________________
२८०
भगवतीअङ्गसूत्रं ६/-/४/२८६ प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां मनुष्याणां सम्भवेन सप्रदेशत्वेऽप्रदेशत्वे चैकत्वबहुत्वसम्भवादिति, इदमेवाह-'अलेसीहिं'इत्यादि।
सम्यग्दृष्टिदण्डकयोः सम्यग्दर्शनप्रतिपत्तिप्रथमसमयेऽप्रदेशत्वंद्वितियादिषु तुसप्रदेशत्वं, तत्र द्वितीयदण्डके जीवादिपदेषुत्रयो भङ्गाःतथैव, विकलेन्द्रियेषुतुषड्यतस्तेषुसासादनसम्यग्दृष्टय एकादयः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्तेऽतः सप्रदेशत्वाप्रदेशत्वयोरेकत्वबहुत्वसम्भव इति।
एतदेवाह-‘सम्मदिट्ठीही'त्यादि, इहैकेन्द्रियपदानि वाच्यानि, तेषुसम्यग्दर्शनाभावादिति, 'मिच्छट्ठिीहिं' इत्यादि, मिथ्यादृष्टिद्वितीयदण्डके जीवादिपदेषुतुत्रयो भङ्गाः-मिथ्यात्वं प्रतिपन्ना बहवः सम्यक्त्वभ्रंशे तत्प्रतिपद्यमानाश्चैकादयः सम्भवन्तीतिकृत्वा, एकेन्द्रियपदेषु पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, तेष्ववस्थितानामुत्पद्यमानानां च बहूनामेव भावादिति, इह च सिद्धा न वाच्याः, तेषां मिथ्यात्वाभावादिति, सम्यग्मिथ्याष्टिबहुत्वदण्डके 'सम्मामिच्छट्ठिीहिं छब्भंगा' अयमर्थः-सम्यग्मिथ्याष्टित्वं प्रतिपन्नकाः प्रतिपद्यमानाश्चैकादयोऽपि लभ्यन्त इत्यतस्तेषु षड् भङ्गा भवन्तीति, इह चैकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यान्यसम्भवादिति। _ 'संजएहिं'इत्यादि, 'संयतेषु' संयतशब्दविशेषितेषु जीवादिपदेषु त्रिकभङ्गः, संयम प्रतिपन्नानां बहूनां प्रतिपद्यमानानां चैकादीनां भावात्, इह च जीवपदमनुष्यपदे एव वाच्ये, अन्यत्र संयतत्वाभावादिति, असंयतद्वितीयदण्डके-'असंजएही'त्यादि, इहासंयतत्वंप्रतिपन्नानां बहूनां संयतत्वादिप्रतिपातेन तत्प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रयं, एकेन्द्रियाणां तु पूर्वोक्तयुक्त्यासप्रदेशाचाप्रदेशाश्चैक एव भङ्गः इति, इह सिद्धपदं नाध्येयमसम्भवादिति । संयतासंयतबहुत्वदण्डके 'संजयासंजएहिं' इत्यादि, इह देशविरतिंप्रतिपन्नानांबहूनां संयमादसंयमाद्वा निवृत्य तां प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रयस्भवः, इह जीवपञ्चेन्द्रियतिर्यग्मनुष्यपदान्येवाध्येयानि, तदन्यत्र संयतासंयतत्वस्याभावादिति।।
'नोसंजए'त्यादौ सैव भावना, नवरमिहजीवसिद्धपदे एव वाच्येअतएवोक्तं जीवसिद्धेहिं तियभंगो'त्ति। ‘सकसाईहिं जीवाइओतियभंगो'त्ति, अयमर्थः-सकषायाणां सदाऽवस्थितत्वात्ते सप्रदेशा इत्येको भङ्गः, तथोपशमश्रेणीतः प्रच्यवमानत्वे सकषायत्वं प्रतिपद्यमाना एकादयो लभ्यन्ते ततश्च सप्रदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्चाप्रदेशाश्चेत्यपरभङ्गकद्वयमिति, नारकादिषु तुप्रतीतमेव भङ्गकत्रयम्, ‘एगिदिएसुअभंगय'ति अभङ्गक-भङ्गकानामभावोऽभङ्गकंसप्रदेशाश्चाप्रदेशाश्चेत्येक एव विकल्प इत्यर्थः, बहूनामवस्थितानामुत्पद्यमानानां च तेषु लाभादिति, इह च सिद्धपदं नाध्येयमकषायित्वात्, एवं क्रोधादिदण्डकेष्वपि, ‘कोहकसाईहिं जीवेगिंदियवज्जो तियभंगो'त्ति, अयमर्थः-क्रोधकषायिद्वितीयदण्डके जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्ग शेषेषु त्रयः, ननु सकषायिजीवपदवत्कथमिह भङ्गत्रयं न लभ्यते ?, उच्यते, इह मानमायालोभेभ्यो निवृत्ताः क्रोधं प्रतिपद्यमाना बहव एवं लभ्यन्ते, प्रत्येक तद्राशीनामनन्तत्वात्, न त्वेकादयो यथोपशमश्रेणीतः प्रच्यवमानाः सकषायित्वं प्रतिपत्तारइति
___ 'देवेहिं छब्भंग'त्ति देवपदेषु त्रयोदशस्वपि षड् भङ्गाः, तेषु क्रोधोदयवतामल्पत्वेनैकत्वे बहुत्वेच सप्रदेशाप्रदेशत्वयोः सम्भवादिति, मानकषायिमायाकषायिद्वितीयदण्डके नेरइयदेवेहि छब्भंग'त्ति नारकाणां देवानां च मध्येऽल्पा एव मानमायोदयवन्तो भवन्तीति पूर्वोक्तन्यायात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org