________________
शतकं-५, वर्गः-, उद्देशकः-८
२६१
गेवेञ्जदेवाणं'ति इह यद्यपि ग्रैवेयकधस्तनत्रये सङ्ख्यातानि वर्षाणां शतानि मध्यमे सहस्राणि उपरिमे लक्षानि विरह उच्यते तथापि द्विगुनितेऽपिच सङ्ख्यातवर्षत्वं न विरुध्यते, विजयादिषु त्वसङ्ख्या-तकालोविरहः स च द्विगुणोतोऽपि स एव, सर्वार्थःसिद्धे पल्योपमसङ्ख्येयभागः सोऽपि द्विगुनितः सङ्खयेयभाग एव स्यादतएव उक्तं 'विजयवेजयंतजयंतापराजियाणं असंखेज्जाई वाससहस्साई' इत्यादीति।
जीवादीनेव भङ्गयन्तरेणाह-'जीवाण'मित्यादि, ‘सोपचयाः' सवृद्धयः प्राक्तनेष्वन्येषामुत्पादात् ‘सापचयाः' प्राक्तनेभ्यः केषाञ्चिदुद्वर्तनात्सहानयः ‘सोपचयसापचयाः' उत्पादोद्वर्त्तनाभ्यां वृद्धिहान्योयुगपद्भावात् ‘सापचयाः' प्राक्तनेभ्यः केषाञ्चिदुद्वर्तनात्सहानयः ‘सोपचयसापचयाः' उत्पादोद्वर्त्तनाभ्यां वृद्धिहान्योर्युगपद्भावात्, निरुपचयनिरपचयाः उत्पादोद्वर्त्तनयोरभावेन वृद्धिहान्योरभावात्, ननूपचयो वृद्धिरपचयस्तु हानि, युगपद्द्वयाभावरूपञ्चावस्थितत्वं, एवं च शब्दभेदव्यतिरेकेण कोऽनयोः सूत्रयोर्भेदः?, उच्यते, पूर्वं परिमाण मात्रमभिप्रेतम् ।
इह तु तदनपेक्षमुत्पादोद्वर्त्तनामात्रं, ततश्चेह तृतीयभङ्कके पूर्वोक्तवृद्धयादिविकल्पानां त्रयमपि स्यात्, तथाहि-बहुतरोत्पादे वृद्धिर्बहुत्तरोद्वर्त्तने च हानि, समोत्पादोद्वर्तनयोश्चावस्थितत्वमित्येवं भेद इति ।
“एगिदिया तइयपए'त्ति सोपचयसापचया इत्यर्थः, युगपदुत्पादोद्वर्त्तनाभ्यां वृद्धिहानिभावात्, शेषभङ्गकेषु तु ते न संभवन्ति, प्रत्येकमुत्पादोद्वर्तनयोस्तद्विरहस्य चाभावादिति । 'अवट्ठिएहिंति निरपचयनिरपचयेषु 'वक्कंतिकालो भानियव्यो'त्ति विरहकालो वाच्यः॥
शतकं-५ उद्देशकः-८ समाप्तः
- शतकं-५ उद्देशकः-९:वृ. इदं किलार्थःजातं गौतमो राजगृहे प्रायः पृष्टवान् बहुशो भगवतस्तत्र विहारादिति राजगृहादिस्वरूपनिर्णयपरसूत्रप्रपञ्च नवमोद्देशकमाह
मू. (२६४) तेणं कालेणं तेणं समएणं जाव एवं वयासी-किमिदं भंते ! नगरं रायगिहंति पवुच्चइ?, किं पुढवी नगरं रायगिहंति पवुच्चइ, आऊ नगरं रायगिहंति पवुच्चइ ? जाव वणस्सइ ?, जहा एयणुद्देसइ पंचिंदियतिरिक्खजोनियाणं वत्तव्वया तहा भानियव्वं जाव सचित्ताचितमीसयाइं दव्वाइं नगरं रायगिहंति पवुच्चइ? गोयमा! पुढवीवि नगरं रायगिहंति पवुच्चइ जाव सच्चत्ताचित्तमीसियाइं दव्वाइं नगरं रायगिहंति पवुच्चइ।
से केणटेणं?, गोयमा ! पुढवी जीवातिय अजीवातिय नगरं रायगिहंति पवुच्चई जाव सचित्ताचित्तमीसियाई दव्वाइं जीवातिय अजीवातिय नगरं रायगिहंति पवुच्चति से तेणटेणं तं चेव॥
वृ. तेण'मित्यादि, ‘जहा एयणुद्देसए'त्ति एजनोद्देशकोऽस्यैव पञ्चमशतस्य सप्तमः, तत्र पञ्चेन्द्रियतिर्यग्वक्तव्यता 'टङ्काकूडा सेला सिहरी'त्यादिका योक्ता सा इह भनितव्येति ।
अत्रोत्तरं-'पुढवीविनगर'मित्यादि, पृथिव्यादिसमुदायोराजगृहं, न पृथिव्यादिसमुदायाध्ते राजगृहशब्दप्रवृत्ति, पुढवी जीवाइयअजीवाइयनगरं रायगिहंति पवुच्चइत्तिजीवाजीवस्वभावं राजगृहमितिप्रतीतं, ततश्च विवक्षिता पृथिवी सचेतनाचेतनत्वेन जीवाश्चाजीवाश्चेति राजगृहमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org