________________
शतकं-५, वर्गः-, उद्देशकः - ३
तया, 'अन्नमन्नघडत्ताए’त्ति अन्योऽन्यं घटा-समुदायरचना यत्र तदन्योऽन्यघटं तद्भावस्तत्ता तया 'चिट्ठइ'त्ति आस्ते, इति दृष्टान्तोऽथ दान्तिक उच्यते- 'एवामेव 'त्ति अनेनैव न्यायेन बहूनां जीवनां सम्बन्धीनि 'बहूसु आजाइसहस्सेसु' त्ति अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेष्वधिकरणभूतेषु बहून्यायुष्कसहस्राणि तत्स्वामिजीवानामाजीतानां च बहुशतसहस्रसङ्घयत्वात्, आनुपूर्वीग्रथितानीत्यादि पूर्ववद्वयाख्येयं नवरमिह भारिकत्वं कर्मपुद्गलापेक्षया वाच्यम् ॥ अथैतेषामायुषां को वेदनविधि - ? इत्याह
'एगेऽविये' त्यादि, एकोऽपि च जीव आस्तामनेकः, एकेन समयेनेत्यादि प्रथमशतकवत्, अत्रोत्तरं - 'जे ते एवमाहंसु' इत्यादि, मिथ्यात्वं चैषामेवम्-यानि हि बहूनां जीवनां बहून्यायूंषि जालग्रन्थिकावत्तिष्ठन्ति तानि यथास्वं जीवप्रदेशेषु संबद्धानि स्युरसंबद्धानि वा ?, यदि संबद्धानि तदा कथं भिन्नभिन्नजीवस्थितानां तेषां जालग्रन्थिकाकल्पना कल्पयितुं शक्या ?, तथाऽपि तत्कल्पने जीवानामपि जालग्रन्थिकाकल्पत्वं स्यात्तत्संबद्धत्वात्, तथा च सर्वजीनां सर्वायुः संवेदनेन सर्वभवभवनप्रसङ्ग इति । अथ जीवानामसंबद्धान्यायूंषि तदा तद्वशाद्देवादिजन्मेति न स्यादसंबद्धत्वादेवेत, यच्चोक्तमेको जीव एकेन समयेन द्वे आयुषी वेदयति तदपि मिथ्या, आयुर्द्वयसंवेदने युगपद्भवद्वय- प्रसङ्गादिति ।
'अहं पुण गोयमे' त्यादि, इह पक्षे जालग्रन्थिका - सङ्कलिकामात्रम्, 'एगमेगस्से' त्यादि, एकैकस्य जीवस्य न तु बहूनां बहुधा ष्वाजातिसहस्रेषु क्रमवृत्तिष्वतीतकालिकेषु तत्कालापेक्षया सत्सु बहून्यायुःसहस्राण्यतीतानि वर्त्तमानभवान्तानि अन्यभविकमन्यभविकेन प्रतिबद्धमित्येवं सर्वानि परस्परं प्रतिबद्धानि भवन्ति न पुनरेकभव एव बहूनि 'इहभवियाउयं व' त्ति वर्त्तमानभवायुः 'परभवियाउयं व 'त्ति परभवप्रायोग्यं यद्वर्त्तमानभवे निबद्धं तच्च परभवगतो यदा वेदयति तदा व्यपदिश्यते ‘परभवियाउयं वत्ति ।। आयुः- प्रस्तावादिदमाह
२२७
मू. (२२४) जीवे णं भंते! जे भविए नेरइएस उववज्जित्तए से णं भंते! किं साउए संकमइ निराउए संकमइ ?, गोयमा ! साउए संकमइ नो निराउए संकमइ । से णं भंते! आउए कहिं कडे कहिं समाइन्ने ?, गोयमा ! पुरिमे भवे कडे पुरिमे भवे समाइन्ने, एवं जाव वेमानियाणं दंडओ । से नूनं भंते! जे जंभविए जोणिं उववज्जित्तए से तमाउयं पकरेइ, तंजहा- नेरइयाउयं वा जाव देवाउयं वा ?, हंता गोयमा ! जे जंभविए जोणि उववजित्तए से तमाउयं पकरेइ, तंजहानेरइयाउयं वा तिरि० मणु० देवाउयं वा, नेरइयाउयं पकरेमाणे सत्तविहं पकरेइ, तंजहा- रयणप्पभापुढविनेरइयाउयं वा जाव अहेसत्तमापुढविनेरइयाउयं वा, तिरिक्खजोणियाउयं पकरेमाणे पंचविहं पकरेइ । तंजहा एगिंदियतिरिक्खजोनियाउयं वा, भेदो सव्वो भाणियव्वो,
मणुस्साउयं दुविहं, देवाउयं चउव्विहं, सेवं भंते! सेवं भंते ! ॥
वृ. 'जीवे णमित्यादि, 'से णं भंते 'त्ति अथ तद्भदन्त ! 'कहिं कडे' त्ति क्व भवे बद्धं 'समाइन्ने' त्ति समाचरितं तद्धेतुसमाचरणात्, 'जे जंभविए जोनि उववजित्तए 'त्ति विभक्तिपरिणामाद्यो यस्यां योनावुत्पत्तुं योग्य इत्यर्थः 'मणुस्साउयं दुविहं' ति संमूर्च्छिमगर्भव्युत्क्रान्तिकभेदाद्द्द्विधा ‘देवाउयं चउव्विहं'ति भवनपत्यादिभेदादिति ।
शतकं - ५ उद्देशकः ३ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org