________________
शतकं -१, वर्ग:-, उद्देशक:- 9
२५
2.
आयुः कर्मवशान्नरकेऽवस्थानं 'पन्नत्त 'त्ति ' प्रज्ञप्ता' प्ररूपिता ? भगवद्भिरन्यतीर्थकरैश्चेति प्रश्नः ‘गोयमे’ त्यादि निर्वचनं व्यक्तमेव, नवरं 'दस वाससहस्साइं ' ति प्रथमपृथिवीप्रथमप्रस्तटापेक्षया 'तेत्तीसं सागरोवमाई' ति सप्तमपृथिव्यपेक्षयेति, मध्यमा तु जघन्यापेक्षया समया- द्यधिका सामर्थ्यगम्येति ॥ अनन्तरं नारकाणां स्थितिरुक्ता, ते चोच्छसादिमन्त इत्युच्छ-सादिनिरूपणायाह
'नेरइयाण' मित्यादि व्यक्तं, नवरं केवइकालस्सत्ति प्राकृतशैल्या कियत्कालात् कियता कालेनेत्यर्थः, 'आणमंति’त्ति आनन्ति 'अन प्राणने ' इति धातुपाठात् मकारस्यागमिकत्वात्, 'पाणमंति' त्ति प्राणन्ति, वाशब्दौ समुच्चयार्थी, एतदेव पदद्वथं क्रमेणार्थतः स्पष्टयन्नाह 'ऊससंति वा नीससंति व 'त्ति यदेवोक्तमानन्ति तदेवोक्तमुच्छसन्तीति, तथा यदेवोक्तं प्राणन्ति तदेवोक्तं निश्वसन्तीति, अथवा आनमन्ति प्राणमन्तीति 'णमुप्रहृत्वे' इत्येतस्थानेकार्थत्वेन श्वसनार्थत्वात्, अन्येत्वाहुः-‘आनन्ति वा प्राणन्तिवा' इतियनेनाध्यात्मक्रिया परिगृह्यते, 'उच्छवसन्ति वा निश्वसन्ति वा' इत्यनेन च बाह्येति ।
'जहा ऊसासपए 'त्ति' एतस्य प्रश्नस्य निर्वचनं यथा उच्छ्वासपदे प्रज्ञापनायाः सप्तमपदे तथा वाच्यं तच्चेदम्- 'गोयमा ! सययं संतयामेव आणमंति वा पाणमंति वा ऊससन्ति वा नीससंति वा' इति, तत्र ‘सततम् अनवरतम्, अतिदुःखिता हि ते, अतिदुःखव्याप्तस्य च निरन्तरमेवोच्छवसनिश्वासौ दृश्येते, सततत्वं च प्रायोवृत्त्याऽपि स्यादित्यत आह- 'संतयामेव 'त्ति सन्ततमेव नैकसमयेऽपि तद्विरहोऽस्तीति भावः, दीर्घत्वं चेह प्राकृतत्वात्, आनमन्तीत्यादेः पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थं, गुरुभिराद्रियमाणवचना हि शिष्याः सन्तोषवन्तो भवन्ति, तथा च पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते लोके चादेयवचना भवन्ति, तथा च भव्योपकारस्तीर्थाभिवृद्धिश्चेति । अथ तेषामेवाहारं प्रश्नयन्नाह 'णेरइयाणमि' त्यादि व्यक्तं, नवरम् 'आहा
'त्ति आहार - मर्थयन्ते प्रार्थयन्त इत्येवंशीलाः अर्थोवा-प्रयोजनमेषामस्तीत्यर्थिनः, आहारेणभोजनेनार्थिन आहारार्थिनः, आहारस्य भोजनस्य वाऽर्थिन आहारार्थिनः, 'जहा पन्नवणाए 'त्ति 'आहारट्ठी' इत्येतत्पदप्रभृति यथा प्रज्ञापनायाश्चतुर्थोपाङ्गस्य 'पढमए' त्ति आद्ये 'आहारउद्देसए' त्ति आहार-पदस्याष्टाविंशतितमस्योद्देशकः पदशब्दलोपाच्चाहारोद्देशकः तत्र भणितं 'तहा भाणियव्वं 'ति तेन प्रकारेण वाच्यमिति । तत्र च नारकाहारवक्तव्यतायां बहूनि द्वाराणि भवन्ति, तत्सङ्ग्रहार्थ पूर्वो- क्तस्थित्युच्छसलक्षणद्वारद्वयदर्शनपूर्विकां गाथामाह ।
मू. (१२) ठिई उस्साहारे किं वाऽऽहारेति सव्वओ वावि
कतिभागं ? सव्वाणि व कीस व भुज्जो परिणमंति ॥
वृ. 'ठिइगाहा' व्याख्या, स्थितिर्नारकाणां वाच्या, उच्छ्वासश्च, तौ चोक्तावेव । तथा 'आहारे' त्ति आहारविषयो विधिर्वाच्यः, स चैवम्- 'नेरइयाणं भंते! आहारठ्ठी ?, हंता आहारट्ठी ३ । नेरइयाणं भंते! केवइकालस्स आहारट्टे समुप्पज्जइ ?, 'आहारार्थ" आहारप्रयोजन माहारार्थित्वमित्यर्थः, 'गोयमा ! नेरइयाणं दुविहे आहारे पन्नत्ते' अभ्यवहारक्रियेत्यर्थः 'तंजहाआभोगनिव्वत्तिए य अनाभोगनिव्वत्तिए य' तत्राभोगः - अभिसन्धिस्तेन निर्वर्त्तितः कृत आभोगनिर्वर्त्तितः, आहारयामीतीच्छपूर्वक इत्यर्थः, अनाभोगनिर्वर्त्तितस्तु आहारयामीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org