SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २३० भगवतीअङ्गसूत्रं ५/-/४/२२६ नारकादिपदेषु 'त्रिकभङ्गः' भङ्गत्रयं वाच्यं, यतो जीवपदे पृथिव्यादिपदेषु च बहुत्वाज्जीवानां सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवमेक एव भङ्गको लभ्यते। नारकादिषु तुत्रयं, तथाहि-सर्व एव सप्तविधबन्धकाः स्युरित्येकः १, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकश्चेत्येवं द्वितीयः २, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवं तृतीयः ३ इति। अत्रैव छद्मस्थकेवल्यधिकारे इदमपरमाह-'छउमत्थे'त्यादि, 'निदाएज वत्ति निद्रांसुखप्रतिबोधलक्षणां कुर्यात् निद्रायेत ‘पयलाएज वत्ति प्रचलाम्-उर्द्धस्थितनिद्राकरणलक्षणां कुर्यात् प्रचलायेत्। केवल्यधिकारात्केवलिनो महावीरस्य संविधानकमाश्रित्येदमाह मू. (२२७) हरीणंभंते! हरिनेगमेसी सक्कदूए इत्थीगभंसंहरणमाणे किंगभाओगभं साहरइ १ गब्भाओ जोणिं साहरइ २ जोणीओ गब्भं साहरइ ३ जोणीओ जोणिं साहरइ ४?, गोयमा ! नो गब्भाओ गब्भं साहरइ नो गभाओ जोणिं साहरइ नो जोणीओ जोणिं साहरइ परामुसिय २ अव्वाबाहेणं अव्वाबाहं जोणीओ गब्भ साहरइ। पभूणंभंते! हरिनेगमेसी सक्कस्सणंदूएइत्थीगब्भनहसिरंसिवारोमकूवंसिवासाहरित्तए वा नीहरित्तए वा ?, हंता पभू, नो चेवणंतस्स गब्भस्स किंचिविआबाहं वा विबाहं वा उप्पाएज्जा छविच्छेदं पुण करेजा, एसुहुमं चणं साहरिज वा नीहरिज वा॥ . वृ. 'हरी'त्यादि, इह चयद्यपिमहावीरसंविधानाभिधायकंपदंन दृश्यते तथाऽपिहरिनैगमेषीति वचनात्तदेवानुमीयते, हरिनैगमेषिणा भगवतो गर्भान्तरे नयनात्, यदि पुनः सामान्यतो गर्भहरणविवक्षाऽभविष्यत्तदा 'देवे णं भंते !' इत्यवक्ष्यदिति, तत्र हरि-इन्द्रस्तत्सम्बन्धित्वात् हरिनैगमेषीति, नाम, सक्कदूए'त्ति शक्रदूतः शक्रादेशकारी पदात्यनीकाधिपतिर्येनशक्रादेशाद्भगवान् महावीरो देवानन्दागर्भात्त्रिंशलागर्भे संहृत इति, 'इत्थीगमंतिस्त्रियाः सम्बन्धी गर्भसजीवपुद्गलपिण्डकःस्त्रीगर्भस्तं 'संहरेमाणे तिअन्यत्रनयन्, इह चतुर्भङ्गिका, तत्र 'गर्भाद्' गर्भाशयादवधेः 'गर्भ' गर्घाशयान्तरं 'संहरति' प्रवेशयति 'गर्भ सजीवपुद्गलपिण्डलक्षणमितिप्रकृतमित्येकः १, तथा गर्भादवधेः 'योनि' गर्भनिर्गमद्वारं संहरति योन्योदरान्तरं प्रवेशयतीत्यर्थः २, तथा 'योनीतो योनिद्वारेण गर्भ संहरति गर्भाशयंप्रवेशयतीत्यर्थः ३, तथा योनीतः' योनेः सकाशाद्योनि 'संहरति' नयित योन्योदरान्निष्काश्य योनिद्वारेणैवोदरान्तरं प्रवेशयतीत्यर्थः ४। एतेषुशेषनिषेधेनतृतीयमनुजानन्नाह-'परामुसिए'त्यादि, 'परामृश्य २' तथाविधकरणव्यापारेण संस्पृस्य २ स्त्रीगर्भम् 'अव्याबाधमव्याबाधेन' सुखंसुखेनेत्यर्थः 'योनीतः' योनिद्वारेण निष्काश्य 'गर्भ' गर्भाशयं 'संहरति' गर्भमिति प्रकृतं, यच्चेह योनीतो निर्गमनं स्त्रीगर्भस्योक्तं तल्लोकव्यवहारानुवर्तनात्, तथाहि-निष्पन्नोऽनिष्पन्नो वा गर्भ स्वभावाद्योन्यैव निर्गच्छतीति । अयं च तस्य गर्भसंहरणे आचार उक्तः, अथ तत्सामर्थ्य दर्शयन्नाह-'पभूण मित्यादि, 'नहसिरंसित्ति नखाग्रे ‘साहरित्तए'त्ति संहर्तु-प्रवेशयितुं 'नीहरित्तए'त्ति विभक्तिपरिणामेन नखशिरसोरोमकूपाद्वा 'निहर्तु निष्काशयितुम् ‘आबाहंति ईषद्बाधां विबाह'तिविशिष्टबाधां 'छविच्छेदं'तिशरीरच्छेदंपुनः कुर्यात्, गर्भस्य हिछविच्छेदमकृत्वा नखाग्रादीप्रवेशयितुमशक्यत्वात् For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy