SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशकः-१ अन्ये तु 'जायसड्डे' इत्यादि विशेषणद्वादशकमेवं व्याख्यान्ति-जाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः, किमिति जातश्रद्धः ? इत्यत आह-यस्माजातसंशयः, इदं वस्त्वेवं स्यादेवं वेति, अथ जातसंशयोऽपि कथमित्यत आह-यस्माज्जातकुतूहलः कथं नामास्यार्थमवभोत्स्ये? इत्यभिप्रायवानिति, एतच्च विशेषणत्रयमवगरहापेक्षया द्रष्टवयम्, एवमुत्पन्नसंजातसमुत्पन्नश्रद्धत्वादय ईहापायधारणाभेदेन वाच्याः, अन्ये त्वाः-जातश्रद्धत्वापेक्षयोत्पन्नश्रद्धत्वादयः समानार्था विवक्षितार्थस्य प्रकर्षवृत्तिप्रतिपादनाय स्तुतिमुखेन ग्रन्थकृतोक्ताः, नचैवंपुनरुक्तंदोषाय, यदाह॥१॥ “वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन्। यत्पदमसकृद् ब्रूते पुनरुक्तं न दोषाय !" इति 'उठाए उठेइ'त्ति उत्थानमुत्था-उर्ध्वंव वर्तनं तया उत्थया ‘उत्तिष्ठति' उर्यो भवति, 'उढेइ' इत्युक्ते क्रियारम्भमात्रमपि प्रतीयते यथा वक्तुमित्तिष्ठते इति ततस्तद्वयवच्छेदायोक्तमुत्थयेति, ‘उठाए उद्वित्त'त्ति उपागच्छतीत्युत्तरक्रियाऽपेक्षया उत्थानक्रियायाः पूर्वकालताऽभिधानाय उत्थयोत्यायेति कत्वाप्रत्ययेन निर्दिशतीति । 'जेणेवे'त्यादि, इह प्राकृतप्रयोगादव्ययत्वाद्वा येनेति यस्मिन्नेव दिग्भागेश्रणमो भगवान् महावीरोवर्तते तेणेव'त्ति तस्मिन्नेव दिग्भागेउपागच्छति, तत्कालापेक्षयावर्त्तमानत्वादागमनक्रियाया वर्तमानविभक्त्या निर्देशः कृतः, उपागतवानित्यर्थः, उपागम्य च श्रमणं ३ कर्मतापन्नं । “तिक्खुत्तो'त्ति त्रीन् वारान् त्रिकृत्वः । 'आयाहिणपयाहिणं करेइ'त्ति आदक्षिणाद्दक्षिणहस्तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणोऽतस्तं करोतीति 'वंदईत्ति 'वन्दते' वाचा स्तौति 'नमंसइ'त्ति 'नमस्यति' कायेन प्रणमति। 'नच्चासन्ने'त्ति, 'न' नैव 'अत्यासन्नः' अतिनिकटः, अवग्रहपरिहासत्, नात्यासन्ने वा स्थाने, वर्तमान इतिगम्यं, 'नाइदूरे'त्ति 'न' नैव अतिदूरः' अतिविप्रकृष्ट, अनौचित्यपरिहारात्, नातिदूरे वा स्थाने ।। 'सुस्सूसमाणे'त्ति भगवद्वचनानि श्रोतुमिच्छन्। 'अभिमुहे'त्ति, अभि-भगवन्तं लक्ष्यीकृत्य मुखमस्येत्यभिमुखः, तथा 'विणएणं'ति विनयेन हेतुना 'पंजलिउडे'त्ति प्रकृष्टः-प्रधानो ललाटतटघटतत्वेनाञ्जलिहस्तन्यासविशेषः कृतोःविहितो येन सोऽग्रयाहितादिदर्शनात् प्राञ्जलिकृतः। ‘पज्जुवासमाणे'त्ति पर्युपासीनः' सेवमानः, अनेन च विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः, आह च॥१॥ “निद्दाविगहापरिवज्जिएहि गुत्तेहि पंजलिउडेहिं । भत्तिबहुमानपुव्वं उवउत्तेहिं सुणेयव्वं ।। ___ ‘एवं वयासित्ति ‘एवं वक्ष्यमाणप्रकारंवस्तु अवादीत्' उक्तवान्-‘से' इति तद्द्यदुक्तं पूज्यैः 'चलच्चलित'मित्यादि, 'नूनं' ति एवमर्थे, तत्र तत्रास्यैवं व्याख्यातत्वात्, अथवा 'से' इतिशब्दो मागधदेशीप्रसिद्धोऽथशब्दार्थे वर्त्तते, अथशब्दस्तु वाक्योपन्यासार्थः परप्रश्नार्थोवा, यदाह-“अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु' । 'नून'मिति निश्चितं भंते'त्ति गुरोरामन्त्रणं, ततश्च हे भदन्त !-कल्याणरूप ! सुखरूप! इति वा ‘भदि कल्याणे सुखे च' इति वचनात्, प्राकृतशैल्या वा भवस्यसंसारस्य भयस्य वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy