________________
भगवतीअङ्गसूत्रं १/-/१/९ भीतेरन्तहेतुत्वाद्भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त! हे भयान्त! वा, भान् वा-ज्ञानादिभिर्दीप्यमान ! “भा दीप्तौ' इति वचनात्, भ्राजमान ! वा-दीप्यमान ! 'भ्राजृ दीप्तौ' इति वचनात् अयंचआदित आरभ्य भंते'त्तिपर्यन्तो ग्रन्थो भगवता सुधर्मस्वामिना पञ्चमाङ्गस्य प्रथमशतस्य प्रथमोद्देशकस्य सम्बन्धार्थमभिहितः।
अथानेन सम्बन्धेनायातस्य पञ्चमाङ्गप्रथमशतप्रथमोद्देशकस्येदमादिसूत्रम् ।
'चलमाणे चलिए'इत्यादि, अथ केनाभिप्रायेण भगवता सुधर्मस्वामिना पञ्चमाङ्गस्य प्रथमशतप्रथमोद्देशकस्यार्थानुकथनं कुर्वतैवमर्थवाचकं सूत्रमुपन्यस्तं नान्यानीति?, अत्रोच्यते
__ इह चतुर्दा पुरुषार्थेषु मोक्षारख्यः पुरुषार्थो मुख्यः, सर्वातिशायित्वात्, तस्य च मोक्षस्य साध्यस्य साधनानां च सम्यग्दर्शनादीनां साधनत्वेनाव्यभिचारिणाभुयनियमस्य शासनाच्छं सद्भिरिष्यते, उभयनियमसत्वेवं-सम्यग्दर्शनादीनि मोक्षस्यैवसाध्यस्य साधनानि नान्यस्यार्थस्य, मोक्षश्च तेषामेत साधनानां साध्यो नान्येषा मिति, सच मोक्षो विपक्षक्षयात्, तद्विपक्षश्च बन्धः, सच मुख्यः कर्मभिरात्मनः सम्बन्धः, तेषां तु कर्मणां प्रक्षयेऽयमनुक्रम उक्तः
'चलमाणे' इत्यादि तत्र 'चलमाणे'त्तिचलत्-स्थितिक्षयादुदयभागच्छद् विपाकाभिमुखीभवद्यत्कर्मेति प्रकरणगम्यं तच्चलितम्-उदितमिति व्यपदिश्यते, चलनकालो हि उदयावलिका, तस्यच कालस्यासङ्खयेयसमयत्वादादिभध्यान्तयोगित्वं, कर्मपुद्गलानामप्यनन्ताः स्कन्धा अनन्तप्रदेशाः, ततश्च ते क्रमेण प्रतिसमयमेव चलन्ति, तत्र योऽसावाद्यश्चलनसमयस्तस्मिंश्चलदेव तच्चलि-तमुच्यते, कथं पुनस्तद्वत्मानं सदतीतं भवतीति।
अत्रोच्यते-यथा पट उत्पद्यमानकाले प्रथमतन्तुप्रवेशे उत्पद्यमान एवोत्पन्नो भवतीति, उत्पद्यमानत्वंचतस्य प्रथमतन्तुप्रवेशकालादारभ्यपट उत्पद्यते इत्येवं व्यपदेशदर्शनात्प्रसिद्धमेव, उत्पन्नत्वं तूपपत्त्या प्रसाध्यते, तथाहि-उत्पत्तिक्रियाकाल एव प्रथमतन्तुप्रवेशेऽसावुत्पन्नः, यदि पुनर्नोत्पन्नोऽभविष्यत्तदा तस्याः क्रियाया वैयर्थ्यमभविष्यत्, निष्फलत्वाद्, उत्पाद्योत्पादनार्था हि क्रियाः भवन्ति, यथा च प्रथमे क्रियाक्षणे नासावृत्पन्नस्तथोत्तरेष्वपि क्षणेष्वनुत्पन्न एवासौ प्राप्नोति, को ह्युत्तरक्षणक्रियाणामात्मनिरूपविशेषो? येनप्रथमया नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते, अतः सर्वदैवानुत्पत्तिप्रसङ्गः, दृष्टा चोत्पत्तिः अन्त्यतन्तुप्रवेशे पटस्य दर्शनाद, अतः प्रथमतन्तुप्रवेशकाल एव किञ्चिदुत्पन्नं पटस्य, यावच्चोत्पन्नं न तदुत्तरक्रिययोत्पाद्यते, यदि पुनरुत्पाद्यते तदा तदेकदेशोत्पादन एव क्रियाणां कालानां च क्षयः स्यात्, यदि हि तदंशोत्पादननिरपेक्षा अन्याः क्रिया भवन्ति तदोत्तरांशानुक्रमणं युज्यते नान्यथा, तदेवं यथा पट उत्पद्यमान एवोत्पन्नस्तथैवासङ्ख्यातसमयपरिमाणत्वादुदयावलिकाया आदिसमयात्प्रभृति चलदेव कर्मचलितं, कथं
यतोयदि हि तत्कर्मचलनाभिमुखीभूतमुदयावलिकायाआदिसमयएवनचलितंस्यात्तदा तस्याद्यस्यचलनसमयस्य वैयर्थ्य स्यात्, तत्राचलितत्वात्, यथा च तस्मिन् समयेन चलितं तथा द्वितीयादिसमयेष्वपिनचलेत्, कोहि तेषामात्मनिरूपविशेषो? येनप्रथमसमयेनचलितमुत्तरेषु चलतीति, अतः सर्वदैवाचलनप्रसङ्गः,अस्तिचान्त्यसमये चलनं, स्थितेः परिमितत्वेन कर्माभावाभ्युपगमाद्, अत आवलिकाकालादिसमय एव किञ्चिच्चिलितं, यच्च तस्मिंश्चलितं तच्चोत्तरेषु समयेषु न चलति, यदि तु तेष्वपि तदेवाद्यं चलनं भवेत्तदा तस्मिन्नेव चलने सर्वेषामुदया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org