SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ शतकं - ३, वर्ग:-, उद्देशकः - ३ 'जीवेण' मित्यादि, 'नो एयइ' त्ति शैलेशीकरणे योगनिरोधान्नो एजत इति, एजनादिरहितस्तु नारम्भादिषु वर्त्तते तथा च न प्राणादीनां दुःखापनादिषु तताऽपि च योगनिरोधाभिधान शुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवति, तत्र दृष्टान्तद्वयमाह - ' से जहे 'त्यादि, 'तिणहत्थयं' ति तृणपूलकं 'जायतेयंसि’त्ति वह्नो 'मसमसाविज्जइ' त्ति शीघ्रंदह्यते, इह च दृष्टान्तद्वयस्याप्युपनयार्थः सामर्थ्यगम्यो यथा- एवमेजनादिरहितस्य शुक्लध्यानचतुर्थः भेदानलेन कर्मदाह्यदहनं स्यादिति अथ निष्क्रियस्यैवान्तक्रिया भवतीति नौदृष्टान्तेनाह । १९५ 'से जहानामए' इत्यादि, इह शब्दार्थः प्राग्वन्नवरम् 'उद्दाइ' त्ति उद्याति जलस्योपरि वर्त्तते 'अत्तत्तासंवुडस्स' त्ति आत्मन्यात्मना संवृतस्य प्रतिसंलीनस्येत्यर्थः, एतदेव 'इरियासमियरसे' त्यादिना प्रपञ्चयति 'आउत्तं'ति आयुक्तमुपयोगपूर्वकमित्यर्थः 'जाव चक्खुपम्हनिवायमवि' त्ति किं बहुना आयुक्तगमनादिना स्थूलक्रियाजालेनोक्तेन ? यावच्चक्षुपक्ष्मनिपातोऽपि, प्राकृतत्वाल्लिङ्गव्यत्ययः, उन्मेषनिमेषमात्रक्रियाऽप्यस्ति आस्तां गमानिदका तावदिति शेषः 'वेमाय'त्ति विविधमात्रा, अन्तर्मुहूत्तदिर्देशोनपूर्वकोटीपर्यन्तस्य क्रियाकालस्य विचित्रत्वात्, वृद्धाः पुनरेवमाहुः यावता चक्षुषो निमेषोन्मेषमात्राऽपि क्रिया क्रियते तावताऽपि कालेन विमात्रया स्तोकमात्रयाऽपीति, क्वचि - द्विमात्रेत्यस्य स्थाने 'सपेहाए' त्ति दृश्यते तत्र च 'स्वप्रेक्षया' स्वेच्छया चक्षुः पक्ष्मनिपातो न तु परकृतः 'सुहुम' त्ति सूक्ष्मबन्धादिकाला 'ईरियावहिय'त्ति ईर्यापथो-गमनमार्गस्तत्र भवा एर्यापथिकी केवलयोगप्रत्ययेति भावः 'किरिये 'ति कर्म सातवेदनीयमित्यर्थः 'कज्जइ' त्ति क्रियते भवतीत्यर्थः । उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवर्त्ती वीतरागोऽपि हि सक्रियत्वात्सातवेद्यं कर्म बन्धीतिति भावः, 'सेति ईर्यापथिकी क्रिया 'पढमसमयबद्धपुट्ठ' त्ति (प्रथमसमये)बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेशैः स्पर्शनात्ततः कर्मधारय तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तता द्वितीयसमये वेदिता - अनुभूतस्वरूपा, एवं तृतीयसमये 'निर्जीर्णा' अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशाटितेति । एतदेव वाक्यान्तरेणाह-सा बद्धा स्पृष्टा प्रथमे समये द्वितीये तु 'उदीरिता' उदयमुपनीता, किमुक्तं भवति ? - वेदिता, न ह्येकस्मिन् समये उदीरणा उदयश्च संभवतीत्येवं व्याख्यातं, तृतीये नु निर्जीर्णा, ततश्च 'सेयकाले' त्ति एष्यत्काले 'अकम्पं वावि'त्ति अकर्माऽपि च भवति, इह च यद्यपि तृतीयऽपि समये कर्माकर्म भवति तथाऽपि तत्क्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात्, तृतीये निर्जीर्णं कर्मेति व्यपदिश्यते, चतुर्थादिसमयेषुत्वकर्मेति, 'अत्तत्तासंवुडस्से' त्यादिना चेदमुक्तंयदि संयतोऽपि साश्रवः कर्म बन्धाति तदा सुतरामसंयतः, अनेन च जीवनावः कर्म्मजलपूर्यमाणतयार्थः तोऽधोनिमज्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाच्चाक्रियस्य तद्विपरीतत्वात्कर्मबन्धाभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूर्द्धगमनं सामथ्यार्दुपनीतमवसेयमिति अथ यदुक्तं श्रमणानां प्रमादप्रत्यया क्रिया भवतीति, तत्र प्रमादपरत्वं तद्विपक्षत्वात्तदितरत्वं संयतस्य कालतो निरूपयन्नाह मू. (१८२) पमत्तसंजयस्स णं भंते! पमत्तसंजमे वट्टमाणस्स सव्वावि य णं पमत्तद्धा कालओ केवच्चिरं होइ ?, मंडियपुत्ता ! एगजीवं पडुच्च जहन्त्रेणं एक्कं समयं उक्कोसेणं देसूणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy