________________
२२
भगवतीअङ्गसूत्रं १/-/१/९ ॥१॥ "न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति।
यस्माज्ज्ञानावरणं ज्ञानावरणप्रकृति कर्म । इति अथवाजानतवतस्यप्रश्नःसंभवति,स्वकीयबोधसंवादनार्थमज्ञलोकबोधनार्थंशिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्थं सूत्ररचनाकल्पसंपादरनार्थं वेति । तत्र 'हंता गोयमे ति, हन्तेति कोमलामन्त्रणार्थं, दीर्घत्वंचमागधदेशीप्रभवमुभयत्रापि, 'चलमाणे इत्यादेः प्रत्युच्चारणंतुचलदेव चलितमित्यादीनां स्वानुमतत्वप्रदर्शनार्थम्।
वृद्धाः पुनराहुः-'हंता गोयमा' इत्यत्र ‘हन्ते'ति एतमेतदिति अभ्युपगमवचनः, यदनुमतं तत्प्रदर्शनार्थं 'चलमाणे' इत्यादि प्रत्युच्चारितमिति, इहचयावत्करणलभ्यानिपदानिसुप्रतीतान्येव ॥ एवमेताना नव पदानि कर्माधिकृत्य वर्तमानातीतकालसामानाधिकरण्यजिज्ञासया पृष्टानि निर्णीतानि च, अर्थतान्येव चलनादीनि परस्परतः किं तुल्यार्थानि भिन्नार्थानि वेति पृच्छं निर्णय च दर्शयितुमाह
मू. (१०)एएणंभंते! नव पया किंएगट्ठानानाधोसा नानावंजणा उदाहु नाणठ्ठा नानाघोसा नानावंजणा?,
गोयमा! चलमाणे चलिए १ उदीरिजमाणए उदीरिए २ वेइजमाणे वेइए ३ पहिज्जमाणे पहीणे ४ ते एएणं चत्तारि पया एगट्ठा नानाघोसा नानावंजणा उप्पन्नपक्खस्स, छिज्जमाणे छिन्ने भिजमाणे भिन्ने दड्ड-(डज्झ)-माणे दड्ढे मिज्जमाणे मडे निजरिज्जमाणे निजिण्णे एए णं पंच पया नाणट्ठा नानाघोसा नानावंजणा विगयपक्खस्स ।
वृ. व्यक्तं, नवरम् ‘एगट्टत्ति एकार्थानि' अनन्यविषयाणि एकप्रयोजनानि वा 'नाणाघोस'त्तिइहघोषाः-उदात्तादयः 'नाणावंजण'त्तिइह व्यञ्जनानि-अक्षराणि उदाहुत्तिउताहोनिपातो विकल्पार्थः 'नाणह'त्ति भिन्नाभिधेयानि, इह च चतुर्भङ्गी पदेषु दृष्टा, तत्र कानिचिदेकार्थानि एकव्यञ्जनानि यथा क्षीरं क्षीरमित्यादीनि १, तथाऽन्यानि एकार्थानि नानाव्यञ्जनानि यथा क्षीरं पय इत्यादीनि२,तथाऽन्यान्येनेकार्थान्येक व्यज्जनानियथाकाव्यमाहिषाणिक्षीराणि-३ तथाऽन्यानि नानार्थानि नानाव्यञ्जनानि यथा घटपटलकुटादीनि ४।
तदेवं चतुर्भङ्गीसंभवेऽपि द्वितीयचतुर्थभङ्गको प्रश्नसूत्रे गृहीतौ, परिदृश्यमाननानाव्यञ्जनतया तदन्ययोरसम्भवात्, निर्वचनसूत्रेतुचलनादीनि चत्वारि पदान्याश्रित्य द्वितीयः, छिद्यमानादीनितुपञ्च पदान्याश्रित्य चतुर्थइति।ननु चलनादीनामर्थानांव्यक्तभेदत्वात् कथमाद्यानि चत्वारि पदान्येकार्थानि? इत्याशङ्कयाह-'उप्पन्नपक्खस्स'त्ति उत्पन्नमुप्तादो, भावेक्लीबेक्तप्रत्ययविधानात्, तस्य पक्षः-परिग्रहोऽङ्गीकारः ‘पक्ष परिग्रहे' इतिधातुपाठादिति उत्पन्नपक्षः, इहच षष्ठयास्तृतीयार्थत्वाद् उत्पन्नपक्षण-उत्पादाङ्गीकारेण-उत्पादाख्यं पर्यायं परिगृह्य एकार्थान्येतान्युच्यन्ते, अथवा 'उत्पन्नपक्षस्य उत्पादाख्यवस्तुविकल्पस्याभिधायकानीति शेषः, सर्वेषामेषामुत्पाद माश्रित्यैकार्थकारित्वादेकान्तर्मुहूर्तमध्यभावित्वेन तुल्यकालत्वाच्चैकार्थिकत्वमिति भावः, स पुनरुत्पादाख्यः पर्यायो विशिष्टः केवलोत्पाद् एव, यतः कर्मचिन्तायां कर्मणः प्रहाणेः फलद्वयं केवलज्ञानमोक्षप्राप्ती, तत्रैतानि पदानि केवलोत्पादविषयत्वादेकार्थान्युक्तानि, यस्मात् केवलज्ञानपर्यायो जीवेन न कदाचिदपि प्राप्तपूर्व यस्माच्च प्रधानस्ततस्तदर्थ एव पुरुषप्रयासः तस्मात्स एव
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only