SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ शतकं-३, वर्ग:-, उद्देशकः-७ २०७ सोमस्य राज्याभिषेकं यावदिति, सा चेहातिबहुत्वान्न लिखितेति । 'अहे'इति तिर्यग्लोके 'वेमानिया ण पमाणस्स'त्ति वैमानिकानां सौधर्मविमानसत्कप्रासादप्राकारद्वारादीनां प्रमाणस्येह नगर्यामद्धं ज्ञातव्यं 'सेसा नत्थि'त्ति सुधर्मादिकासभा इहन सन्ति, उत्पत्तिस्थानेष्वेव तासांभावात्, ‘सोमकाइय'त्ति सोमस्यकायो-निकायो येषामस्ति ते सोमकायिकाः-सोमपरिवारभूताः ‘सोमदेवकाइय'त्ति सोमदेवताः-तत्सामानिकादयस्तासां कायोयेषामस्तितेसोमदेवताकायिकाःसोमसामानिकादिदेवपरिवारभूता इत्यर्थः, 'तारारूवत्ति तारकरूपाः 'तब्मत्तिय'त्तितत्र-सोमे भक्ति-सेवाबहुमानोवा येषां तेतद्भक्तिकाः 'तप्पक्खिय'त्ति सोमपाक्षिकाः सोमस्य प्रयोजनेषु सहायाः 'तब्भारिय'त्ति 'तद्भार्या' तस्य सोमस्य भार्या इव भार्या अत्यन्तं वश्यत्वात्पोषणीयत्वाच्चेतितद्भार्या, तद्भारोवायेषांवोढव्यतयाऽस्तितेतद्भारिकाः ... 'गहदंड'त्ति दण्डा इव दण्डाः-तिर्यगायताः श्रेणयः ग्रहाणां-मङ्गलादीनां त्रिचतुरादीनां दण्डा ग्रहदण्डाः, एवं ग्रहमुशलादीनि नवरमूर्द्धयताः श्रेणयः, 'गहगज्जिय'त्ति ग्रहसञ्चालादौ गर्जितानि-स्तनितानि ग्रहगर्जितानि 'ग्रहयुद्धानि ग्रहयोरेकत्र नक्षत्रे दक्षिणोत्तरेण समश्रेनितयाऽवस्थानानि' 'ग्रहसिङ्घाटकानि ग्रहाणां सिङ्घाटकफलाकारेणावस्थानानि 'ग्रहापसव्यानिग्रहाणामपसव्यगमानि प्रतीपगमनानीत्यर्थः, अभ्रात्मका वृक्षा अभ्रवृक्षाः ‘गन्धर्वनगरानि' आकाशे व्यन्तरकृतानि नगराकाप्रतिबिम्बानि, 'उल्कापाताः' सरेखाः सोयोता वा तारकस्येव पाताः 'दिग्दाहाः' अन्यतमस्यां दिशि अधोऽन्धकारा उपरि प्रकाशात्मका दह्यमानमहानगरप्रकाशकल्पाः ‘जूवय'त्ति शुक्लपक्षे प्रतिपदादिदिनत्रयं यावद्यै-सन्ध्याछेदा आवियन्तेतेयूपकाः 'जक्खालित्तय'त्ति ‘यक्षोद्दीप्तानि' आकाशे व्यन्तरकृतज्वलनानि, धूमिकामहिकयोर्वर्णकृतो विशेषः, तत्र धूमिका-धूम्रवर्णा घूसरा इत्यर्थः, महिका त्वापाण्डुरेति, 'रउग्घाय'त्ति दिशां रजस्वलत्वानि 'चंदोवरागा सूरोवरागा' चन्द्रसूर्यग्रहणानि ‘पडिचंद'तति द्वितीयचन्द्राः 'उदगमच्छत्ति इन्द्रधनुःखण्डानि 'कविहसिय'त्ति अनभ्रे या विद्युत्सहसा तत् कपिहसितम्। ___ अन्येत्वाहुः-कपिहसितंनामयदाकाशेवानरमुखसशस्यविकृतमुखस्यहसनम् अमोह'त्ति अमोधा आदित्योदयास्तसमययोरादित्यकिरणविकारजनिताः आताम्राः कृष्णाः श्यामा वा शकटोद्धिसंस्थिता दण्डा इति, ‘पाईणवाय'त्ति पूर्वदिग्वाताः ‘पडीणवाय'त्ति प्रतीचीनवाताः, यावत्करणादिदं श्यम्-'दाहिणवायाइवाउदीणवायाइवा उड्डवायाइवा अहोवायाइ वा तिरियवायाइवा विदिसीवायाइवा वाउब्मामाइवा वाउक्कलियाइवावायमंडलियाइवा उक्कलियावायाइ वा मण्डलियावायाइ वा गुंजावायाइ वा झंझावायाइव'त्ति, इह 'वातोद्रामाः' अनवस्थितवाताः 'वातोत्कलिकाः' समुद्रोत्कलिकावत् 'वातमण्डलिका' वातोल्यः 'उत्कलि-कावाताः' उत्कलिकाभिर्येवान्ति 'मण्डलिकावाताः' मण्डलिकाभिर्ये वान्ति 'गुअवाताः' गुअन्तः सशब्दं ये वान्ति 'झञ्झावाताः' अशुभनिष्ठुराः 'संवर्तकवाताः' तृणादिसंवर्तनस्वभावा इति । __अथानन्तरोक्तानां ग्रहदण्डादीनां प्रायिकफलानिदर्शयन्नाह-'पाणक्खय'त्ति बलक्षयाः 'जणक्खय'त्ति लोकमरणानि, निगमयन्नाह-'वसणब्भूया अनारिया जे यावन्ने तहप्पगार'त्ति, इहैवमक्षरघटना-नकेवंप्राणक्षयादय एव,येचान्ये एतद्वयतिरिक्तास्तप्रकाराः-प्राणक्षयादितुल्याः 'व्यसनभूताः' आपद्रूपाः 'अनार्या पापा-त्मकाःनतेऽज्ञाता इति योगः 'अन्नाय'त्तिअनुमानतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy