________________
२८६
भगवतीअगसूत्रं ६/-/५/२९१ वादेवंधकारेति वा देवतमिस्सेति वा देवारन्नेति वा देववूहेति वा देवफलिहेति वा देवपडिक्खोमेति वा अरुणोदएति वा समुद्दे।
तमुकाए णं भंते ! किं पुढवीपरिणांमे आउपरिणामे जीवपरिणामे पोग्गलपरिणामे ?, गोयमा ! नो पुढविपरिणामे आउपरिणामेवि जीवपरिणामेवि पोग्गलपरिणामेवि । तमुकाए णं भंते ! सव्वे पाणा भूया जीवा सत्ता पुढविकाइयत्ताए जाव तसकाइयत्ताए उववन्नपुव्वा ?, हंता गो०! असतिं अदुवा अनंतखुत्तो नो चेवणं बादरपुढविकाइयत्ताए बादरअगनिकाइयत्ताए वा
वृ. 'किमिय'मित्यादि, ‘तमुक्काए'त्ति तमसां-तमिश्रपुद्गलानां कायो-राशिस्तमस्कायः सच नियत एवेह स्कन्धः कश्चिद्विवक्षितः,सचताद्दशः पृथ्वीरजःस्कन्धो वा स्यादुदकरजःस्कन्धो वा न त्वन्यस्तदन्यस्याताद्दशत्वादिति पृथिव्यविषयसन्देहादाह-'किं पुढवी'त्यादि, व्यक्तं, 'पुढविकाएण'मित्यादि, पृथिवीकायोऽस्त्येककः कश्चिच्छुमो-भास्वरः, यः किंविधः? इत्याहदेशं विवक्षितक्षेत्रस्य प्रकाशयति भास्वरत्वान्मण्यादिवत्, तथाऽस्त्येककः पृथवीकायो देशपृथिवीकायान्तरं प्रकाश्यमपि न प्रकाशयत्यभास्वरत्वादन्धोपलवत्, नैवं पुनरप्कायस्तस्य सर्वस्याप्यप्रकाशकत्वात्, ततश्च तमस्कायस्य सर्वथैवाप्रकाशकत्वादप्कायपरिणामतैव।
“एगपएसियाए'त्ति एक एव च न द्वयादय उत्तराधर्यं प्रति प्रदेशो यस्यां सा तथा तया, सममित्तितयेत्यर्थः, नच वाच्यमेकप्रदेशप्रमाणयेति, असङ्ख्यातप्रदेशावगाहस्वभावत्वेन जीवानां तस्यां जीवावगाहाभावप्रसङ्गात्, तमस्कायस्य च स्तिबुकाकाराप्कायिकजीवात्मकत्वात् बाहल्यमान-स्य चप्रतिपादयिष्यमाणत्वादिति, 'इत्थणं'ति प्रज्ञापकालेख्यलिखितस्यारुणोदसमुद्रादेरधिकरण-तोपदर्शनार्थःमुक्तत्वात्, ‘अहे'इत्यादि, अधः-अधस्तान्मल्लकमूलसंस्थितः-शरावबुजसंस्थानः, समजलान्तस्योपरि सप्तदश योजनशतान्येकविंशत्यधिकानि यावद्वलयसंस्थानत्वात्
"केवइयं विक्खंभेणं'ति विस्तारेण क्वचिद् 'आयामविक्खंभेणं'ति दृश्यते, तत्र चायामउच्चत्वमिति । ‘संखेजवित्थडे' इत्यादि, सङ्ख्यातयोजनविस्तृतः, आदितआरभ्योर्ध्वंसद्ध्येययोजनानि यावत्ततोऽसङ्ख्यातयोजनविस्तृत उपरि तस्य विस्तारगामित्वेनोक्तत्वात्, 'असंखेज़ाइं जोयणसहस्साइंपरिक्खेवेणं'ति सङ्ख्यातयोजनविस्तृतत्वेऽपि तमस्कायस्यासङ्ख्याततमद्वीपररिक्षेपतोबृहत्तरत्वात्परिक्षेपस्यासङ्ख्यातयोजनसहप्रमाणत्वम्, आन्तरवहिपरिक्षेपविभागस्तुनोक्तः, उभयस्याप्यसङ्ख्याततया तुल्यत्वादिति।
___'देवेण'मित्यादि, अथ किंपर्यन्तमिदं देवस्य महद्धर्यादिकं विशेषणम् ? इत्याह-जाव इणामेवे'त्यादि, इह यावच्छब्द एदम्पयर्थः, यतोदेवस्य महद्धर्यादिविशेषणानि गमनसामर्थ्यप्रकर्षप्रतिपादनाभिप्रायेणैव प्रतिपादितानि 'इणामेवत्तिकडे' इदंगमनमेवम्-अतिशीघ्रत्वावेदकचप्पुटिकारूपहस्तव्यापारोपदर्शनपरम्, अनुस्वाराश्रवणंचप्राकृतत्वाद्विर्वचनंच शीघ्रत्वातिशयोपदर्शनपरमिति-उपदर्शनार्थः ‘कृत्वा विधायेति, 'केवलकप्पंति केवलज्ञानकल्पंपरिपूर्णमित्यर्थः, वृद्धव्याख्यातु-केवलः-संपूर्ण कल्पत इति कल्पः-स्वकार्यकरणसमर्थो वस्तुरूपइतियावत्, केवलश्चासौ कल्पश्चेति केवलकल्पस्तं।
_ 'तिहिं अच्छरानिवाएहिं ति तिसृभिश्चप्पुटिकाभिरित्यर्थः 'तिसत्तखुत्तो'त्ति त्रिगुणाः सप्त त्रिसप्त त्रिसप्तवारांस्त्रिसप्तकृत्व एकविंशतिवारानित्यर्थः ‘हव्वं तिशीघ्रम् ‘अत्थेगइय'मित्यादि,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org