________________
शतकं-७, वर्गः-, उद्देशकः-६
३२९ अत एव 'खरतिक्खनखकंडुइयविक्खयतणु'त्तिखरतीक्ष्णनखानां कण्डूयितेन विकृताकृतव्रणा तनुः-शरीरं येषांते तथा, 'द(किडिभसिंझफुडियफरुसच्छवि'त्ति दद्रुकिडिमसिमानि क्षुद्रकुष्ठविशेषास्तप्रधाना स्फुटिता परुषाच छविशरीरत्वग्वेषांतेतथा, अतएव 'चित्तलंग'त्ति कर्बुरावयवाः, 'टोले'त्यादि, टोलगतयः-उष्ट्रादिसमप्रचाराः पाठान्तरेण टोलाकृतयः-अप्रशस्ताकाराः विषभानि ह्रस्वदीर्घत्वादिनासन्धिरूपानिबन्धनानियेषांतेविषमसन्धिबन्धनाः उत्कुटुकानियथास्थानमनिविष्टानि अस्थिकानि-कीकसानि विभक्तानीव च-दृश्यमानान्तरालानीव येषां ते उत्कुटुकास्थिकविभक्ताः अथवोत्कुटुकस्थितास्तथास्वभावत्वाद्विभक्ताश्च-भोजन विशेषरहिता येते तथा, दुर्बला-बलहीनाः कुसंहनननाः-सेवार्तसंहननाः कुप्रमाणाः-प्रमाणहीनाः कुसंस्थिताःदुःसंस्थानाः।
तत एषां 'टोलगे'त्यादिपदानां कर्मधारयः, अत एव ‘कुरूव'त्ति कुरूपाः ‘कुट्ठाणासणकुसेज्जकुभोइणो'त्ति कुत्सिताश्रयविष्टरदुःशयनदुर्भोजनाः ‘असुइणो'त्तिअशुचयः स्नानब्रह्मचर्यादिवर्जितत्वात्, अश्रुतयोवा शास्त्रवर्जिताः, 'खलंतविज्झलगइ'त्तिखलन्ती-स्खलन्ती विह्वला च-अर्दवितर्दा गतिर्येषां ते तथा अनेकव्याधिरोगपीडितत्वात् 'विगयचेट्ठानद्वतेय'त्ति विकृतचेष्टा नष्टतेजसञ्चेत्यर्थः 'सीए'त्यादिशीतेनोष्णेन खरपुरुषवातेनच विज्झडिय'त्ति मिश्रितं व्याप्तमित्यर्थः मलिनं च पांशुरूपेण रजसा द्रव्यरजसेत्यर्थः 'उग्गुंडिय'त्ति उद्धूलितं चाङ्ग २ येषां ते तथा 'असुहदुक्खभागि'त्ति दुःखानुबन्धिदुःखभागिन इत्यर्थः।। ___'ओसन्नं'ति बाहुल्येन 'धम्मसन्न'त्ति धर्मश्रद्धाऽवसन्ना गलिता सम्यक्त्वभ्रष्टा ‘रयनिपमाणमेत्त'त्ति रत्नेः-हस्तस्य यत्प्रमाणं-अङ्गुलचतुर्विशतिलक्षणं तेन मात्रा-परिमाणं येषां ते रत्निप्रमाणमात्राः ‘सोलवीसइवासपरमाउसो'त्ति इह कदाचित् षोडश वर्षानि कदाचिच्च विंशतिवर्षानि परमायुर्वेषां ते तथा 'पुत्तनत्तुपरियालपमयबहुल त्ति पुत्राः-सुताः नप्तारः-पोत्रा दौहित्राश्च एतल्लक्षणो यः परिवारस्तत्र यः प्रणयः-स्नेहः स बहुलो-बहुर्येषां ते तथा_ -पाठान्तरे ‘पुत्तनत्तुपरिपालणबहुल'त्ति तत्र च पुत्रादीनां परिपालनं बहुलं-बाहुल्येन येषांते तथा, अनेनाल्पायुष्कत्वेऽपि बह्वपत्यया तेषामुक्ताऽल्पेनापिकालेन यौवनसद्भावादिति, 'निस्साए'त्ति निश्राय-निश्रांकृत्वेत्यर्थः 'निओय'त्ति निगोदाः-कुटुम्बानीत्यर्थः ‘बीय'तिबीजमिव बीजंभविष्यतांजनसमूहानां हेतुत्वात् ‘बीयमेत्त'त्तिबीजस्येव मात्रा-परिमाणं येषां ते बीजमात्राः स्वल्पाः स्वरूपत इत्यर्थः।
‘रहपह'त्ति रथपथः-शकटचक्रद्वयप्रमितो मार्ग 'अक्खसोयप्पमाणमेत्त'ति अक्षश्रोतःचक्रधुरः प्रवेशरन्धं तदेव प्रमाणमक्षश्रोतःप्रमाणं तेन मात्रा-परिमाणमवगाहतो यस्य तत्तथोक्ता 'वोज्झिहिंति, सेवियणंजले' वक्ष्यतः 'आऊबहुले'त्तिबह्वप्कायमित्यर्थः 'निद्धाहिति'त्ति निद्धा'विष्यन्ति' निर्गमिष्यन्ति ‘गाहेहिंति'त्ति ‘ग्राहयिष्यन्ति' प्रापयिष्यन्ति स्थलेषुस्थापयिष्यन्तीत्यर्थः 'वित्तिं कप्पेमाणे'ति जीविकां कुर्वन्तः।।
'निस्सील'त्ति महाव्रताणुव्रतविकलाः ‘निग्गुण'त्ति उत्तरगुणविकलाः ‘निम्मेर'त्तिअविद्यमानकुलादिमर्यादाः 'निपच्चखाणपोसहोववास'त्ति असत्पौरुष्यादिनियमा अविद्यमानाष्टम्यादिपर्वोपवासाश्चेत्यर्थः ‘ओसन्नं'ति प्रायो मांसाहाराः, कथम् ? इत्याह-मत्स्याहारा यतः, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org