________________
शतकं - ५, वर्ग:-, उद्देशकः-६
त्योत्कर्षणादिनाऽऽधाकर्मादिकरणेन च प्राणातिपातादिषु वर्त्तते तस्य वधादिविरतिनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया ।
अथ नैवं निर्विशेषणत्वात्सूत्रस्य, अल्पायुष्कत्वस्य च क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपतादिहेतुतो युज्यमानत्वाद् अतः अथमभिधीयते सविशेषणप्राणातिपातादिवर्त्ती जीव आपेक्षिकी चाल्पायुष्कता इति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यं, यत इतस्तृतीयसूत्रे प्राणातिपातादि एवाशुभदीर्घायुष्कता वक्ष्यति, न हि सामान्यहेतौ कार्यवैषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात् ।
तथा 'समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं २ असणं ४ पडिला भेमाणस्स किं कज्जइ ?, गोयमा ! बहुतरिया निज्जरा कज्जइ अप्पतरे से पावे कम्मे कज्जइ' त्ति वक्ष्यमाणवचनादवसीयते-नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्कता, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्ता संभाव्यते, जनपूजाद्यनुष्ठानस्यापि तथाप्रसङ्गात् नन्वेवं धर्मार्थं प्राणातिपातमृषावादाप्रासुकदानंच कर्त्तव्यमापन्नमिति, अत्रोच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः ?, यतो यतिधर्माशक्तस्य गृहस्थस्य द्रव्यस्तवद्वारेण प्राणातिपातादिकमुक्तमेव प्रवचने, दानाधिकारे श्रूयते द्विविधाः श्रमणोपासकाः- संविग्नभाविता लुब्धकदृष्टान्तभाविताश्च भवन्ति, यथोक्तम्
119 11
"संविग्गभावियाणं लोद्धयदिट्टंतभावियाणं च । मोत्तूण खेत्तकाले भावं च कहिंति सुद्धुंछं ॥"
तत्र लुब्धकध्ष्टान्तभाविता आगमार्थानभिज्ञत्वाद्यथाकथञ्चिद्ददति, संविग्नावितास्त्वागमज्ञत्वात्साधुसंयमबाधापरिहारित्वात्तदुपष्टम्भकत्वाचीचित्येन, आगमश्चैवम्
119 11 "संथरणंमि असुद्धं दोण्हवि गेण्हंतदिंतयाणऽहियं । आउरदिठ्ठतेणं तं चैव हियं असंथरणे ।।" (तथा)
नायागयाणं कप्पनिज्जाणं अन्नपाणाईणं दव्वाण मित्यादि, अथवेहाप्रासुकदानमल्पायुष्कतायां मुख्यं कारणं, इतरे तु सहकारिकारणे इति व्याख्येयं प्राणातिपातनमृषावादनयोर्दानविशेषणत्वात्, तथाहि प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा भोः साधो ! स्वार्थ: मिदं सिद्धं भक्तादि कल्पनीयं चातो नानेषणीयमिति शङ्का कार्येति, ततः प्रतिलभ्य तथा कर्म कुर्वन्तीति प्रक्रम इति, गम्भीरार्थं चेदं सूत्रमतोऽन्यथाऽपि यथाऽऽगमं भावनीयमिति ।
अथ दीर्घायुष्कताकारणान्याह - 'कहन्न' मित्यदि, भवति हि जीवदयादिमतो दीर्घमा - युर्यतोऽत्रापि तथैव भवन्ति दीर्घायुषं दृष्ट्वा वक्तारो - जीवदयादि पूर्वं कृतमनेन तेनायं दीर्घायुः संवृत्तः, तथा सिद्धमेव वधादिविरतेदीर्घमायुस्तस्य देवगतिहेतुत्वात्, आह च"अनुव्वयमहव्वएहि य बालतवोऽकामनिज्जराए य ।
119 11
देवाउयं निबंधइ सम्मदिट्ठी य जो जीवो ॥"
२३९
देवगतौ च विवक्षया दीर्घमेवायुः, दानं चाश्रित्येहैव वक्ष्यति "समणोवासयस्स णं भंते! तहारूवं समणं वा २ फासुएणं २ असण ४ मेणं पडिलाभेमाणस्स किं कज्जइ ?, गोयमा ! एगंतसो निज्जरा कज्जइत्ति, यच्च निर्जराकारणं तद्विशिष्टदीर्घायुः कारणतया न विरुद्धं महाव्रतवदिति, व्याख्यानान्तरमपि पूर्ववदेवेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org