SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २३ शतकं-१, वर्गः-, उद्देशकः-१ केवलज्ञानोत्पत्तिः- पर्यायोऽभ्युगतः एषां च पदानामेकार्यानामपि सतामयमर्थः सामर्थ्य प्राप्ति क्रमः यदुत-पूर्वंतचलति-उदेतीत्यर्थः उदितंच वेद्यते, अनुभूयत इत्यर्थः, तच्च द्विधा-स्थितिक्षादुदयप्राप्तमुदीरणया चोदयमुपनीतं, ततश्चानुभवानन्तरं तत् प्रहीयने, दत्तफलत्वाज्जीवादपयातीत्यर्थः, एतच्च टीकाकारमतेन व्याख्यातम्, अन्ये तु व्याख्यान्ति-स्थितिबन्धाद्यविशेषितसामान्यकर्माश्रयत्वादेकार्थिकान्येतानि केवलोत्पादपक्षस्य च साधकानीति, चत्वारि चलनादीनिस्थितिबन्धाद्यविशेषितसामान्यकर्माश्रयत्वादेकार्थिकान्येतानि केवलोत्पादपक्षस्यचसाधकानीति, चत्वारि चलनादीनि पदान्येकार्थिकानीत्युक्ते शेषाण्यनेकार्थकानीति सामर्थ्यादवगतमपि सुखावबोधाय साक्षात्प्रतिपादयितुमाह-'छिज्जमाणे' इत्यादि, व्यक्तं । नवरं नाण?'त्ति नानार्थानि, नानार्थत्वं त्वेवं-छिद्यमानं छिन्नमित्येतत्पदं स्थितिबन्धाश्रयं, यतः सयोगिकेवली अन्तकाले योगनिरोधंकर्तुकामो वेदनीयनामगोत्राख्यानां तिसृणांप्रकृतीनां दीर्घकालस्थितिकानां सर्वापवर्तनयाऽऽन्तर्मोहूर्तिकं स्थितिपरिमाणं करोति । तथा 'भिद्यमानं भिन्न' मित्येतत्पदमनुभागबन्धाश्रयं, तत्र च तस्मिन् काले स्थितिधातं करोति तस्मिन्नेव काले रसघातमपि करोति, केवलं रसघातः स्थितिखण्डकेभ्यः क्रमप्रवृत्तेभ्योऽनन्तगुणाभ्यधिकः, अतोऽनेन रसघातकरणेन पूर्वस्माद्भिन्नार्थ पदं भवति । तथा 'दह्यमानं दग्ध'मित्येतत्पदं प्रदेशबन्धाश्रयं, प्रदेशबन्धस्त्वनन्तानामनन्तप्रदेशानां स्कन्धानां कर्मत्वापादनं, तस्य च प्रदेशबन्धकर्मणः सत्कानांपञ्चह्रस्वाक्षरोच्चारणकालपरिमाणयाऽसङ्ख्यातसमयया गुणश्रेणीरचनयापूर्वरचितानां शैलेश्यवस्थाभाविमुच्छिन्नक्रियध्यानाग्निनाप्रथमसमयादारभ्य यावदन्त्यसमयस्तावप्रतिसमयंक्रमेणासङख्येयगुणवृद्धानां कर्मपुद्गलानां दहनं-दाहः, अनेनचदहनार्थेनेदं पूर्वस्मात्पदाद्भिन्नार्थं पदं भवति, दाहश्चान्यत्रान्यथा 'नियमाणं मृत'मित्यनेनायुःकर्मैवोक्तं, यतः कर्मैव तिष्ठज्जीवतीत्युच्यते, कर्मैव च जीवादपगच्छत् म्रियत इत्युच्यते, तच्च मरणं सामान्येनोक्तमपि विशिष्टमेवाभ्युपगन्तव्यं, यतः संसारवर्तीनि मरणानि अनेकशोऽनुभूतानिदुःखरूपाणिचेति किं तैः ?, इह पुनः पदेऽपुनर्भवमरणमन्त्यं सर्वकर्मक्षयसहचरितमपवर्गहेतुभूतं विवक्षितमिति । तथा 'निर्जीर्यमाणं निजीर्ण'मित्येतत्पदं सर्वकर्माभावविषयं, यतः सर्वकर्मनिर्जरणं न कदाचिदप्यनुभूतपूर्वंजीवेनेति, अतोऽनेन सर्वकर्माभावरूपनिर्जरार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद्भिन्नार्थंपदंभवति।अथैतानिपदानि विशेषतो नानार्थान्यपि सन्तिसामान्यतः कस्यपक्षस्याभिधायकतया प्रवृत्तानीत्यस्यामाशङ्कायामाह - ___विगयपक्खस्स'त्ति, विगतं विगमो-वस्तुनोऽवस्थान्तरापेक्षया विनाशः, स एव पक्षोवस्तुधर्म, तस्य वा पक्षः-परिग्रहो विगतपक्षस्तस्य विगतपक्षस्य वाचकानीति शेषः, विगतत्वं विहाशेषकाभावोऽभिमतो, जीवेन तस्याप्राप्तपूर्वतयाऽत्यनतमुपादेयत्वात्, तदर्थत्वाच्च पुरुषप्रयासस्येति, एतान चैवं विगतार्थानि भवन्ति, छिद्यमानपदे हि स्थितिखण्डनं विगम उक्तः, मिद्यमानपदे त्वनुभावभेदो विगमः, दह्यमानपदे त्वकर्मताभवनं विगमः, म्रियमाणपदे पुनरायुःकर्माभावो विगमः, निर्जीर्यमाणपदे त्वशेषकर्माभावो विगमः उक्तः, तदेवमेतानि विगतपक्षस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy