SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २८३ शतकं-६, वर्गः-, उद्देशकः-४ च कर्तुं समर्थो भवति तस्य करणस्य निष्पत्तिराहारपर्याप्तिः, करणं शक्तिरिति पर्यायौ, तथा शरीरपर्याप्ति म येन करणेनौदारिकवैक्रियहारकाणां शरीराणां योग्यानि द्रव्यानि गृहीत्वौदारिकादिभावेन परिणमयति तस्य करणस्य निर्वृत्ति शरीरपर्याप्तिरिति, तथा येन करणेनैकादीनामिन्द्रियाणां प्रायोग्यानि द्रव्यानि गृहीत्वाऽऽत्मीयान् विषयान् ज्ञातुं समर्थो भवति तस्य करणस्य निर्वृत्तिरिन्द्रियपर्याप्तिः, तथा येन करणेनानप्राणप्रायोग्यानिद्रव्याण्यवलम्ब्यानप्राणतया निःस्रष्टुं समर्थो भवतितस्य करणस्य निर्वृत्तिरानप्राणपर्याप्तिरिति, तथायेन करणेन सत्यादिभाषाप्रायोग्यानि द्रव्याण्यवलम्ब्यावलम्ब्य चतुर्विधया भाषया परिणम्य भाषानिसर्जनसमर्थो भवति तस्य करणस्य निष्पत्तिर्भाषापर्याप्तिः, तथा येन करणेन चतुर्विधमनोयोग्यानि द्रव्यानि गृहीत्वा मननसमर्थो भवति तस्य करणस्य निष्पत्तिर्मनःपर्याप्तिरिति। ‘आहारअप्पज्जत्तीए'इत्यादि, इह जीवपदे पृथिव्यादिपदेषु च सप्रदेशाचाप्रदेशाश्चेत्येक एव भङ्गकोऽनवरतं विग्रहगतिमतामाहारापर्याप्तिमतांबहूनांलाभात्, शेषेषुच षड्भङ्गाः पूर्वोक्ता एवाहारपर्याप्तिमतामल्पत्वात्, ‘सरीरअपज्जत्तीए'इत्यादि, इहजीवेष्वेकेन्द्रियेषुचैवएव भङ्गोऽन्यत्र तु त्रयं, शरीराद्यपर्याप्तकानां कालतः सप्रदेशानां सदैव लाभात् अप्रदेशानां च कदाचिदेकादीनां च लाभात्, नारकदेवमनुष्येषु च षडेवेति। “भासे'त्यादि, भाषामनःपर्याप्तयाऽपर्याप्तकास्ते येषां जातितो भाषामनोयोग्यत्वे सति तदसिद्धिः, ते च पञ्चेन्द्रिया एव, यदि पुनर्भाषामनसोऽभावमात्रेण तदपर्याप्तका अभविष्यंस्तदैकेन्द्रिया अपितेऽभविष्यंस्ततश्च जीवपदे तृतीय एव भङ्गः स्यात्, उच्यतेच-'जीवाइओ तियभंगो'त्ति, तत्र जीवेषु पञ्चेन्द्रियतिर्यक्षुच बहूनां तदपर्याप्तिं प्रतिन्नानां प्रतिपद्यमानानां चैकादीनां लाभात् पूर्वोक्तमेव भङ्गत्रयं, ‘नेरदयदेवमणुएसु छब्भंग'त्ति नैरयिकादिषु मनोऽपर्याप्तिकानामल्पतरत्वेन सप्रदेशानामेकादीनांलाभात्तएवषड्भङ्गाः, एषुचपर्याप्त्यपर्याप्तिदण्डकेषुसिद्धपदं नाध्येयमसम्भवादिति पूर्वोक्तद्वाराणां सङ्ग्रहगाथा-- मू. (२८७) सपदेसा आहारगभवियसनिलेस्सा दिट्ठी संजयकसाए। नाणे जोगुवओगे वेदे य सरीरपज्जत्ती॥ वृ. 'सपएसे'त्यादि, सपएस'त्तिकालतोजीवाः सप्रदेशाः इतरेचैकत्वबहुत्वाभ्यामुक्ताः, 'आहारगत्ति आहारका अनाहारकाश्चतथैव, भविय'त्तिभव्या अभव्या उभयनिषेधाश्चतथैव, 'सन्नित्ति सज्ञिनोऽसज्ञिनो द्वयनिषेधवन्तश्च तथैव, 'लेस'त्ति सलेश्याः कृष्णादिलेश्याः अलेश्याश्च तथैव, दिद्वित्ति दृष्टि सम्यगदृष्टयादिका ३ तद्वन्तस्तथैव ‘संजय'त्ति संयता असंयता मिश्रायनिषेधिनश्च तथैव ,। -'कसाय'त्ति कषायिणः क्रोधादिमन्तः ४ अकषायाश्च तथैव, ‘नाणे'त्ति ज्ञानिनः आभिनिबोधिकादिज्ञानिनः ५ अज्ञानिनो मत्यज्ञानादिमन्तश्च ३ तथैव, 'जोग'त्ति सयोगाः, मनआदियोगिनः अयोगिनश्च तथैव, ‘उवओगे'त्ति साकारनाकारोपयोगास्तथैव, 'वेद'त्ति सवेदाः स्त्रीवेदादिमन्तः३अवेदाश्चतथैव, ससरीर'त्तिसशरीराऔदारिकादिमन्तः ५अशरीराश्चतथैव, पज्जत्ति'त्ति आहारादिपर्याप्तिमन्तः ५ तदपर्याप्तकाश्च ५ तथैवोक्ता इति । जीवाधिकारादेवाह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy