SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २७८ भगवती अङ्गसूत्रं ६/-/४/२८६ द्वयादिसमयोत्पन्नत्वेन सप्रदेशत्वाद् उच्यते- 'सप्पएसा य अपएसे य'त्ति । एवं यदा बहव उत्पद्यमाना भवन्ति ते तदोच्यन्ते 'सपएसा य अप्पएसा य'त्ति, उत्पद्यन्ते चैकदैकादयो नारकाः, यदाह119 11 "एगो व दो व तिन्नि व संखमसंखा व एगसमएणं । उववज्जन्तेवइया उव्वट्टंतावि एमेव ॥" 'पुढविकाइयाण' मित्यादि, एकेन्द्रियाणां पूर्वोत्पन्नानामुत्पद्यमानानां च बहूनां सम्भवात् 'सपएसावि अप्पएसावी' त्युच्यते, 'सेसा जहा नेरइए' त्यादि, यथा नारका अभिलापत्रयेणोक्तास्तथा शेषाद्वीन्द्रियादयः सिद्धावसाना वाच्याः, सर्वेषामेषां विहरसद्भावादेकाद्युत्पत्तेश्चेति । एवमाहारकानाहारकशब्दविशेषितावेतावेकत्वपृथक्त्वदण्डकावध्येयौ । अध्ययनक्रमश्चायम्-‘आहारए णं भंते! जीवे कलासेणं किं सपएसे २ ?, गोयमा ! सिय सप्पएसे सिय अप्पएसे' इत्यादि स्वधिया वाच्याः, तत्र यदा विग्रहे केवलिसमुद्घातेवाऽनाहारको भूत्वा पुनराहारकत्वं प्रतिपद्यते तदा तत्प्रथमसमयेऽप्रदेशो द्वितीयादिषु तु सप्रदेश इत्यत उच्यते- सिय सप्पएसे सिय अप्पएसे' त्ति, एवमेकत्वे सर्वेष्वपि सादिभावेषु, अनादिभावेषु तु 'नियमा सप्पएसे 'त्ति वाच्यं । पृथक्त्वदण्डके त्वेवमभिलापो दृश्यः- आहारया णं भंते! जीवा कालाएसेणं किं सप्पएसा अप्पएसा?,गोयमा! सप्पएसावि अप्पएसावि' त्ति तत्र बहूनामाहारकत्वेनावस्थितानां भावात्सप्रदेशत्वं तथा बहूनां विग्रहगतेरनन्तरं प्रथमसमये आहारकत्वसम्भवादप्रदेशत्वमप्याहारकाणां लभ्यत इति सप्रदेशा अपि अप्रदेशा अपीत्युक्तं, एवं पृथिव्यादयोऽप्यध्येयाः, नारकादयः पुनर्विकल्पत्रयेण वाच्याः, तद्यथा । 'आहारया णं भंते! नेरइया किं सप्पएसा अप्पएसा ?, गोयमा ! सव्वेऽवि ताव होज्ज सप्पएसा १ अहवा सप्पएसा य अप्पएसे य २ अहवा सप्पएसा य अप्पएसा येति ३, एतदेवाहआहार गाणं जीवेगिंदियवज्जो तियभंगो' जीवपदमेकेन्द्रियपदपञ्चकं च वर्जयित्वा त्रिकरूपो भङ्गःत्रिकभङ्गो-भङ्गत्रयं वाच्यमित्यर्थः, सिद्धपदं त्विह न वाच्यं तेषामनाहारकत्वात्, अनाहारकदण्डकद्वयमप्येक्मनुसरणीयं, तत्रानाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली अयोगी सिद्धो वा स्यात्, स चानाहारकत्वप्रथमसमयेऽप्रदेशः द्वितीयादिषु तु सप्रदेशस्तेन स्यात् सप्रदेश इत्याद्युच्यते पृथक्त्वदण्डके विशेषमाह - 'अनाहारगा ण 'मित्यादि, जीवानेकेन्द्रियांश्च वर्जयन्तीति जीवैकेन्द्रियवर्जा, तान् वर्जयित्वेत्यर्थः, जीवपदे एकेन्द्रियपदेच 'सपएसाय अप्पएसा ये' त्येवंरूप एक एव भङ्गको, बहूनां विग्रहगत्यापन्नानां सप्रदेशानामप्रदेशानां च लाभात्, नारकादीनां द्वीन्द्रियादीनां च स्तोकतराणामुत्पादः, तत्र चैकद्वयादीनामनाहारकाणां भावात् षड्भङ्गिकासम्भवः, तत्र द्वौ बहुवचनान्तौ अन्ये तु चत्वार एकवचनबहुवचनसंयोगात्, केवलैकवचनभङ्गकाविह न स्तः, पृथक्त्वस्याधिकृतत्वादिति । 'सिद्धेहिं तियभंगो’त्ति सप्रदेशपदस्य बहुवचनान्तस्यैव सम्भवात्, ‘भवसिद्धी य अभवसिद्धी य जहा ओहिय'त्ति, अयमर्थः औघिकदण्डकवदेषां प्रत्येकं दण्डकद्वयं, तत्र च भव्योऽभव्यो वा जीवो नियमात्सप्रदेशः, नारकादिस्तु सप्रदेशोऽप्रदेशो वा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy