________________
भगवती अङ्गसूत्रं ७/-/१/३३७
कुक्कुट्यण्डकप्रमाणमात्रान् कवलानाहारम् 'आहारयति' कुर्वति साधौ 'अल्पाहारः' स्तोकाहारः, चतुर्थाशरूपत्वात्तस्य, एवमुत्तरत्रापि 'आहारेमाणे' इत्येतत्पदं प्रथमैकवचनान्तं सप्तम्येकवचनान्तं वा व्याख्येयम् ।
३१२
'अवड्डोमोयरिय'त्ति अवमस्य ऊनस्योदरस्य करणमवमोदरिका, अपकृष्टं किञ्चिदूनमर्द्ध यस्यां साऽपार्द्धा द्वात्रिंशत्कवलापेक्षया द्वादशानामपार्द्धरूपत्वात् अपार्द्धा चासाववमोदरिका चेति समासः सा भवतीत्येवं सप्तम्यन्तव्याख्यानं नेयं, प्रथमान्तव्याख्यानं तु धर्म्मधर्मिणोरभेदादपार्द्धावमौदरिकः साधुर्भवतीत्येवं नेतव्यं, 'दुभागप्पत्ते' त्ति द्विभागः - अर्द्ध तत्प्राप्तो द्विभागप्राप्त आहारो भवतीति गम्यं, द्विभागो वा प्राप्तोऽनेनेति द्विभागप्राप्तः साधुर्भवतीति गम्यम् ।
'ओमोयरिय'त्तिअवमोदरिका भवति धर्म्मधर्म्मिणोरभेदाद्वाऽवमोदरिकः साधुर्भवतीति गम्यं, 'पकामरसभोइ' त्ति प्रकामं अत्यर्थं रसानां मधुरादिभेदानां भोगी-भोक्ता प्रकारमरसभोगीति मू. (३३८) अह भंते! सत्थातीयस्स सत्थपरिणामियस्स एसियस्स वेसियस्स समुदानियस्स पाणभोयणस्स के अट्ठे पन्नत्ते ?
गोयमा ! जे णं निग्गंथे वा निग्गंधी वा निक्खित्तसत्थमुसले ववगयमालावन्नगविलेवणे ववगयचुयइयत्तत्तदेहं जीवविप्पजढं अकयमकारियमसंकप्पियमणाहूयमकीयकडमणुि नवकोडीपरिसुद्धं दसंदोसविप्पमुक्कं उग्गमुप्पायसेसणासुपरिसुद्धं वीतिंगालं वीतधूमं संजोयणादोसविप्पमुक्कं असुरसुरं अचवचवं अदुयमविलंबियं अपरिसाडी अक्खोवंजणवणाणुलेवणभूयं संयमजायामायावत्तियं संजमभारवहणट्टयाए बिलमिव पन्नगभूएणं अप्पाणेणं आहारमाहारेति एस णं गोयमा ! सत्थातीयस्स सत्थपरिणामियस्स जाव पाणभोयणस्स अयमट्टे पन्नत्ते ।
सेवं भंते! सेवं भंते! त्ति ।।
वृं. 'सत्थातीतस्स 'त्ति शश्त्राद् - अग्न्यादेरतीतं उत्तीर्णं शस्त्रातीतम्, एवंभूतं च तथाविधपृथुकादिवदपरिणतमपि स्यादत आह- 'सत्थपरिणामियस्स' त्ति वर्णादीनामन्यथाकरणेनाचित्तीकृतस्येत्यर्थः, अनेन प्रासुकत्वमुक्तम्, 'एसियस्स' त्ति एषणीयस्य गवेषणाविशुद्धया वागवेषितसय 'वेसियस्स' त्तिविशेषेण विविधैर्वा प्रकारैरेषितं व्येषितं ग्रहणैषणाग्रासैषणाविशोधितं तस्य, अथवा वेषो - मुनिनेपथ्यं स हेतुलाभे यस्य तद्वैषिकम् आकारमात्रदर्शनादवाप्तं न त्वावर्जनया, अनेन पुनरुत्पादनादोषापोहमाह, 'सामुदानियस्स' त्ति ततस्ततो भिक्षारूपस्य, किंभूतो निर्ग्रन्थः ? इत्याह'निक्खित्तसत्थमुसले 'त्ति त्यक्तखङ्गादिशस्त्रमुशलः 'ववगयमालावन्नगविलेवणे'त्ति व्यपगतपुष्पमालाचन्दनानुलेपनः, स्वरूपविशेषणे चेमे न तु व्यवच्छेदार्थे, निर्ग्रन्थानामेवंरूपत्वादेवेति, ‘ववगयचुयचइयचत्तदेहं' ति व्यपगताः- स्वयं पृथग्भूता भोज्यवस्तुसंभवा आगन्तुका वा कृम्यादयः च्युता-मृताः स्वत एव परतो वाऽभ्यवहार्यवस्त्वात्मकाः पृथिवीकायिकादयः 'चइय'त्ति त्याजिता-भोज्यद्रव्यात्पृथक्कारिता दायकेन 'चत्त 'त्ति स्वयमेव दायकेन त्यक्ता-भक्ष्यद्रव्यात्पृथक्क ता ‘देहा' अभेदविवक्षया देहिनो यस्मात् स तथा तमाहारं, वृद्धव्याख्या तु व्यपगतः - ओघतश्चेतनापर्यायादपेतः च्युतः- जीवनक्रियातो भ्रष्टः च्यावितः स्वत एवायुष्कक्षयेण भ्रंशितः त्यक्तदेह :परित्यक्तजीवसंसर्गजनिताहारप्रभवोपचयः,
- तत एषां कर्म्मधारयोऽतस्तं, किमुक्तं भवति ? इत्याह- 'जीवविप्पजढं' ति प्रासुकमित्यर्थः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International