________________
शतकं -६, वर्ग:-, उद्देशकः-८
३०१
पीतादीनि देवादीनि वा 'सुभागंध' त्ति सुरभिगन्धभेदाः गन्धवन्तो वा कर्पूरादयः 'सुभा रस' त्ति मधुरादयः रसवन्तो वा शर्करादयः 'सुभाफास 'त्ति मृदुप्रभृतयः स्पर्शवन्तो वा नवनीतादयः
'एवं नेयव्वा सुभानाम'त्ति एवमिति - द्वीपसमुद्राभिधायकतया नेतव्यानि शुभनामानि पूर्वोक्तानि, तथा 'उद्धारो' त्ति द्वीपसमुद्रेषूद्धारो नेतव्यः, स चैवम्- 'दीवसमुद्दा णं भंते! केवइया उद्धारसमएणं पन्नत्ता ?, गोयमा ! जावइया अड्डाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया एवइया दीवसमुद्दाउद्धारसमएणं पन्नत्ता' येनैकैकेन समयेन एकैकं वालाग्रमुद्धियतेऽसावुद्धारसमयोऽतस्तेन ।
तथा 'परिणामो’त्ति परिणामो नेतव्यो द्वीपसमुद्रेषु, स चैवम् -'दीवसमुा णं भंते! किं पुढविपरिणामा आउपरिणामा जीवपरिणामा पोग्गलपरिणामा ?, गोयमा ! पुढवीपरिणामावि आउपरिणामावि जीवपरिणामावि पोग्गलपरिणामावी' त्यादि ।
तथा 'सव्वजीवाणं' ति सर्वजीवानां द्वीपसमुद्रेषूत्पादो नेतव्यः, स चैवम्- 'दीवसमुद्देसु णं भंते! सव्वे पाणा ४ पुढविकाइयत्ताए जाव तसकाइयत्ताए उववन्नपुव्वा ?, हंता गोयमा ! असई अदुवा अनंतखुत्तो 'ति ॥
शतकं -६ उद्देशकः-८ समाप्तः
-: शतर्क- ६ उद्देशक:- ९:
वृ. द्वीपादिषु जीवाः पृथिव्यादित्वेनोत्पन्नपूर्वा इत्यष्टमोद्देशके उक्तं, नवमे तूत्पादस्य कर्मबन्धपूर्वकत्वादसावेव प्ररूप्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
मू. (३१७) जीवे णं भंते! नाणावरणज्जं कम्मं बंधमाणे कति कम्मप्पगडीओ बंधति ?, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा छव्विहबंधए वा, बंधुहेसो पन्नवणाए नेयव्वो
वृ. 'जीवेण' मित्यादि, 'सत्तविहबंधए' आयुर्बन्धकाले 'अट्ठविहबंधए 'त्ति आयुर्बन्धकाले 'छव्विहबंधए 'त्ति सूक्ष्मसम्परायावस्थायां मोहायुषोरबन्धकत्वात् ।
‘बंधुद्देसो' इत्यादि, बन्धोद्देशकः प्रज्ञापनायाः सम्बन्धी चतुर्विंशतितमपदात्मकोऽत्र स्थाने 'नेतव्यः' अध्येतव्यः, स चायम्- 'नेरइए णं भंते! नाणावरनिज्जं कम्मं बंधमाणे कइ कम्मपगडीओ बंधइ ?, गोयमा ! अट्ठविहबंधगे वा सत्तविहबंधगे वा एवं जाव वेमानिए, नवरं मणुस्से जहा जीवे' इत्यादि ॥ जीवाधिकारादेवजीवमधिकृत्याह
मू. (३१८) देवे णं भंते ! महिड्डीए जाव महानुभाए बाहिरए पोग्गले अपरियाइत्ता पभू एगवन्नं एगरूवं विउव्वित्तए ?, गोयमा ! नो तिणट्टे० । देवे णं भंते ! बाहिरए पोग्गले परियाइत्ता पभू ?, हंता पभू, से णं भंते! किं इहगए पोग्गले परियाइत्ता विउव्वति तत्थगए पोग्गले परियाइत्ता विकुव्वति अन्नत्थगए पोग्गले परियाइत्ता विउव्वति ?, गोयमा ! नो इहगए पोग्गले परियाइत्ता विउव्वति, तत्थगए पोग्गले परियाइत्ता विकुव्वति, नो अन्नत्थगए पोग्गले परियाइत्ता विउव्वति, एवं एएणं गमेणं जाव एगवन्नं एगरूवं १ एगवन्नं अणेगरूवं २ अनेगवन्नं एगरूवं ३ अनेगवन्नं अनेगरूवं ४ चउभंगो ।
देवे णं भंते ! महिड्डीए जाव महानुभागे बाहिरए पोग्गले अपरियाइत्ता पभू कालयं पोग्गलं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International