________________
३३३
शतकं-७, वर्गः-, उद्देशकः-७
__ वृ. 'जे इमे'इत्यादि, ‘एगइया तस'त्ति 'एके' केचन न सर्वे संमूर्छिमा इत्यर्थः 'अंध'त्ति अंधा इवान्धा-अज्ञानाः 'मूढ'त्ति मूढाः तत्त्वश्रद्धानं प्रति एत एवोपमयोच्यन्ते 'तमंपविठ्ठ'त्ति तमः प्रविष्टाइवतमःप्रविष्टाः ‘तमपडलमोहजालपडिच्छन्नत्तितमःपटलमिवतमःपटलं-ज्ञानावरणं मोहो-मोहनीयं तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्ना । आच्छादिता येते तथा ।
'अकामनिकरणं'तिअकामो-वेदनानुभावेऽनिच्छाऽमनस्कत्वात्स एवनिकरणं-कारणं यत्र तदकामनिकरणम् अज्ञानप्रत्ययमिति भावस्तद्यथा भवतीत्येवं 'वेदनां' सुखदुःखरूपांवेदनं वा-संवेदनं 'वेदयन्ति' अनुभवन्तीति।
अथासज्ञिविपक्षमाश्रित्याह-'अत्थी'त्यादि, अस्त्ययं पक्षो यदुत ‘पभूवि'त्ति प्रभुरपि सज्ञित्वेन यथावद्रूपादिज्ञाने समर्थोऽप्यास्तामसज्ञित्वेनाप्रभुरित्यपिशब्दार्थः ‘अकामनिकरणम्' अनिच्छाप्रत्ययमनाभोगात्, अन्येत्वाहुः- अकामेन-अनिच्छया निकरणं' क्रियाया-इष्टार्थःप्राप्तिलक्षणाया अभावो यत्र वेदने तत्तथा तद्यथा भवतीत्येवं वेदनां वेदयन्तीति प्रश्नः, उत्तरं तु 'जे णं ति यः प्राणी सज्ञित्वेनोपायसद्भावेन च हेयादीनां हानादौ समर्थोऽपि 'नो पहु'त्ति न समर्थो विना प्रदीपेनान्धकारे रूपानि 'पासित्तए'त्ति द्रष्टुम्, एषोऽकामप्रत्ययं वेदनांवेदयतीति सम्बन्धः, 'पुरओ'त्तिअग्रतः ‘अनिज्झाएत्ताणं'ति अनिद्धर्याय' चक्षुरव्यापार्य 'मग्गओ'त्ति पृष्ठतः ‘अनवयखित्ता णं'ति 'अनवेक्ष्य' पश्चाद्भागमनवलोक्येति ।
__ अकामनिकरणंवेदनांवेदयतीत्युक्तम्, अथ तद्विपर्ययमाह-'अस्थिण मित्यादि, 'प्रभुरपि' सजित्वेन रूपदर्शनसमर्थोऽपि पकामनिकरणं तिप्रकामः-ईप्सितार्थाप्राप्तितः प्रवर्द्धमानतया प्रकृष्टोऽभिलाषः स एव निकरणं-कारणं यत्र वेदने तत्तथा, अन्ये त्वाहुः-प्रकामे-तीव्राभिलाषे सति प्रकामंवाअत्यर्थः निकरणम्-इष्टार्थःसाधकक्रियाणामभावो यत्र तत्प्रकामनिकरणं तद्यथा भवतीत्येवं वेदनां वेदयतति प्रश्नः, उत्तरं तु 'जे ण मित्यादि, यो न प्रभुः समुद्रस्य पारं गन्तु तद्गतद्रव्यप्राप्त्यर्थे सत्यपितथाविधशक्तिवैकल्यात्, अतएव चयो नप्रभुः समुद्रस्य पारगतानि रूपानि द्रष्टुं, स तद्गताभिलाषातिरेकात् प्रकामनिकरणं वेदनां वेदयतीति ।
शतकं-७ उद्देशकः-७ समाप्तः
-:शतकं-७ उद्देशकः-८:वृ. सप्तमोद्देशकस्यान्ते छाद्मस्थिकं वेदनमुक्तमष्टमे त्वादावेव छद्मस्थवक्तव्यतोच्यते, तत्र चेदं सूत्रम्
मू. (३६५) छउमत्थे णंभंते! मणूसे तीयमनंतं सासयं समयं केवलेणं संजमेणं एवं जहा पढमसए चउत्थे उद्देसए तहा भानियव्वं जाव अलमत्थु ।।
वृ.'छउमत्थे णमित्यादि, एतच्च यथा प्राग् व्याख्यातं तथा द्रष्टव्यम् ।। अथ जीवाधिकारादिदमाह
मू. (३६६) से नूनं भंते ! हथिस्स य कुंथुस्स य समे चेव जीवे ?, हंता गोयमा ! हथिस्स कुंथुस्स य, एवं जहा रायप्पसेणइजे जाव खुड्डियं वा महालियं वा से तेणटेणं गोयमा! जाव समे चेव जीवे ॥ ___ वृ. ‘से नूण'मित्यादि, ‘एवं जहा रायप्पसेणइज्जेत्ति, तत्र चैतत्सूत्रमेवं-समे चेव जीवे, से
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org