SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २२० भगवतीअङ्गसूत्रं ५/-/१/२१७ तयाणं पञ्चत्थिमेणवि० तया णं जंबू० मंदरस्स उत्तरदाहिणेणं उक्कोसिया अट्ठारसमुहुत्ता राती भवति?, हंता गोयमा! जाव राती भवति ॥ वृ. 'जया ण'मित्यादि, इह सूर्यद्वयभावादेकदैव दिग्द्वये दिवस उक्तः, इह च यद्यपि दक्षिणार्द्ध तथोत्तरार्द्ध इत्युक्तं तथाऽपि दक्षिणभागे उत्तरभागे चेति बोद्धव्यं, अर्द्धशब्दस्य भागमात्रार्थःत्वात्, यतो यदि दक्षिणार्द्ध उत्तरार्द्ध च समग्र एव दिवसः स्यात्तदाकथंपूर्वेणापरेण चरात्रि स्यादितिवक्तुंयुज्येत, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात्, इतश्च दक्षिणार्धादिशब्देन दक्षिणादिदिग्भागमात्रमेवावसेयं नत्व अतो यदाऽपिदक्षिणोत्तरयोः सर्वोत्कृष्टो दिवसोभवति तदाऽपि जम्बूद्वीपस्य दशभागत्रयप्रमाणमेव तापक्षेत्रं तयोः प्रत्येकं स्याद्, दशभागद्वयमानं च पूर्वपश्चिमयोः प्रत्येकं रात्रिक्षेत्रं स्यात् । तथाहि-षष्ट्या मुहूर्त ः किल सूर्यो मण्डलं पूरयति, उत्कृष्टदिनं चाष्टादशभिर्मुहूर्तरूक्तं, अष्टादशच षष्टेर्दशभागत्रितयरूपा भवन्ति, तथायदाऽष्टादशमुहूर्तो दिवसोभवति तदा रात्रि - दशमुहूर्त्ता भवति, द्वादशच षष्टेर्दशभागद्वयरूपाभवन्तीति, तत्र चमेरुप्रति नव योजनसहनानि चत्वारिशतानिषडशीत्यदिकानिनवचदश भागायोजनस्येत्येतत्सर्वोत्कृष्टदिवसेदशभागत्रयरूपं तापक्षेत्रप्रमाणं भवतिकथम्?, मन्दरपरिक्षेपस्य किञ्चिन्यूनत्रयोविंशत्युत्तरषट्शताधिकैकत्रिंशघोजनसहनमानस्य दशभिर्भागे हृते यल्लब्धं तस्य त्रिगुणितत्वे एतस्य भावादिति। ___ तथालवणसमुद्रं प्रतिचतुर्नवतिर्योजनानांसहस्रानिअष्टौ शतान्यष्टषष्टधिकानिचत्वारश्च दशभागा योजनस्येत्येतदुत्कृष्टदिने तापक्षेत्रप्रमाणं भवतिकथम्?, जम्बूद्वीपपरिधेः किञ्चिन्यूनाष्टाविंशत्युत्तरसतद्वयाधिकषोडशसहस्रोपेतयोजनलक्षत्रयमानस्य दशभिर्भागे हृते यल्लब्धं तस्य त्रिगुनितत्वे एतस्यभावादिति ।जघन्यरात्रिक्षेत्रप्रमाणंचाप्येवमेव, नवरंपरिधेर्दशभागो द्विगुणः कार्य, तत्राद्यंषड् योजनानांसहस्राणित्रीणिशतानिचतुर्विशत्यधिकानिषट्च दशभागायोजनस्य द्वितीयं तु त्रिषष्टि सहाणि द्वे पञ्चचत्वारिंशदधिके योजनानां शते षट् च दशभागा योजनस्य सर्वलघौ च दिवसे तापक्षेत्रमनन्तरोक्तरात्रिक्षेत्रतुल्यं रात्रिक्षेत्रंत्वनन्तरोक्ततापक्षेत्रतुल्यमिति, आयामतस्तु तापक्षेत्र जम्बूद्वीपमध्ये पञ्चचत्वारिंशद्योजनानां सहस्राणीति, लवणे च त्रयस्त्रिंशत्सहस्राणित्रीनिशतानित्रयाशिंदधिकानि त्रिभागश्च योजनस्य उभयमीलने त्वष्टसप्ततिः सहाम्रणि त्रीनि शतानि त्रयशिंदधिकानि योजनत्रिभागश्चेति। ___“उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइत्ति इह किल सूर्यस्य चतुरशीत्यधिक मण्डलशतं भवति, तत्र किल जम्बूद्वीपमध्ये पञ्चषष्टिमण्डलानि भवन्ति, एकोनविंशत्यधिकं च तेषां शतं लवणसुद्रस्य मध्ये भवति, तत्रच सर्वाभ्यन्तरे मण्डले यदावर्त्तते सूर्यस्तदाऽष्टादशमुहूर्तो दिवसो भवति, कथम्?, यदा सर्वबाह्ये मण्डले वर्ततेऽसौ तदा सर्वजघन्यो द्वादशमुहूर्तो दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यां दिनस्य वृद्धौ त्र्यशीत्यधिकशततमे मण्डले षड् मुहूर्ता वर्द्धन्त इत्येवमष्टादशमुहूर्तो दिवसो भवति, अत एव द्वादशमुहूर्ता रात्रिर्भवति, त्रिंशन्मुहूर्तत्वादहोरात्रस्य। ___'अट्ठारसमुहुत्तानंतरे'त्ति यदा सर्वाभ्यन्तरमण्डलानन्तरे मण्डले वर्तते सूर्यस्तदा मुहूर्तेकषष्टिभागद्वयहीनाष्टादशमुहूर्तो दिवसो भवति, स चाष्टादशमुहूर्तादिवसादनन्तरोऽ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy