________________
भगवतीअङ्गसूत्रं ३/-/३/१८१
समभरघडत्ताए चिट्ठति ! हंता ! चिट्ठति, अहे णं केइ पुरिसे तीसे नावाए सव्वतो समंता आसवदाराई पिहेइ २ नावाउस्सिंचणएणं उदयं उस्सिंचिज्जा से नूणं मंडियपुत्ता ! सा नावा तंसि उदयंसि उस्सिंचिज्जुंसि समाणंसि खिप्पामेव उड्डुं उदाइ ?, हंता ! उदाइज्जा ।
एवामेव मंडियपुत्ता! अत्तत्तासंवुडस्स अनगारस्स ईरियासमियस्स जाव गुत्तबंभयारियरस आउत्तंगच्छमाण्स चिट्ठमाणस्स निसीयमाणस्स तुयट्टमाणस्स आउत्तंवत्यपडिग्गह- कंबलपायपुंछणं गेण्हमाणस्स निक्खिवमाणस्स जाव चक्खुपम्हनिवायमवि वेमाया सुहुमा ईरियावहिया किरिया कज्जइ, सा पढमसमयबद्धपुट्ठा बितियसमयवेतिया ततियसमयनिज्जरिया सा बद्धा पुट्ठा उदीरिया वेदिया निज्जिन्ना सेयकाले अकम्पं वावि भवति, से तेणट्टेणं मंडियपुत्ता! एवं बुधति- जावं च णं से जीवे सया समियं नो एयति जाव अंते अंतकिरिया भवति ॥
१९४
वृ. 'जीवेण 'मित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात्, 'सदा' नित्यं 'समियं' ति सप्रमाणं 'एयइ'त्ति एजते- कम्पते 'एज कम्पने' इति वचनात् 'वेयइ' त्ति 'व्येजते' विविधं कम्पते 'चलइ' त्ति स्थानान्तरं गच्छति 'फंदइ'त्ति 'स्पन्दते' किञ्चिच्चलति 'स्पदि किञ्चिञ्चलने' इति वचनात्, अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ते 'घट्ट' त्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति 'खुब्मइ'त्ति 'क्षुम्यति' पृथिवीं प्रविशति क्षोभयति वा पृथिवीं बिभेति वा ‘उदीरइ’त्ति प्राबल्येन प्रेरयति पदार्थान्तरं प्रतिपादयति वा, शेषक्रियाभेदसङ्ग्रहार्थः माह 'तं तं भावं परिणमइ' त्ति उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणादिकं परिणामं यातीत्यर्थः, एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं न तु प्रत्येकापेक्षया, क्रमभाविनां युपगदभावादिति, 'तस्स जीवस्स अंते' त्ति मरणान्ते 'अंतकिरिय'त्ति सकलकर्मक्षयरूपा, 'आरंभ' त्ति आरभते पृथिव्यादीनुपद्रवयति 'सारिंभइ' त्ति 'संरभते' तेषु विनाशसङ्गल्पं करोति 'समारंभइ'त्ति 'समारभते' तानेव परितायति, आह च
119 11
"संकप्पो संरंभो परितावकरो भवं समारंभो ।
आरंभी उद्दवओ सव्वनयाणं विसुद्धाणं ॥
इदं च क्रियाक्रियावतोः कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतः सूत्रमुक्तम्, अथ तयोः कथञ्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थं व्यधिकरणत आह- 'आरंभ' इत्यादि, आरम्भे-अधिकरणभूते वर्त्तते जीवः, एवं संरम्भे समारम्भे च, अनन्तरोक्तवाक्यार्थः द्वयानुवादेन प्रकृतयोजनामाह-आरम्भमाणः संरभमाणः समारभमाणो जीव इत्यनेन प्रथमो वाक्यार्थोऽनूदितः आरम्भे वर्त्तमान इत्यादिना तु द्वितीयः, 'दुक्खावणयाए' इत्यादी ताशब्दस्य प्राकृतप्रभवतत्वात् 'दुःखापनायां' मरणलक्षणदुःखप्रापणायाम् अथवा इष्टवियोगादिदुःखहेतुप्रापणायां वर्त्तत इति योगः । तथा 'शोकापनायां' दैन्यप्रापणायां 'जूरावणताए' त्ति सोकातिरेकाच्छरीरजीर्णताप्रापणायां 'तिप्पावणयाए 'त्ति 'तेपापनायां' 'तिप टेप क्षरणार्थी' इतिवचनात् शोकातिरेकादेवाश्रुला लादिक्षरजीर्णताप्रापणायां 'पिट्टावणता 'त्ति पिट्टनप्रापणायां ततश्च परितापनायां- शरीरसन्तापे वर्त्तते, क्वचित्पठ्यते 'दुक्खावणयाए' इत्यादि, तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावयाए' इत्यधिकमभिधीयते तत्र 'किलामणयाए' त्ति ग्लानिनयने 'उद्दावणयाए 'त्ति उत्त्रासने उक्तार्थः विपर्ययमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org