________________
शतकं-५, वर्गः:, उद्देशकः-४
२३१ 'एसुहुमंच णं'ति इतिसूक्ष्ममिति एवं लध्विति ।
अनन्तरंमहावीरस्य सम्बन्धिगर्भान्तरसङ्क्रमणलक्षणमाश्चर्यमुक्तम्, अथ तच्छिष्यसम्बन्धि तदेव दर्शयितुमाह
मू. (२२८) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अइमुत्ते नामं कुमारसमणे पगतिभद्दए जाव विनीए, तए णं से अइमत्ते कुमारसमणे अन्नया कयाइ महावुट्टिकायंसि निवयमाणंसि कक्खपडिग्गहरयहरणमायाए बहिया संपट्ठिए विहाराए, तएणं से अइमुत्ते कुमारसमणे वाहयं वहमाणं पासइ २ मट्टियाए पालिंबंधइ नाविया मे २ नाविओविव नावमयं पडिग्गहगं उदगंसि कट्ट पव्वाहमाणे २ अभिरमइ, तं च थेरा अदक्खु, जेणेव समणे भगवं० तेणेव उवागच्छंति २ एवं वदासी
एवं खलु देवाणुप्पियाणं अंतेवासी अतिमुत्ते नामं कुमारसमणे से णं भंते ! अतिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहि सिज्झिहितिजावअंतं करेहिति?, अजो समणे भगवंमहावीरे ते थेरे एवं वयासी
एवंखलु अजो! मम अंतेवासी अइमुत्ते नामंकुमारसमणे पगतिभद्दए जाव विनीए सेणं अइमुत्ते कुमारसमणे इमेणंचेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति, तंमा णं अजो! तुब्भे अतिमुत्तंकुमारसमणंहीलेह निंदह खिंसह गरहह अवमन्नह, तुब्भेणंदेवाणुप्पिया! अतिमुत्तं कुमारसमणंअगिलाए संगिण्हह अगिलाए उवगिण्हह अगिलाए भत्तेणंपाणेणं विनयेणंवेयावडियं करेह, अइमत्तेणं कुमारसमणे अंतकरे चेव अंतिमसरीरिए चेव।।
तएणं ते थेरा भगवंतो समणेणं भगवया म० एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति नमसंति अइमुत्तं कुमरसमणं अगिलाए संगिण्हंतित्ति जाव घेयावडियं करेंति ॥
व.'तेण'मित्यादि, कुमारसमणे'त्तिषड्वर्षजातस्य तस्य प्रव्रजितत्वात, आहच-“छव्वरिसोपव्वइओ निगंथं रोइऊणपावयणंति, एतदेवचाश्चर्यमिह, अन्यथा वर्षाष्टकादारान्न प्रव्रज्या स्यादिति, 'कक्खपडिग्गहरयहरणमायाए'त्तिकक्षायांप्रतिग्रहकरजोहरणंचादायेत्यर्थः ‘नाविया मे'त्ति 'नौका' द्रोनिका 'मे' ममेयमिति विकल्पयन्निति गम्यते 'नाविओ विव नावंति नाविक इव-नौवाहक इव 'नावं' द्रोणीम् 'अयंति असावतिमुक्तकमुनि प्रतिग्रहकं प्रवाहयन्नभिरमते, एवंचतस्यरमणक्रियाबालावस्थाबलादिति, अद्दक्खुत्ति अद्राक्षु दृष्टवन्तः,तेचतदीयामत्यन्तानुचितांचेष्टां दृष्ट्वा तमुपहसन्त इव भगवन्तं पप्रच्छुः।
एतदेवाह-‘एवं खलु'इत्यादि, 'हीलेह'त्तिजात्याधुघट्टनतः 'निंदह'त्ति मनसा खिंसह'त्ति जनसमक्षं गरहह'त्ति तत्समक्षम् अवमन्नहत्तितदुचितप्रतिपत्त्यकरणेन परिभवह'त्तिक्वचित्पाठस्तत्र परिभवः-समस्तपूर्वोक्तपदाकरणेन ‘अगिलाए'त्ति ‘अग्लान्या' अखेदेन 'संगिण्हह'त्ति 'सगृह्णीत' स्वीकुरुत 'उवगिण्हह'त्ति 'उपगृह्णीत' उपष्टम्भं कुरुत, एतदेवाह-'वेयावडियंति वैयावृत्त्यं कुरुतास्येति शेषः, अंतकरेचेव'त्तिभवच्छेदकरः,सच दूरतरभवेऽवि स्यादतआह'अंतिमसररिए चेव'त्त चरमशरीर इत्यर्थः।
यथाऽयमतिमुक्तको भगवच्छिष्योऽन्तिमशरीरोऽभवत् एवमन्येऽन्तिमशरीरोऽभवत् एवमन्येऽपि यावन्तस्तच्छिष्या अन्तिमशरीराः संवृत्तास्तावतो दर्शयितुं प्रस्तावनामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org