येवमानन्दिता-ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगताः, ततश्च नन्दिताः समृद्धितरतामुपगताः प्रीति - प्रीणनं - आप्यायनं मनसि येषां ते प्रीतिमनसः 'अंजलि कट्टु 'त्ति ।
इदं त्वेवं दृश्यम्- 'करयलपरिग्गहियं दसण्हं सिरसावत्तं मत्थए अंजलिं कट्टु' तत्र शिरसाऽ प्राप्तं - असंस्पृष्टं मस्तकेऽञ्जलिं कृत्वेत्यर्थः 'एवं सामी ! तहत्ति आणाए विनएणं वयणं पडिसुर्णेति त्ति एवं स्वामिनूं ! तथेति आज्ञया इत्येवंविधशब्दभणनरूपो यो विनयः स तथा तेन वचनं राज्ञः सम्बन्धि 'प्रतिशृण्वन्ति' अभ्युपगच्छन्ति 'छेयायरिओएसमइकप्पणाविगप्पेहिं ति छेको-निपुणो य आचार्य-शिल्पोपदेशदाता तस्योपदेशाद् या मति-बुद्धिस्तस्या ये कल्पनाविकल्पाः - कृतिभेदास्ते तथा तैः प्रतिकल्पयन्तीति योगः 'सुनिउणेहिं' ति कल्पनाविकल्पानां विशेषणं नरैर्वा सुनिपुणैः । 'एवं जहा उववाइए 'ति तत्र चेदं सूत्रमेवम्- 'उज्जलनेवत्थहन्वपरिवच्छियं' उज्ज्वलनेपथ्येननिर्मलवेषेण 'हव्वं 'ति शीघ्र परिपक्षितः परिगृहीतः परिवृतो यः स तथा तं, सुसज्जं 'वम्मियसन्नद्धबद्धकवइयउप्पीलियवच्छकच्छगेवेज्जगबद्धगलगवरभूसणविराइयं' वर्म्मनि नियुक्तावार्म्मि कास्तैः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International