SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ शतकं -६, , वर्गः-, उद्देशकः-४ २७९ त्रिभङ्गवन्तः, एकेन्द्रियाः पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येकभङ्ग एवेति, सिद्धपदं तु न वाच्यं, सिद्धानां भव्याभव्यविशेषणानुपपत्तेरिति । तथा ‘नोभवसिद्धियनोअभवसिद्धिय'त्ति एतद्विशेषणं जीवादिदण्डकद्वयमध्येयं, तत्र चाभिलापः-‘नोभवसिद्धीएनो अभवसिद्धिए णं भंते! जीवे सप्पएसे अप्पएसे ?' इत्यादि, एवं पृथक्त्वदण्डकोऽपि केवलमिह जीवपदं सिद्धपदं चेति द्वयमेव, नारकादिपदानां नोभव्यनोअभव्यविशेषणस्यानुपपत्तेरिति, इह च पृथक्त्वदण्डके पूर्वोक्तं भङ्गकत्रयमनुसर्त्तव्यमत एवाह'जीवसिद्धेहिं तियभंगो' त्ति । सञ्ज्ञिषु यौ दण्डकौ तयोर्द्वितीयदण्डके जीवादिपदेषु भङ्गत्रयं भवतीत्यत आह‘सन्नीहि’इत्यादि, तत्र सञ्ज्ञिनो जीवाः कालतः सप्रदेशा भवन्ति चिरोत्पन्नानपेक्ष्य उत्पादविरहानन्तरं चैकस्योत्पत्तौ तप्राथम्यो सप्रदेशाश्चाप्रदेशश्चेति स्यात्, बहूनामुत्पत्तिप्राथम्ये तु सप्रदेशाश्चाप्रदेशाश्चेति स्यात्, तदेवं भङ्गकत्रयमिति, एवं सर्वपदेषु, केवलमेतयोर्दण्डकयोरेकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यानि तेषु सञ्ज्ञिविशेषणस्यासम्भवादिति, 'असन्नीहिं' इत्यादि, अयमर्थः-असञ्ज्ञिषु-असञ्ज्ञिविषये द्वितीयदण्डके पृथिव्यादिपदानि वर्जयित्वा भङ्गकत्रयं प्रागदर्शितमेव वाच्यं, पृथिव्यादिपदेषु हि सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, सदा बहूनामुत्पत्त्या तेषामप्रदेशबहुत्वस्यापि सम्भवात्, नैरयिकादीनां च व्यन्तरान्तानां सञ्ज्ञिनामप्यसञ्ज्ञित्वमसञ्ज्ञिभ्य उत्पादाद्भूतभावतयाऽवसेयं, तथा नैरयिकादिष्वसञ्ज्ञित्वस्य कादाचित्कत्वैनैकत्त्वबहुत्वसम्भवात्षड् भङ्गा भवन्ति, ते च दर्शिता एव । एतदेवह- 'नेरइयदेवमणुए' इत्यादि, ज्योतिष्कवैमानिकसिद्धास्तु न वाच्यास्तेषामसञ्ज्ञित्वस्यासम्भवात्, तथा नोसञ्ज्ञिनोअसञ्ज्ञिविशेषणदण्डकयोर्द्वितीयदण्डके जीवमनुजसिद्धपदेषुक्तरूपं भङ्गकत्रयं भवति, तेषु बहूनामवस्थितानां लाभादुत्पद्यमानानां चैकादीनां सम्भवादिति, एतयोश्च दण्डकयोर्जीवमनुजसिद्धपदान्येव भवन्ति, नारकादिपदानां नोसञ्ज्ञीनोअसञ्ज्ञीतिविशेषणस्याघटनादिति, सलेश्यदण्डकद्वये औघिकदण्डकवज्जीवनारकादयो वाच्याः, सलेश्यतायां जीवत्ववदनादित्वेन विशेषानुत्पादकत्वात् केवलं सिद्धपदं नाधीयते सिद्धानामलेश्यत्वादिति । कृष्णलेश्या नीललेश्याः कापोतलेश्याश्च जीवनारकादयः प्रत्येकं दण्डकद्वयेनाहारकजीवादिवदुपयुज्य वाच्याः, केवलं यस्य जीवनारकादेरेताः सन्ति स एव वाच्यः, एतदेवाह'कण्हलेसे'त्यादि, एताश्च ज्योतिष्कवैमानिकानां न भवन्ति सिद्धानां तु सर्वा न भवन्तीति तेजोलेश्याद्वितीयदण्डके जीवादिपदेषु त एव त्रयो भङ्गाः पृथिव्यब्वनस्पतिषु पुनः षड् भङ्गाः यत एतेषु तेजोलेश्या एकादयो देवाः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्त इति सप्रदेशानामप्रदेशानां चैकत्वबहुत्वसम्भवइति, एतदेवाह - 'तेउलेसाए' इत्यादि, इह नारकतेजोवायुविकलेन्द्रियसिद्धपदानि न वाच्यानि, तेजोलेश्याया अभावादिति, पद्मलेश्याशुक्ललेश्ययोर्द्वितीयदण्डके जीवादिषु पदेषु त एव त्रयो भङ्गकास्तदेवाह 'पम्हलेसे' त्यादि, इह च पञ्चेन्द्रियतिर्यग्मनुष्यवैमानिकपदान्येव वाच्यानि, अन्येष्वनयोरभावादिति, अलेश्यदण्डकयोर्जीवमनुष्यसिद्धपदान्येवोच्यन्ते, अन्येषामलेश्यत्वस्यासम्भवात्, तत्र च जीवसिद्धयोर्भङ्गकत्रयं तदेव, मनुष्येषु तु षड् भङ्गाः, अलेश्यतां For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy