________________
शतकं-१, वर्ग:-, उद्देशकः-१
१७
वर्णतः सहशो यः स तथा, 'पम्ह'त्ति पद्मं तस्य चेह प्रस्तावात्केशराणि गृह्यन्ते ततः पद्मवद्गीरो यः स तथा, ततः पदद्वयस्य कर्मधारयः, अयं च विशिष्टचरणरहितोऽपि स्यादित्यत आह - ___“उग्गतवे'त्ति, उग्रम्-अप्रधृष्यंतः-अनशनादि यस्य स उग्रतपाः, यदन्येन प्राकृतसान शक्यते चिन्तयितुमपितद्विधेन तपसायुक्त इत्यर्थः । “दित्ततवेत्ति, दीप्तं-जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य स तथा ।
'तत्ततवे'त्ति, तप्तंतपोयेनासौ तप्ततयाः, एवं हि तेन तत्तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापितो यतोऽन्यस्यास्पृश्यमिव जातमिति।
'महातवे'त्ति आशंसादोषरहितत्वाप्रशस्ततपाः।
'ओराले'त्ति भीमउग्रादिविशेषणविशिष्टतपःकरणात्पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः,अन्ये त्वाहुः-'ओरालेत्ति भीम उग्रादिविशेषण विशिष्टतपःकरणात्पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः, अन्ये त्वाहुः-'ओराले'त्ति उदारः-प्रधानः।
___'घोरे'त्तिघोरःअतिनिधृणः, परीषहेन्द्रियादिरिपुगणविनाशमाश्रित्य निर्दय इत्यर्थः,अन्ये त्वात्मनिरपेक्षं घोरमाहुः, 'घोरगुणे'त्ति, घोरा-अन्यैर्दुरनुचरा गुणा-मूलगुणादयो यस्य स तथा ।
'घोरतवस्सि'त्ति घोरैस्तपोभिस्तपस्वीत्यर्थः।
'घोरबंभचेरवासि'त्ति, धोरं-दारुणमल्पसत्त्वैर्दुरनुचरत्वाद्यद्ब्रह्मचर्यं तत्र वस्तुंशीलं यस्य स तथा, 'उच्छूढसरीरे'त्ति, उच्छूढम्-उज्झितमिवोज्झितं शरीरं येन ततसंस्कारत्यागात्स तथा।
__ “संखित्तविउलतेयलेसे'त्ति, संक्षिप्ता-शरीरान्तर्लीनत्वेन ह्रस्वतां गता विपुला-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात्तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथामूलटीकाकृता तु 'उच्छूढसरीरसंसित्तविउलतेयलेस'त्ति कर्मधारयं कृत्वा व्याख्यातमिति।
'चउदसपुब्बित्ति चतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वादसौ चतुर्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, सचावधिज्ञानादिविकलोऽपिस्यादतआह। 'चउनाणोवगए'त्ति, केवलज्ञानवर्जज्ञानचतुष्कसमन्वित इत्यर्थः, उक्तविशेषण-द्वययुक्तोऽपिकश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति चतुर्दशपूर्वविदां षट्स्थानकपतितत्वेन श्रवणादित्यत आह -
“सव्वक्खरसनिवाइ'त्ति, सर्वेचतेऽक्षरसन्निपाताश्च-तत्संयोगाःसर्वेषांवाऽक्षराणां सन्निपाताः सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयतया सन्ति स सर्वाक्षरसन्निपाती, श्रव्याणि वा-श्रवणसुखकारीणिअक्षराणि साङ्गत्येन नितरांवदितुं शीलमस्येति श्रव्याक्षरसंनिवादी, सचैवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च। ___ 'समणस्स भगवओ महावीरस्स अदूरसामंते विहरती' ति योगः' तत्र दूरं च-विप्रकृष्टं सामन्तं च-संनिकृष्टं तन्निषेधाददूरसामन्तं तत्र, नातिदूरे नातिनिकट इत्यर्थः, किंविधः संस्तत्र विरहतीत्याह । 'उटुंजाणु'त्ति, उर्वंजानुनी यस्यासावूर्द्धजानुः शुद्धपृथिव्यासनवर्जनादौपग्रहिक निषद्याया अभावोच्चोत्कुटुकासन इत्यर्थः ।
'अहोसिरे'त्ति अधोमुखः नोर्द्धतिर्यग्वा विक्षिप्तष्टि, किन्तु नियतभूभागनियमितदृष्टिरिति 1512
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org