________________
शतकं -६, वर्ग:-, उद्देशकः-५
२८७
सङ्ख्यातयोजनमानं व्यतिव्रजेदितरं तु नेति । 'ओराला बलाहय'त्ति महान्तो मेघाः 'संसेयंति 'त्ति संस्विद्यन्ते तज्ञ्जनकपुद्गलस्नेहसम्पत्या संमूर्च्छन्ति तत्पुद्गलमीलनात्तदाकारतयोत्पत्तेः । 'तं भंते' त्ति तत् संस्वेदनं संमूर्छनं वर्षणं च ।
'बायरे विजुयारे 'त्ति, इह न बादरतेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमाणत्वात्, किन्तु देवप्रभावजनिता भास्वराः पुद्गलास्त इति, 'नन्नत्थ विग्गहगईसमावन्नेणं'ति न इति योऽयं निषेधो बादरपृथिवीतेजसोः सोऽन्यत्र विग्रहगतिसमापन्नानविग्रहत्यैव बादरे ते भवतः, पृथिवी हि बादरा रत्नप्रभाद्यास्वष्टासु पृथिवीषु गिरिवमानेषु, तेजस्तु मनुजक्षेत्र एवेति, तृतीया चेह पञ्चम्यर्थे प्राकृतत्वादिति, 'पलियस्सओ पुण अत्थि' त्ति परिपार्श्वतः पुनः सन्ति तमस्कायस्य चन्द्रादय इत्यर्थः, ‘कादूसनिया पुण सा' इति ननु त्पार्श्वतश्चन्द्रादीनां सद्भावात्तप्रमाऽपि तत्रास्ति सत्यं, केवलं कम् - आत्मानं दूषयति तमस्कायपरिणामेन परिणमनात् कदूषणा सैव कदूषनिका, दीर्घता च प्राकृतत्वात्, अतः सत्यप्यसावसतीति, 'काले 'त्ति कृष्ण- 'कालावभासे' त्ति कालोऽपि कश्चित् कुतोऽपि कालो नावभासत इत्यत आह- कालावभासः कालदीप्तिर्वा 'गंभीरलोभहरिसजणणे' त्ति गम्भीरश्चासौ भीषणत्वाद्रोमहर्षजननश्चेति गम्भीररोमहर्षजननः, रोमहर्षजनकत्वे हेतुमाह
'भीमे 'त्ति भीष्मः 'उत्तासणए' त्ति उत्कम्पहेतुः, निगमयन्नाह - 'परमे 'त्यादि, यत एवमत एवाह- 'देवेविण 'मित्यादि, 'तप्पढमयाए' त्ति दर्शनप्रथमतायां 'खुभाएज' त्ति 'स्कभ्नीयात्' क्षुभ्येद्, 'अहेण’मित्यादि अथ‘एनं' तमस्कायम् 'अभिसमागच्छेत्' प्रविशेत्ततो भयात् 'सीहं' ति काययतेरतिवेगेन 'तुरियं तुरियं' ति मनोगतेरतिवेगात् किमुक्तं भवति ? क्षिप्रमेव, 'वीइवएज' त्ति व्यतिव्रजेदिति ॥
'तमेति वे'त्यादि, तमः अन्धकाररूपत्वात् इत्येतत् 'वा' विकल्पार्थः, तमस्काय इति वाऽन्धकारराशिरूपत्वात्, अन्धकारमिति वा तमोरूपत्वात्, महान्धकारमिति वा महातमोरूपत्वात्, लोकान्धकारमिति वा लोकमध्ये तथाविधस्यान्यस्यान्धकारस्याभावात्, एवं लोकतमिश्रमिति वा, देवान्धकारमिति वा देवानामपि तत्रोद्योताभावेनान्धकारात्मकत्वात्, एवं देवतमिश्रमिति वा, देवारण्यमित वा, बलवद्देवभयान्नश्यतां देवानां तथाविधारण्यमिव शरणभूतत्वात्, देवव्यूह इति वा देवानां दुर्भेदत्वाद्वयूह इव-चक्रादिव्यूह इव देवव्यूहः, देवपरिघ इति वा देवानां भयोत्पादकत्वेन गमनविघातहेतुत्वात्, देवप्रतिक्षोम इति वा तत्क्षोभहेतुत्वात्, अरुणोदक इति वा समुद्रः, अरुणोदकसमुद्रजलविकारत्वादिति ।
पूर्वं पृथिव्यादेस्तमस्कायशब्दवाच्यता पृष्टा अथ पृथिव्यप्कायपर्यायतां पृथिव्यपकायी च जीवपुद्गलरूपाविति तत्पर्यायतां च प्रश्नयन्नाह - 'तमुक्काएण' -मित्यादि, बादरवायुवनस्पतयसाश्च तत्रोत्पद्यन्तेऽपकाये तदुत्पत्तिसम्भवान्न त्वितरेऽस्वस्थानत्वात्, अत उक्तं 'नो नेव ण' मित्यादि ।
तमस्कायसादृश्यात्कृष्णराजिप्रकरणम्
मू. (२९२) कति णं भंते! कण्हराईओ पन्नत्ताओ ?, गोयमा अट्ठ कण्हराईओ पन्नत्ताओ। कहि णं भंते! एयाओ अट्ठ कण्हराईओ पन्नत्ताओ ?, गोयमा ! उप्पिं सणकुमारमाहिंदाणं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International