________________
भगवती अङ्गसूत्रं १/-/१/७
एवं वयासी-स
- सुयक्खाए णं भंते! निग्गंथे पावयणे, नत्थि णं अन्ने केइ समे वा माहणे वा एरिसं धम्ममाइक्खित्तए, एवं वइत्ता जामेव दिसिं पाउब्भूया तामेव दिशं पडिगय'त्ति । मू. (८) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूती नामं अनगारे गोयम सगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्ररिसहनारायसंघयणे कणगपुलगणिधसपम्हगोरे । उग्गतवे दित्ततवे तत्ततवे महातवे ओराले धोरे धोरगुणे धोरतवस्सी धोरबंभचेवासी उच्छ्रवाढसरीरेसंखित्तविउलतेयलेसे चोद्दसपुव्वी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते उडुंजाणू अहोसिरे झाणकोठ्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।
१६
वृ. तेन कालेन तेन समयेन श्रमणस्य भगवतो महावीरस्य 'जेट्टे' त्ति प्रथमः 'अंतेवासि 'त्ति शिष्यः, अनेन पदद्वयेन तस्य सकलसङ्घनायकत्वमाह -
'इंदभूइ'त्ति, इन्द्रभूतिरिति मातापितृकृतनामधेयः 'नामं’तिविभक्तिपरिणामान्नाम्नेत्यर्थः, अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह ।
'अनगारे' त्ति, नास्यागारं विद्यत इत्यनगारः, अयं चावगीतगोत्रोऽपि स्यादित्यत आह'गोयमसोत्तेणं'त्ति सप्तहस्तोच्छ्रयः, अयं च लक्षणहीनोऽपि स्यादित्यत आह
समचउरंससंठाणसंठिए 'त्ति, समं नाभेरुपरि अधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच्च तच्चतुरस्रं च प्रधानं समचतुरनम्, अथवा समाः- शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतनोऽनयो यस्य तत्समचतुरम्नम्, अनयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा इति, अन्येत्वाहुःसमा-अन्यूनाधिकाः चतोम्नऽप्यनयो यत्र यत्समचतुम्नम्, अयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरम् आसनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धस्य वामजानुनश्चान्तरं वामस्कन्धस्य दक्षिणजानुनश्चान्त- रमिति, अन्ये त्वाहुः - विस्तारोत्सेधयोः समत्वात् समचतुरनं तच्च तत् संस्थानं च - आकारः समचतुरसंस्थानं तेन संस्थितो- व्यवस्थितो यः स तथा, अयंचहीनसंहननोऽपि स्यादित्यत आह- 'वज्जरिसहनारायसंघयणे' त्ति, इह संहननम् - अस्थिसञ्चयविशेषः, इह वज्रादीनां लक्षणमिदम् ।
॥१॥
"रिसहो य होइ पट्टो वज्रं पुण कीलियं वियाणाहि । उभओ मक्कडबंधो नारायं तं वियाणाहि ।।
तत्र वज्रं च तत् कीलिकाकीलिकाष्ठसंपुटोपमसामर्थ्ययुक्तत्वात् ऋषभश्च लोहादिमयपट्टबद्धकाष्ठसंपुटोपमसामृर्थ्यान्वितत्वाद् वज्रर्षभः स चासौ नाराचं च उभयतो मर्कटबन्धनिबद्धकाष्ठसंपुटोपमसामथ्योर्पेतत्वाद् वज्रर्षभनाराचं ( तच्च) तत् संहननम् - अस्थिसञ्चयविशेषोऽनुपमसामर्थ्ययोगाद् यस्यासौ वज्रर्षभनाराचसंहननः, अन्ये तु कीलिकादिमत्त्वमस्थामेव वर्णयन्ति, अयं च निन्द्यवर्णोऽपि स्यादित्यत आह
कणयपुलयनिहसपम्हगोरे कनकस्य सुवर्णस्य 'पुलगं' ति यः पुलको -लवस्तस्य यो निकषःकषपट्टके रेखालक्षणः, तथा 'पम्ह' त्ति पद्मपक्ष्माणि - केशराणि तद्वद्गौरो यः स तथा, वृद्धव्याख्या तु- कनकस्य न लोहादेर्य पुलकः - सारो वर्णातिशयस्तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्मबहलत्वं तद्वद्गौरो यः स तथा, अथवा कनकस्य यः पुलको द्रुतत्वे सति बीन्दुस्तस्य निकषो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org