________________
शतकं -७, वर्ग:-, उद्देशकः-८
३३५
मू. (३६८) कति णं भंते ! सन्नाओ पन्नत्ताओ ?, गोयमा ! दस सन्नाओ पन्नत्ताओ, तंजहा-आहारसन्ना १ भयसन्ना २ मेहुणसन्ना ३ परिग्गहसन्ना ४ कोहसन्ना ५ माणसन्ना ६ मायासन्ना ७ लोभसन्ना ८ लोगसन्ना ९ ओहसन्ना १०, एवं जाव वेमानियाणं । नेरइया दसविहं वेयनिज्जं पच्चनुभवमाणा विहरंति, तंजहा-सीयं उसिणं खुहं पिवासं कंडुं परज्झं जरं दाहं भयं सोगं ।।
वृ. 'कतिण' मित्यादि, तत्र सञ्ज्ञानं सञ्ज्ञा- आभोग इत्यर्थः मनोविज्ञानमित्यन्ते संज्ञायते वाऽनयेति सञ्ज्ञा वेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्राहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवति, तद्यथा
'आहारसन्ने 'त्यादि, तत्र क्षुद्वेदनीयोदयात् कावलिकाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायतेऽनया तद्वानित्याहारसञ्ज्ञा, तथा भयमोहनीयोदयाद्भयोद्भ्रान्तदृष्टिवदनविकाररोमाञ्चोभेदादिक्रियैय सञ्ज्ञायतेऽनयेति भयसञ्ज्ञा, तथा पुंवेदाद्युदयान्मैथुनाय स्त्रयाद्यङ्गालोकन प्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रियैव सञ्ज्ञायते ऽनयेति मैथुनसञ्ज्ञा
तथा क्रोधोदयादावेशगर्भा प्ररूक्षनयनदन्तच्छदस्फुरणादिचेष्टैव सञ्ज्ञायतेऽनयेति क्रोधसञ्ज्ञा, तथा मानोदयादहङ्कारात्मिकोत्सेकक्रियैव सञ्ज्ञायतेऽनयेति मानसञ्ज्ञा, तथा मायोदयेनाशुभसहक्लेशादनृतसंभाषणादिक्रियैव सञ्ज्ञायतेऽनयेति मायासञ्ज्ञा, तथा लोभोदयाल्लालसान्वितासचित्तेतरद्रव्यप्रार्थः नैव सञ्ज्ञायतेऽनयेति लोभसञ्ज्ञा ।
तथा मतिज्ञानावरणक्षयोपशमाच्छब्दाद्यर्थः गोचरा सामान्यावबोधक्रियैव सञ्ज्ञायते वस्त्वनयेति ओधसञ्ज्ञा, एवं शब्दाद्यर्थः गोचरा विशेषावबोधक्रियैव सञ्ज्ञायते ऽनयेति लोकसञ्ज्ञा, ततश्चौधसञ्ज्ञा दर्शनोपयोगी लोकसञ्ज्ञा तु ज्ञानोपयोग इति, व्यत्ययं त्वन्ये, अन्ये पुनरित्थमभिदघति-सामान्यप्रवृत्तिरोधसञ्ज्ञा लोकष्टिस्तु लोसञ्ज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्योक्ताः, एकेन्द्रियादीनां तु प्रायो यतोक्तक्रियानिबन्धनकर्मोदयादिरूपा एवावगन्तव्या इति ।
जीवाधिकारात्- 'नेरइये 'त्यादि, 'परज्झ' त्ति पारवश्यम् ।
प्राग् वेदनोक्ता सा च कर्म्मवशात् तच्च क्रियाविशेषात् सा च महतामितरेषां च समैवेति दर्शयितुमाह
मू. (३६९) से नूनं भंते! हत्थिस्स य कुंथुस्स य समा चेव अपच्चक्खाणकिरिया कज्जति हंता गोयमा ! हत्थस्स य कुंथुस्स य जाव कज्जति । से केणट्टेणं भंते! एवं वुच्चइ जाव कज्जइ ?, गोयमा ! अविरतिं पडुच्च, से तेणट्टेणं जाव कज्जइ ।
वृ. 'से नूनं भंते ! हत्थिस्से' त्यादि, अनन्तरमविरतिरुक्ता सा च संयतानामप्याधाकर्म्मभोजिनां कथञ्चिदस्तीत्यतः पृच्छति ।
मू. (३७०) आहाकम्मन्नं भंते ! भुंजमाणे किं बंधइ ? किं पकरेइ ? किं चिणाइ ? किं उवचिणाइ ? एवं जहा पढमे सए नवमे उद्देसए तहा भानियव्वं जाव सासए पंडिए पंडियत्तं असासयं, सेवं भंते! सेवं भंते त्ति ॥
वृ. 'अहे 'त्यादि, 'सासए पंडिए पंडियत्तं असासयं' ति अयमर्थः - जीवः शाश्वतः पण्डितत्वमशाश्वतं चारित्रस्य भ्रंशादिति ॥
Jain Education International
शतकं-७ उद्देशकः-८ समाप्तः
For Private & Personal Use Only
www.jainelibrary.org