SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्ग:-, उद्देशकः-१ अथ नैरयिकाऽऽहाराधिकारात्तद्विषयमेव प्रश्नचतुष्टयमाह मू. (१३) नेरइयाणंभंते! पुव्वाहारिया पोग्गला परिणया १?, आहारिया आहारिज्जमाणा पोग्गला परिणया २?, अणाहारिया आहारिजिस्समाणा पोग्गला परिणया ३?, अणाहारिया अणाहारिजिस्समाणा पोग्गला परिणया? ४/ गोयमा! नेरइयाणपुव्वाहारिया पोग्गला परिणया १, आहारिया आहारिज्जमाणा पोग्गला परिणया परिणमंति य २, अणाहारिया आहारिजिस्समाणा पोग्गला नो परिणया परिणमिस्संति ३, अणाहारिया अणाहारिजिस्समाणा पोग्गला नो परिणता नो परिणमिस्संति ४। वृ. 'पुव्वाहारिय'त्तिये पूर्वमाहृताः-पूर्वकाल एकीकृताः संगृहीता इतियावत्अभ्यवहृता वा 'पोग्गले ति स्कन्धाः ‘परिणय'त्ति ते ‘परिणताः' पूर्वकाले शरीरेण सह संपृक्ताः परिणति गता इत्यर्थः, इतिप्रथमःप्रश्नः १, इहच सर्वत्र प्रश्नत्वंकाकुपाठादवगम्यते।तथा 'आहारिय'त्ति पूर्वकाले आहृताः' संगृहीताअभ्यवहृतावा, आहरिज्जमाण'त्तियेच वर्तमानकाले ‘आह्रियमाणाः' सङगृह्यमाणा अभ्यवह्रियमाणा वा पुद्गलाः ‘परिणय'त्ति ते परिणता इति द्वितीयः २ । ____तथा 'अणाहारिय'त्तियेऽतीतकालेऽनाहृताः ‘आहारिजिस्समाणे'त्तियेचानागतेकाले आहरिष्यमाणाः पुद्गलास्ते परिणता इति तृतीयः ३। तथा 'अणाहारियाअणाहारिजिस्समाणा' इत्यादिअतीतानागताहरणक्रियानिषेधाच्चतुर्थः ४ । इह च यद्यपि चत्वार एव प्रश्ना उक्तास्तथाऽप्येते त्रिषष्टिः संभवन्ति, यतः पूर्वाहृता आह्रियमाणा आहरिष्यमाणा अनाहृता अनाहियमाणाअनाहरिष्यमाणाश्चेतिषट्पदानीह सूचितानि, तेषु चैकैकपदाश्रयणेन षड्, द्विकयोगे पञ्चदश, त्रिकयोगे विंशतिः, चतुष्कयोगे पञ्चदश, पञ्चकयोगे षट्, षड्योगे एक इति । अत्रोत्तरमाह-'गोयमे' त्यादि व्यक्तं, नवरं ये पूर्वमाहृतास्ते पूर्वकाल एव परिणताः, ग्रहणानन्तरमेव परिणामभावात् १ । ये पुनराहृता आहियमाणाश्च ते परिणताः, आहृतानां परिणामभावादेव, परिणमन्तिच आह्रियमाणानां परिणामभावस्य वर्तमानत्वादिति २ । वृत्तिकृतातुद्वितीयप्रश्नोत्तरविकल्पएवंविधो दृष्टः-यदुतआहृताआहरिष्यमाणाः पुद्गलाः परिणताः परिणंस्यन्तेच, यतोऽयं तेनैवं व्याख्यातः-यदुत ये पुनराहृता आहरिष्यन्ते पुनस्तेषां केचित्परिणताः परिणताश्चये संपृक्ताः शरीरेण सह, येतुन तावत्संपृच्यन्ते कालान्तरेतुसंपृक्ष्यन्ते तेपरिणस्यन्त इति ।ये पुनरनाहृता आहरिष्यन्तेपुनस्तेनो परिणताः, अनाहतानां संपर्काभावेन परिणामाभावात्, यस्मात्त्वाहरिष्यन्ते ततः परिणंस्यन्ते, आहृतस्यावश्यं परिणामभावादिति ३ । चतुर्थस्त्वतीतभविष्यदाहरणक्रियाया अभावेन परिणामाभावादवसेय इति ४ । एतदनुसारेणैव प्राग्दर्शितविकल्पानामुत्तरसूत्राणि वाच्यानीति ।। अथ शरीरसंपर्कलक्षणपरिणामात्पुद्गलानांचयादयो भवन्तीति तदर्शनार्थं प्रश्नयन्नाह मू. (१४) नेरइयाणंभंते! पुव्वाहारिया पोग्गला चियापुच्छ, जहा परिणयातहा चियावि, एवं चिया उवचिया उदीरिया वेइया निजिन्ना, गाहा ___ वृ. 'नेरइयाण मित्यादिचयादिसूत्राणि परिणामसूत्रसमानीतिकृत्वाऽतिदेशतोऽधीतानीति, तथाहि-'जहा परिणया तहा चियावी'त्यादि, इह च पुस्तकेषु वाचनाभेदो दृश्यते तत्र न संमोहः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy