________________
शतकं-७, वर्गः-, उद्देशकः-१
३१३
'अकयमकारियमसंकप्पियमणाहूयमकीयगडमणुटुिं' अकृत-साध्वर्थःमनिर्वर्तितं दायकेन, एवमकारितं दायकेनैव, अनेन विशेषणद्वयेनानाधाकर्मिकउपात्तः ‘असङ्कल्पितं' स्वार्थं संस्कुर्वता साध्वर्थःतया न सङ्कल्पितम्, अनेनाप्यनाधाकर्मिक एव गृहीतः, स्वार्थःमारब्धस्य साध्वर्थं निष्ठां गतस्याप्याधाकर्मिकत्वात्, न च विद्यते आहूतं-आह्वानमामन्त्रणं नित्यं मद्गृहे पोषमात्रमन्नं ग्राह्यमित्येवंरूपं कर्मकराद्याकारणं वा साध्वर्थं स्थानान्तरादन्नाद्यानयनाय यत्र सोऽनाहूतःअनित्यपिण्डोऽनभ्याहृतो वेत्यर्थः, स्पर्धा वाऽऽहूतं तन्निषेधादनाहूतो, दायकेनास्पर्द्धया दीयमानमित्यर्थः, अनेन भावतोऽपरिणताभिधानएषणादोषनिषेध उक्तोऽतस्तम् ‘अक्रीतकृतं' क्रयेण साधुदेयं न कृतम्, अनुद्दिष्टम्-अनौद्देशिकं, 'नवकोडीपरिसुद्धं'ति इह कोटयो विभागा स्ताश्चेमाः
बीजादिकं जीवं न हन्ति न घातयतिघ्नन्तं नानुमन्यते ३, एवं न पचति ३ न क्रीणाति ३ इत्येवंरूपाः, 'दसदोसविप्पमुक्कं ति दोषाः-शङ्कितभ्रक्षितादयः 'उग्गमुपायणेसणासुपरिसुद्धंति उद्गमश्च-आघाकर्मादि षोडशविधः उत्पादनाच-धात्रीदूत्यादिका षोडशविधैव उद्गमोत्पादने एतद्विषया या एषणा-पिण्डविशुद्धिस्तया सुष्ठु परिशुद्धो यः स उद्गमोत्पादनैषणा- सुपरिशुद्धोऽतस्तम्, अनेन चोक्तानुक्तसङ्ग्रहः कृतः, वीताङ्गारादीनि क्रियाविशेषणान्यपि भवन्ति प्रायोऽनेन च ग्रासैषणाविशुद्धिरुक्ता।
'असुरसुरं'तअनुकरणशब्दोऽयम्एमचवचवमित्यपि, ‘अदुयंतिअशीघ्रम् अविलंबियं'तिनातिमन्थरं 'अपरिसाडिंति अनवयवोज्झनम् 'अक्खोवंजणवणानुलेवणभूयंति अक्षोपाञ्जन च-शकटघूम्रक्षणं व्रणानुलेपनं च-क्षतस्यौषधेन विलेपनं अक्षोपाञ्जनव्रणानुलेपने ते इव विवक्षितार्थःसिद्धिरसादिनिरभिष्वङ्गतासाधादयः सोऽक्षोपाञ्जनवणानुलेपनभूतोऽतस्तं, क्रियाविशेषणं वा, ‘संजमजायामायावत्तिय'ति संयमयात्रा-संयमानुपालनं सैव मात्रा-आलम्बनसमूहांशः संयमयात्रामात्रा प्रत्ययो यत्र स तथाऽतस्तं संयमयात्रामात्राप्रत्ययं वा यथा भवति, एतदेव वाक्यान्तरेणाह।
'संयमभारवहणट्टयाए'त्ति संयम एव भारस्तस्य वहन-पालनंसएवार्थःसंयमभारवहनार्थः स्तद्भावस्तत्तातस्यै, 'बिलमिव पन्नगभूएणंअप्पाणेणं'तिबिले इव-रन् इव ‘पन्नगभूतेन' सर्पकल्पेन
आत्मना करणभूतेनाहारमुक्तविशेषणम् ‘आहारयति' शरीरकोष्ठके प्रक्षिपति, यथा किल बिले सर्पआत्मानं प्रवेशयति पावनिसंस्पृशन् एवंसाधुर्वदनकन्दरपानिसंस्पृश-न्नाहारेण तदसञ्चारणतो जठरबिले आहारं प्रवेशयतीति । __“एसणं'ति एषः'अनन्तरोक्तविशेषणआहारः शस्त्रातीतादिविशेषणस्य पानभोजनस्य अर्थः-अभिधेयः प्रज्ञप्त इति ॥
शतकं-७ उद्देशकः-१ समाप्तः
-शतकं-७ उद्देशकः-२:वृ.प्रथमोद्देशके प्रत्याख्यानिनो वक्तव्यतोक्ता द्वितीये तु प्रत्याख्यानं निरूपयन्नाह
मू. (३३९) से नूनं भंते ! सव्वपाणेहिं सव्वभूएहिं सववजीवेहिं सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स सुपच्चक्खायंभवतिदुपच्चक्खायंभवति?, गोयमा! सव्वपाणेहिंजाव सव्वसत्तेहिं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org