________________
शतकं-१, वर्गः-, उद्देशकः-१ वलिकाचलनसमयानां क्षयः स्यात्, यदि हि तत्समयचलननिरपेक्षाण्यन्यसमयचलनानि भवन्ति तदोत्तरचलनानुक्रमणं युज्येत नान्यथा, तदेवं चलदपि तत्कर्म चलितं भवतीति ।
तथा 'उदीरिजमाणे उदीरिए'त्ति, उदीरणा नाम अनुदयप्राप्तं चिरेणाऽऽगामिना कालेन यद्वेदयितव्यं कर्मदलिकंतस्य विशिष्टाध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणंसाचासङ्घयेयसमयवर्तिनी, तया च पुनरुदीरणया उदीरणप्रथमसमय एवोदीर्यमाणं कर्म पूर्वोक्तपटदृष्टान्तेनोदीरितं भवतीति २।
तथा वेइज्जमाणे वेइए'-त्ति, वेदनं-कर्मणोभोगः,अनुभवइत्यर्थः, तच्च वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकणेन वोदयमुपनीतस्य भवति, तस्य च वेदनाकालस्यासङ्खयेसमयत्वादाधसमये वेद्यमानमेव वेदितं भवतीति ३ ।।
तथा 'पहिज्जमाणे पहीणे' त्ति, प्रहाणंतु-जीवप्रदेशैः सह संश्लिष्टस्य कर्मणस्तेभ्यः पतनम्, एतदप्यसङ्ख्येसमयपरिमाणमेव, तस्यतुप्रहाणस्यादिताकरणं, तच्चापवर्तनाभिधानेन करणविशेषेण करोति, तदपि च छेदनमसङ्खयेयसमयपरिमाणमेव, तस्य तु प्रहाणस्यादिसमये प्रहीयमाणं कर्म प्रहीणं स्यादिति ४। ___तथा 'छिज्जमाणे छिन्ने'त्ति, छेदनं तु-कर्मणो दीर्घकालानां स्थितीनां ह्रस्वताकरणं, तच्चापवर्तनाभिधानेन करणविशेषेण करोति, तदपिचछेदनमसङ्खयेयसमयमेव, तस्य त्वादिसमये स्थितितस्तच्छिद्यमनं कर्मा छिन्नमिति ५।
__तथा भिज्जमाणे भिन्ने'त्तिभेदस्तु-कर्मणः शुभस्याशुभस्य वा तीव्ररसस्यापवर्तनाकरणेन मन्दताकरणं, मन्दस्य चोद्वर्तनारणेनतीव्रताकरणं, सोऽपिचासङ्घयेयसमयएव, ततश्चतदाद्यसमये रसतो भिद्यमानं कर्म भिन्नमिति ६।।
तथा 'डज्झमाणे दडे'त्ति, दाहस्तु-कर्मदलिकदारूणां ध्यानाग्निना तद्रूपापनयनमकर्मत्वजननमित्यर्थः, यथा हि काष्ठस्याग्निना दग्धस्य काष्ठरूपापनयनंभस्मात्मनाच भवनं दाहस्तथा कर्मणोऽपीति, तस्याप्यन्तर्मुहूर्त्तवर्त्तित्वेनासङ्खयेसयस्यादिसमये दह्यमानं कर्म दग्धमिति ७।
तथा मिज्जमाणेमडे'त्ति, नियमाणमायुःकर्म मृतमिति व्यपदिश्यते, मरणंह्यायुःपुद्गलानां क्षयः, तच्चासङ्ख्येयसमयवर्त्तिभवति, तस्य च जन्मनःप्रथमसमयादारभ्यावीचिकमरणेनानुक्षणं मरणस्य भावान्नियमाणं मृतमिति ८ ।
तथा निजरिजमाणेनिजिण्णे'त्ति, निर्जीयमाणं-नितरामपुनर्भावेन क्षीयमाणं कर्म निजीर्णक्षीणमिति व्यपदिश्यते, निर्जरणस्यासङ्खयेयसमयभावित्वेनतप्रथमसमय एवपटनिष्पत्तिदृष्टान्तेन निर्जीर्णत्वस्योपपद्यमानत्त्वादिति, पटसृष्टान्तश्च सर्वपदेषु सभावनिको वाच्यः ९।।
तदेवमेतान्नव प्रश्नान् गौतमेन भगवता भगवान् महावीरः पृष्टः सन्नुवाच-'हंते' त्यादि, अथ कस्माद् भगवन्तं गौतमः पृच्छति?, विरचितद्वादशाङ्गतया विदितसकलश्रुतविषयतत्वेन निखिलसंशयातीतत्वेन च सर्वज्ञकल्पत्वात्तस्य, आह च॥१॥ “संखाईए उ भवे साहइजं वा परो उ पुच्छेज्जा ।
ण यणं अणाइसेसी वियाणई एस छउमत्थो ।। -नैवम्, उक्तगुणत्वेऽवि छद्मस्थतयाऽनाभोगसम्भवात्, यदाह -
Jain Education International
For Private For Private & Personal Use Only
www.jainelibrary.org