SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ भगवतीअङ्गसूत्रं १/-19/१४ कार्यः, सर्वत्राभिधेयस्य तुल्यत्वात्, केवलं परिणतसूत्रानुसारेण प्रश्नसूत्राणि व्याकरणानि च मतिमताऽध्येयानीति, तत्र 'चिताः' शरीरे चयं गताः, ‘उपचिताः' पुनर्बहुशः प्रदेशसामीप्येन शरीरे चिता एवेति, उदीरितास्तुस्वभावतोऽनुदितान्पुद्गलानुदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् वेदयते, उदीरणा लक्षणंचेदम्-“जंकरणेणाकड्डिय उदए दिज्जइ उदीरणा एसा तथा 'वेदिताः' स्वेन रसविपाकेनप्रतिसमयमनुभूयमानाः अपरिसमाप्ताशेषानुभावाइति।तथा निर्जी' कात्स्येनानुसमयमशेषतद्विपाकहानियुक्ता इति। _ 'गाह'त्ति परिणतादिसूत्राणां संग्रहणाय गाथा भवति, सा चेयम् - मू. (१५) परिणय चिया उवचिय उदीरिया वेइया य निजिन्ना। एक्के कमि पदमि चउव्विहा पोग्गला होति। वृ. परिणयेत्यादि व्याख्यातार्था, नवरम्-एकैकस्मिन्पदेपरिणतचिपचितादौ चतुर्विधाः आहृताः १ आहृता आह्रियमाणाश्च२ अनाहृताआहरिष्यमाणाश्च ३अनाहृताअनाहरिष्यमाणाश्च ४, इत्येवं चतूरूपाः पुद्गला भवन्ति, प्रश्ननिर्वचनविषयाः स्युरिति । पुद्गलाधिकारादेवेमामष्टादशसूत्रीमाह मू. (१६) नेरइयाणं भंते ! कइविहा पोग्गला भिजंति ?, गोयमा ! कम्मदव्ववग्गणमहिकिच्च दुविहा पोग्गला भिजंति, तंजहा-अणू चेव बायरा चेव १। नेरइयाणं भंते ! कतिविहा पोग्गला चिजंति?, गोयमा! आहारदव्ववग्गणमहिकिच्च दुविहा पोग्गला चिजंति, तंजहा-अणूंचेव बायरा चेव २ । एवं उवचिजंति ३ । नेर० क० पो० उदीरेति ? गो० ! कम्मदव्ववग्गणमहिकिच दुविहे पोग्गले उदीरेंति, तं०-अणूंचेव बायरा चेव, सेसावि एवं चेव भाणियव्वा, एवं वेदेति ५ निजरेंति ६ उयष्टिंसु७ उव्वर्टेति ८ उव्वट्टिस्संति ९ संकामिंसु १० संकामेति ११ संकामिस्संति १२ निहत्तिसुं १३ निहत्तेति १४ निहत्तिस्संति १५ निकायंसु १६ निकायंति १७ निकाइस्संति १८ सव्वेसुवि कम्मदव्ववग्गणमहिकिच्च गाहा वृ. 'नेरइयाणंभंते! कइविहापोग्गला भिज्जंती' त्यादिव्यक्तं, नवरं भिजंति'तितीव्रमनदमध्यतयाऽनुभागभेदेन भेदवन्तो भवन्ति, उद्वर्तनकरणापवर्लकरणाभ्यां मन्दरसास्तीवरसाः तीव्ररसास्तुमन्दरसा भवन्तीत्यर्थः उत्तरम् ‘कम्मदव्ववग्गणमहिकिच्च'त्ति समानजातीयद्रव्याणां राशिर्द्रव्यवर्गणा, सा चौदारिकादिद्रव्याणामप्यस्तीत्यत आहकर्मरूपा द्रव्वर्गणा कर्मद्रव्याणां वावर्गणाकर्मद्रव्यवर्गणातामधिकृत्य-तामाश्रित्य, कर्मद्रव्यवर्गणासत्काइत्यर्थः कर्मद्रव्याणामेव च मन्देतरानुभावचिन्ताऽस्ति न द्रव्यान्तराणामितिकृत्वा कर्मद्रव्यवर्गणामधिकृत्येत्युक्तम् - 'अणूं चेव बायरा चेव'त्ति चेवशब्दः समुच्चायार्थः ततश्चाणवश्व बादराश्च, सूक्ष्माश्च स्थूलाश्चेत्यर्थः, सूक्ष्मत्वं स्थूलत्वं चैषां कर्मद्रव्यापेक्षयैवावगन्तव्यं नान्यापेक्षया, यत औदारिकादिद्रव्याणांमध्ये कर्मद्रव्याण्येव सूक्ष्माणीति। एवंचयोपचयोदीरणवेदननिर्जराःशब्दार्थभेदेन वाच्याः, किन्तु चयसूत्रे उपचयसूत्रेच आहारदव्ववग्गणमहिकिच्चे'ति यदुक्तंतत्रायमभिप्रायःशरीरमाश्रित्य चयोपचयौ प्राग्व्याख्यातो, तौचाहारद्रव्येभ्य एव भवतो नान्यतः, अत आहारद्रव्यवर्गणामधिकृत्येत्युक्तमिति, उदीरणादयस्तु कर्मद्रव्याणामेव भवन्त्यतस्तत्सूत्रेषूक्तं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy