SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १८ भगवतीअङ्गसूत्रं १/-/१/८ भावः । 'झाणकोट्टोवगए'त्ति, ध्यान-धर्म शुक्लं वा तदेव कोष्ठः-कुशूलोध्यानकोष्ठस्तमुपगतःतत्र प्रविष्टो धानकोष्ठोपगतः, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रसृतं भवति एवं स भगवान् ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरिति । _ 'संजमेणं'ति संवरेण तवस'त्ति अनशनादिना, चशब्दः समुच्चयार्थो लुप्तोऽत्र द्रष्टव्यः, संयमतपोग्रहणंचानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं, प्रधानत्वंचसंयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्चपुराणकर्मनिर्जरणहेतुत्वेन, भवति चाभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच्चसकलकर्मक्षयलक्षो मोक्ष इति। 'अप्पाणं भावेमाणे विहरइ'त्ति, आत्मानं वासयंस्तिष्ठतीत्यर्थः॥ मू. (९) तए णं से भगवं गोयमे जायसङ्के जायसंसे जायकोउहल्ले उप्पन्नसड्डे उप्पन्नसंसए उप्पनकोउहल्ले संजायसड्ढेसंजायसंसएसंजायकाउहल्ले समुप्पन्नसड्ढे समुप्पन्नसंसएसमुप्पन्नकोउहल्ले उठाए उठेइ उठाए उठेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ ता वंदइ नमसइ र त्ता नचासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासगे एवं वयासी से नूणं भंते ! चलमाणे चलिए १, उदीरिजमाए उदीरिए २, वेइज्जमाणे वेइए ३, पहिज्जमाणे पहीणे ४, छिज्जमाणे छिन्ने ५, भिजमाणे भिन्ने ६, वड्डमाणे दड्ढे ७, मिज्जमाणे मए ८, निजरिज्जमाणे निजिन्ने ९? हंता गोयमा! चलमाणे चलिए जाव निजरिज्जमाणे निजिण्णे। वृ. 'ततः' ध्यानकोष्ठोपगतविहरणानन्तरं णमिति वाक्यालङ्कारार्थ 'स' इति प्रस्तुतपरामर्शार्थः, तस्य तु सामान्योक्तस्य विशेषावधारणार्थमाह-'भगवंगायमे'त्ति, किमित्याह_ 'जायसड्डे' इत्यादि, जातश्रद्धादिविशेषणःसन्उत्तिष्ठतीतियोगः, तत्रजाता-प्रवृत्ताश्रद्धाइच्छ वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्यासौ जातश्रद्धः, तथा जातः संशयो यस्य स जातसंशयः, संशयस्त अनवधारितार्थः ज्ञानं, सचैवं तस्य भगवतो जातः-भगवता हि महावीरेण 'चलमाणे चलिए'इत्यादौ सूत्रे चलनर्थश्चलितो निर्दिष्टः, तत्र च य एव चलन् स एव चलित इत्य्क्तः , ततश्चैकार्थविषयावेतौ निर्देशौ, चलन्निति च वर्तमानकालविषयःचलितइति चातीतकालविषयः, अतोऽत्र संशयः-कथं नाम य एवार्थो वर्तमानः स एवातीतो भवति?,विरुद्धत्वादनयोः कालयोरिति, तथा। ___ 'जायकोउहल्लेत्ति, जातं कुतूहलंयस्य स जातकुतूहलो, जातीत्सुक्य इत्यर्थः, कथमेतान् पदार्थान् भगवान् प्रज्ञापयिष्यतीति, तथा 'उप्पन्नसट्टे'त्ति उत्पन्ना-प्रागभूता सती भूता श्रद्धा यस्यसउत्पन्नश्रद्धः,अथजातश्रद्ध इत्येतावदेवास्तुकिमर्थमुत्पन्नश्रद्धइत्यभिधीयते?,प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य उत्पन्नश्रद्धइति, हेतुत्वप्रदर्शनं चोचितमेव, काव्यालङ्कारत्वात्तस्य, यथाहुः"प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम्" इह यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वभगवतं तथाऽप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति । 'उप्पन्नसंसए उप्पनकोउहल्ले'त्तिप्राग्वत्, तथा संजायसडे'इत्यादि पदषट्कं प्राग्वत् । नवरमिह संशब्दःप्रकर्षादिवचनो, यथा “संजातकामो बलभिद्विभूत्यां, मानात् प्रजाभिः प्रतिमाननाच्च ।" (संजातकामः-) एन्ट्रैश्वर्ये प्रकर्षेण जातेच्छः कार्तवीर्य इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy