________________
शतकं-६, वर्ग:-, उद्देशकः-३
२७५
सिद्धश्च न बघ्नाति पृथिव्यादिकस्तु बघ्नातीति, भजना।
परीत्तद्वारे परीत्ते भयणाए'त्ति परीत्तः'प्रत्येकशरीरोऽल्पसंसारोवा सच वीतरागोऽपि स्यातू न चासौ ज्ञानावरणीयं बघ्नाति सरागपरीत्तस्तु बघ्नातीति भजना, 'अपरित्ते बंधइत्ति 'अपरीत्तः' साधारणकायोऽनन्तसंसारो वा, स च बघ्नाति, नोपरित्तेनोअपरित्ते न बंधइत्ति सिद्धो नबनातीत्यर्थः ‘आउयंपरीत्तोविअपरित्तोवि भयणाए'त्ति प्रत्येकशरीरादिआयुर्वन्धकाल एवायुर्बन्धातीति न तु सर्वदा ततो भजना, सिद्धस्तु न बघ्नात्येवेत्यत आह-'नो परित्ते'इत्यादि ।
ज्ञानद्वारे 'हिहिल्ला चत्तारि भयणाए'त्ति आभिनिबोधिकज्ञानिप्रभृतयश्चत्वारो ज्ञानिनो ज्ञानावरणं वीतरागावस्थायां न बघ्नन्तीति सरागावस्थायां तु बघ्नन्तीति भजना, 'वेयनिजं हेहिल्ला चत्तारिवि बंधंति' त्ति वीतरागाणामपि छद्मस्थानां वेदनीयस्य बन्धकत्वात्, 'केवलनाणी भयणाए'त्ति सयोगिकेवलिनां वेदनीयस्य बन्धनादयोगिनां सिद्धानां चाबन्धनाद्भजनेति।
योगद्वारे 'हेछिल्ला तिन्निभयणाए'त्तिमनोवचनकाययोगिनो ये उपशान्तमोहक्षीणमोहसयोगिकेवलिनस्ते ज्ञानावरणं न बघ्नन्ति तदन्ये तु बघनन्तीति भजना 'अजोगी न बंधइ'त्ति अयोगी केवली सिद्धश्च न बघ्नातीत्यर्थः 'वेयणिज्जं हेडिल्ला बंधंति'त्ति मनोयोग्यादयो वघ्नन्ति सयोगानां वेदनीयस्य बन्धकत्वात्, ‘अयोगी नबंधइत्ति अयोगिनः सर्वकर्मणामबन्धकत्वादिति
उपयोगद्वारे 'अट्ठसुविभयणाए'त्तसाकारनाकारोउपयोगौ सयोगानामयोगानांचस्यातां तत्रोपयोगद्वयेऽपि सयोगा ज्ञानावरणादि प्रकृतीर्यथायोगं बघ्नन्ति अयोगास्तु नेति भजनेति
___ आहारकद्वारे ‘दोवि भयणाए'त्ति आहारको वीतरागोऽपि भवति न चासौ ज्ञानावरणं बघ्नातिसरागस्तुवनातीति आहारको भजनयावघ्नाति, तथाऽनाहारकः केवली विग्रहगत्यापनश्च स्यात्तत्र केवली न बघ्नाति इतरस्तु बघ्नातीति अनाहारकोऽपि भजनयेति । 'वेयणिज्जं आहारए बंधइ'त्ति अयोगिवानां सर्वेषां वेदनीयस्य बन्धकत्वात्।।
'अनाहारए भयणाए'त्ति अनाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली च वघ्नाति अयोगि सिद्धश्च न बघ्नातीति भजना, ‘आउए आहारए भयणाए'त्तिआयुर्बन्धकाल एवायुषो बन्धनात् अन्यदात्वबन्धकत्वाद्भजनेति 'अनाहारएन बंधति'त्तिविग्रहगतिगतानामप्यायुष्कस्याबन्धकत्वादिति॥
सूक्ष्मद्वारे 'बायरेभयणाए'त्ति वीतरागबादराणां ज्ञानावरणस्याबन्धकत्वात्सरागबादराणां च बन्धकत्वाद्भजनेति, सिद्धस्य पुनरबन्धकत्वादाह-'नो सुहुमे' इत्यादि, 'आउए सुहुमे बायरे भयणाए'त्ति बन्धकाले बन्धनादन्यदा त्वबन्धना भजनेति ।।
चरमद्वारे 'अट्ठवि भयणाए'त्ति, इह यस्य चरमो भवो भविष्यति स चरमाः, यस्य तु नासौ भविष्यति सोऽचरमः, सिद्धश्चाचरमः, चरमभवाभावात्, तत्र चरमो यथायोगमष्टापि बनाति अयोगित्वेतुनेत्येवं भजना, अचरमस्तुसंसारी अष्टापिबध्नाति सिद्धस्तुनेत्येवमत्रापि भजनेति॥
मू. (२८५) एएसिणंभंते! जीवाणंइथिवेदगाणंपुरिसवेदगाणं नपुंसगवेदगाणंअवेयगाण य कयरे २ अप्पा वा ४ ?, गोयमा ! सव्वत्थोवा जीवा पुरिसवेदगा इत्थिवेदगा संखेनगुणा अवेदगा अनंतगुणा नपुंसगवेदगा अनंतगुणा। एएसिं सव्वेसिंपदाणं अप्पबहुगाई उच्चारेयव्वाइंजावसव्वत्थोवा जीवा अचरिमा चरिमा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org