SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २८२ भगवतीअङ्गसूत्रं ६/-/४/२८६ त्वेकसमयोपयोगित्वेऽपि साकारस्येतरस्य चोपयोगस्यासकृत्प्राप्तया सप्रदेशत्वं सकृत्प्राप्तया चाप्रदेशत्वमवसेयम्, एवंचासकृदवाप्तसाकारोपयोगान्बहूनाश्रित्य सप्रदेशा इत्येको भङ्गः, तानेव सकृदवाप्तसाकारोपयोगंचैकमाश्रित्य द्वितीयः, तथातानेवसकृदवाप्तसाकारोपयोगांश्चबहूनधिकृत्य तृतीयः, अनाकारोपयोगे त्वसकृत्प्राप्तानाकारोपयोगानाश्रित्यप्रथमः,तानेवसकृप्राप्तानाकारोपयोगं चैकमाश्रित्य द्वितीयः, उभयेषामप्यनेकत्वे तृतीय इति। ‘सवेयगा जहा सकासाइ'त्ति सवेदानामपि जीवादिपदेषु भङ्गकत्रयभावात्, एकेन्द्रियेषु चैकभङ्गसद्भावात्, इहच वेदप्रतिपन्नान्बहून श्रेनिभ्रंशे च वेदंप्रतिपद्यमानकादीनपेक्ष्य भङ्गकत्रयं भावनीयम्, 'इत्थीवेयगे'त्यादि, इह वेदावेदान्तरसङ्क्रान्तौ प्रथमे समयेऽप्रदेशत्वमितरेषु च सप्रदेशत्वमवगम्य भङ्गकत्रयं पूर्ववद्योज्यं नपुंसकवेददण्डकयोस्त्वेकेन्द्रियेष्वेको भङ्गः सप्रदेशाश्चाप्रदेशाश्चेत्येवंरूपःप्रागुक्तयुक्तरेवेति, स्त्रीदण्डकपुरुषदण्डकेषुदेवपञ्चेन्द्रियतिर्यग्मनुष्यपदान्येव, नपुंसकदण्डकयोस्तु देववर्जानि वाच्यनि, सिद्धपदं च सर्वेष्वपि न वाच्यमिति । “अवेयगा जहा अकसाइत्ति जीवमनुष्यसिद्धपदेषु भङ्गकत्रयमकषायिवद्वाच्यमित्यर्थः 'ससरीरीजहा ओहिओ'त्ति औधिकदण्डकवत्सशरीरिदण्डकयोर्जीवपदे सप्रदेशतैव वाच्याऽनादित्वात्सशरीरत्वस्य, नारकादिषुतुबहुत्वे भङ्गकत्रयमेकेन्द्रियेषु तृतीयभङ्ग इति । ___'ओरालियवेउव्वियसरीराणंजीवेगिंदियवज्जो तियभंगो'त्ति औदारिकादिशरीरिसत्त्वेषु जीवपदे एकेन्द्रियपदेषु च बहुत्वे तृतीयभङ्ग एव, बहूनां प्रतिपन्नानां प्रतिपद्यमानानां चानुक्षणं लाभात्, शेषेषु भङ्गकत्रयं, बहूनां तेषु प्रतिपन्नानां तथौदारिकवैक्रियत्यागेनौदारिकं वैक्रियं च प्रतिपद्यमानानामेकादीनां लाभात्, इहौदारिकदण्डकयोनरिका देवाश्च न वाच्याः, वैक्रियदण्डकयोस्तु पृथिव्यप्तेजोवनस्पतिविकलेन्द्रिया न वाच्याः, यश्च वैक्रियदण्डके एकेन्द्रियपदे तृतीयभङ्गोऽभिधीयतेसवायूनामसङ्ख्यातानांप्रतिसमयं वैक्रियकरणमाश्रित्य, तथा यद्यपि पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च वैक्रियलब्धिमन्तोऽल्पेतथाऽपि भङ्गकत्रयवचनसामर्थ्याद्बहूनां वैक्रियावस्थानसम्भवः, तथैकादीनां तत्प्रतिपद्यमानता चावसेया। 'आहारगे'त्यादि, आहारकशरीरे जीवमनुष्ययोः षड् भङ्गकाः पूर्वोक्ता एव, आहारकशरीरिणामल्पत्वात्, शेषजीवानांतु तन्न संभवतीति, 'तेयगे'त्यादि, तैजसकार्मणशरीरे समाश्रित्य जीवादयस्तथा वाच्या यथौघिकास्त एव, तत्र चजीवाः सप्रदेशा एव वाच्याः, अनादित्वात्तैजसादिसंयोगस्य, नारकादयस्तु त्रिभङ्गाः, एकेन्द्रियास्तुतृतीयाभङ्गाः, एतेषुच सशरीरादिदण्डकेषु सिद्धपदं नाध्येयमिति, 'असरीरे' त्यादि अशरीरेषु जीवादिषु सप्रदेशतादित्वेन वक्तव्येषु जीवसिद्धपदयोः पूर्वोक्ता त्रिभङ्गी वाच्या, अन्यत्राशरीरत्वस्याभावादिति। __'आहारपज्जत्तीए' इत्यादि, इह च जीवपदे पृथिव्यादिपदेषु च बहूनामाहारदिपर्याप्तीः प्रतिपन्ननां तदपर्याप्तित्यागेनाहारपर्याप्त्यादिभिः पर्याप्तिभावं गच्छतां च बहूनामेव भावात्सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गः, शेषेषु तुत्रयो भङ्गा इति, भासामणे'त्यादि, इह भाषामनसोः पर्याप्तिाषामनःपर्याप्ति, भाषामनःपर्याप्तयोस्तु बहुश्रुताभिमतेन केनापि कारणेनैकत्वं विवक्षितं, ततश्च तया पर्याप्तका यथा सज्ञिनस्तथा सप्रदेशादितयावाच्याः, सर्वपदेषु भङ्गकत्र-यमित्यर्थः, पञ्चेन्द्रियपदान्येव चेह वाच्यानि, पर्याप्तीनां चेदं स्वरूपमाहुः-येन करणेन भुक्तमाहारं खलं रसं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy