________________
२४
भगवतीअङ्गसूत्रं १/-/१/१० प्रतिपादकानीत्युच्यन्ते । एवंचयत्पञ्चमाङ्गादिसूत्रोपन्यासे प्रेरित, यदुत-केनाभिप्रायेणेदंसूत्रमुपन्यस्तमिति, तत् केवलज्ञानोत्पादसर्वकर्मविगमाभिधानरूपसूत्राभिप्रायव्याख्यानेन निर्णीतमिति। एतत्सूत्रसंवादिसिद्धसेनाचार्योऽप्याह - ॥१॥ “उप्पज्जमाणकालं उप्पण्णं विगययं विगच्छंतं ।
दवियं पण्णवयंतो तिकालविसयं विसेसेइ ॥ इति "उत्पद्यमानकाल मित्यनेनाद्यसमयादारभ्योत्पत्त्यन्तसमयं यावदुत्पद्यमानत्वस्येष्टत्वाद्वर्तमानभविष्यत्कालविषयं द्रव्यमुक्तम्, उत्पन्नमित्यनेन त्वतीतकालविषयम् एवं विगतं विगच्छदित्यनेनापीति, ततश्चोत्पद्यमानादि प्रज्ञापयन् स भगवान् द्रव्यं विशेषयति, कथं ?, त्रिकालविषयं यथा भवतीतिसंवादगाथार्थः।अन्येतुकर्मेतिपदस्य सूत्रेऽनभिधानाच्चलनादिपदानि सामान्येन व्याख्यान्ति, न कम्मपेिक्षयैव ।
तथाहि-'चलमाणे चलिए'त्ति, इह चलनम्-अस्थिरत्वपर्यायेण वस्तुन उत्पादः ।
'वेइज्जमाणे वेइए'त्ति 'व्येजमान कम्पनमानं 'व्येजितं' कम्पितम्, ‘एन कम्पने' इति वचनात्, व्येजनमपि तद्रूपापेक्षयोत्पाद एव । 'उदीरिजमाणे उदीरिए'त्ति, इहोदीरणं स्थिरस्य सतःप्रेरणं, तदपि चलनमेव, “पहिज्जमाणे पहीणे'त्ति 'प्रहीयमाणं' प्रभ्रश्यत् परिपतदित्यर्थः 'प्रहीणं प्रभ्रष्टंपरिपतितमित्यर्थः, इहापिप्रहाणं चलनमेव, चलनादीनांचैकार्थत्वंसर्वेषांगत्यर्थत्वात्
'उप्पन्नपक्खस्स'त्ति चलत्वादिना पर्यायेणोत्पन्नत्वलक्षणपक्षस्याभिधायकान्येतानीति । तथा छेदभेददाहमरणनिर्जरणान्यकर्थािन्यपिव्याख्येयानि, तद्वयाख्यानंचप्रतीतमेव, भिन्नार्थता पुनरेषामेवं-कुठारादिना लतादिविषयश्छेदः, तोमरादिना शरीरादिविषयो भेदः, अग्निना दार्वादिविषयो दाहः, मरणं तु प्राणत्यागः, निर्जरा तु अतिपुराणीभवनमिति।
'विगयपक्खस्सत्ति भिन्नार्यान्यपि सामान्यतो विनाशाभिधायकान्येतानीत्यर्थः, न च वक्तव्यं-किमेतैश्चलनादिभिरिह निरूपितैः?,अतत्त्वरूपत्वादेषाम्, अतत्त्वरूपत्वस्यासिद्धत्वात्, तदसिद्धिश्च निश्चयनयमतेनवस्तुस्वरूपस्य प्रज्ञापयितुमारब्धत्वात्, तथाहि-व्यवहारनयश्चलितमेव चलितमितिमन्यते, निश्चयस्तुचलदपिचलितमिति,अत्रच बहुवक्तव्यंतच्चविशेषावश्यकादिहैवाभिधायास्यमानजमालिचरिताद्वाऽवसेयमिति ॥ इहाद्ये प्रश्नोत्तरसूत्रद्वये मोक्षतत्त्वं चिन्तितं, मोक्षः पुनर्जीवस्य जीवाश्च नारकादयश्चतुर्विशतिविधाः, यदाह॥१॥ "नेरइया १ असुराई १० पुढवाई ५ बेंदियादओ ३ चेव।
पिंचिंदियतिरिय १ नरा १ वंतर१ जोइसिय १ वेमाणी १ (२४)॥
___ -तत्र नारकांस्तावत् स्थित्यादिभिश्चिन्तयन्नाहमू. (११) नेरइयाणं भंते! केवइकालं ठिईपन्नत्ता?, गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाइंठिई पन्नत्ता १।नेरइयाणंभंते! केवइकालस्सआणमंति वा पाणमंति वा ऊससंति वा नीससंति वा?, जहा ऊसासपए २ ।
नेरइया णंभंते आहारट्ठी?, जहा पन्नवणाए पढमए आहारुद्देसए तहा भाणियव्वं ३।
वृ.निर्गतमयम्-इष्टफलं कर्मयेभ्यस्ते निरयास्तेषु भवानैरयिका नारकास्तेषां नैरयिकाणां “भंते'त्तिभदन्त! 'केवइकालं तिकियांश्चासौ कालश्चेति कियत्कालस्तंकियत्कालं यावत् ‘ठिइत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org