________________
भगवतीअङ्गसूत्रं १/-/१/१२
अभिक्खणं नीससंति आहच्च आहारेति ४ ?, हंता गोयमा ! नेरइया सव्वओ आहारेंति । 'सव्वओ'त्ति सर्वात्मप्रदेशैः 'अभिक्खणं' ति अनवरतं पर्याप्तत्वे सति 'आहच्चे' ति कदाचित् न सर्वदा अपर्याप्तकावस्थायामिति ।
तथा 'कइभागं 'ति आहारतयोपात्तपुद्गलानां कतिथं भागमाहारयन्ति इति वाच्यं तच्चैवम्'नेरइयाणं भंते! जे पोग्गले आहारत्ताए गिर्हति तेणं तेसिं पोग्गलाणं सेयालंसि कइभागमाहारेंति कइमागं आसायंति ?, गो० ! असंखेज्जइमागं आहारेंति अनंतमागं आसाइंति' 'सेयालंसि' त्ति एष्यत्काले, ग्रहणकालोत्तरकालमित्यर्थः, 'असंखेज्जइभागमाहारेति' इत्यत्र केचिद्वयाचक्षतेगवादिप्रथमवृहदग्रासग्रहण इव कांश्चिद्रगृहीतासङ्केयभागमात्रान् पुद्गलानाहारयन्ति तदन्ये तु पतन्तीति
अन्ये त्वाचक्षते-ऋ जुसूत्रनयदर्शनात्स्वशरीतया परिणतानामसङ्ख्येयभागमाहारयन्ति, ऋजुसूत्रो हि गवादिप्रथमबृद्ग्रासग्रहण इव गृहीतानां शरीरत्वेनापरिणतानामाहारतां नेच्छति, शरीरतया परिणानामपि केषाञ्चिदे विशिष्टाहारकार्यकारिणां तामभ्युपगच्छति, शुद्धनयत्वात्तस्येति अन्ये पुनरित्थमभिदधि-'असंखेज्जइभागमाहारेंति' त्ति शरीरतया परिणमन्ति, शेषास्तु किट्टीभूय मनुष्याभ्यवहृताहारवन्मलीभवन्ति, न शरीरत्वेन परिणमन्तीत्यर्थः । 'अनंतभागं आसाइंति'त्ति आहारतया गृहीतानामनन्तभागमास्वादयन्ति तद्रसादीन् रसनादीन्द्रियद्वारेणोपलभन्ते इत्यर्थः
२८
'सव्वाणि व’त्ति दारं, तत्र सर्वाण्येवाहारद्रव्याण्याहारयन्तीति वाच्यं, वाशब्दः समुच्चये, तच्चैवम्- 'नेरइयाणं भंते! जे पग्गले आहारत्ताए परिणमेंति ते किं सव्वे आहारेंति नो सव्वे आहरेति ?, गोया ! सव्वे अपरिसेसिए आहारेंति' इह विशिष्टग्रहणग्रहीता आहारपरिणामयोग्या एव ग्राह्याः, उज्झितशेषा इत्यर्थः, अन्यथा पूर्वापरसूत्रयोर्विरोधः स्यात्, इष्टा चैवं व्याख्या, यदाह"जं जह सुत्ते भणियं तहेव जइ तं वियालणा नत्थि ।
किं कालियानुओगो दिट्ठो दिट्ठिप्पहाणेहिं ॥
'कीस व भुज्जो २ परिणमंति' त्ति द्वारगाथापदं, तत्र 'कीस' त्ति पदावयवे पदसमुदायोपचारात् 'कीसत्ताए' त्ति दृश्यं, किंस्वतया-किंस्वभावतया की ध्शतया वा केन प्रकारेण किंस्वरूपतयेत्यर्थ वाशब्दः समुच्चये, 'भुज्जो' त्ति 'भूयो भूयः पुनः पुनः परिणमन्ति आहारद्रव्याणीति प्रकृतमित्येतदत्र वाच्यं तच्चैवम् ।
'नेरइया णं भंते ! जे पोग्गले आहारत्ताए गेण्हंति ते णं' तेसिं पोग्गला कीसत्ताए भुजो भुज्जो परिणमंति?, गो० सोइंदियत्ताए जाव फासिंदियत्ताए अणिट्ठत्ताए अकंतत्ताए अपियत्ताए अमणुन्नत्ताए अमणामत्ताए अणिच्छियत्ताए अभिज्झियत्ताए अहत्ताए नो उड्डत्ताए दुक्खत्ताए नो सुहत्ता एएसि भुज्जो भुज्जो परिणमंति' तत्र 'अनिष्टतया' सदैव तेषां सामान्येनावल्लभतया, तथा 'अकान्ततया' सदैव तद्भावेनाकमनीयतया, तथा 'अप्रियतया' सर्वेषामेव द्वेष्यतया, तथा ‘अमनोज्ञतया’ कथयाऽप्यमनोरमतया, तथा 'अमनोऽगम्यतया' चिन्त-याऽपि अमनोगम्यतया, तथा 'अनीप्सिततया' आप्तुमनिष्टतया एकार्थावैिते शब्दाः, 'एहिज्झिय-ताए 'त्ति अभिध्येयतया तृप्तेरनुत्पादकत्वेन पुनः पुनरप्यभिलाषनिमित्ततया, अहृद्यत्वेनेत्यन्ये, अशुभत्वेनेत्यर्थः, 'अहत्ताए 'त्ति गुरुपरिणामतया ' ने उत्ताए 'त्ति नो लघुपरिणामतयेति सङ्ग्रहगाथार्थः । इदं च सङ्ग्रहणिगाथाविवरणसूत्रं क्वचित् सूत्रपुस्तक एव दृश्यत इति ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org