SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ शतकं-३, वर्गः-, उद्देशकः-२ १८९ खेत्तंचमरे ३अहे ओवयइइक्केणंसमएणतंसक्कोदोहिं तिवक्ष्यमाणवचनद्वयसामर्थ्याल्लभ्यमिति, 'जावइय'मित्यादिसूत्रद्वयमधःक्षेत्रापेक्षं पूर्ववद्वयाख्येयं, ‘एवं खलु' इत्यादि च निगमनम् । __ अथ शक्रादीनां प्रत्येकं गतिक्षेत्रस्याल्पबहुत्वोपदर्शनाय सूत्रत्रयमाह- 'सक्कस्से'त्यादि, तत्र ऊर्द्धमधस्तिर्यक्च यो गतिविषयो-गतिविषयभूतं क्षेत्रमनेकविधंतस्यमध्ये कतरोगतिविषयः कतरस्मादतिविषयात्सकाशादल्पादि? इति प्रश्नः, उत्तरंतुसर्वस्तोकमधःक्षेत्रसमयेनावपतति, अधोमन्दगतित्वाच्छक्रस्य, तिरियंसंखेज्जे भागेगच्छइत्ति कल्पनया किलैकेन समयेन योजनमघो गच्छति शक्रः, तत्र च योजने द्विधाकृते द्वौ भागौ भवतः, तयोश्चैकस्मिन् द्विभागे मीलिते त्रयः सङ्खयेया भागा भवन्ति अतस्ता तिर्यग् गच्छति, सार्द्ध योजनमित्यर्थः, तिर्यग्गतौ तस्य शीघ्रगतित्वात्, ‘उड्ढे संखेज्जे भागे गच्छइत्ति यान् किल कल्पनया त्रीन् द्विभागांस्तिर्यग्गच्छति तेषु चतुर्थेऽन्यस्मिन् द्विभागे मीलिते चत्वारो द्विभागरूपाः सङ्ख्यातभागाः संभवन्ति अतस्तानूद्धर्वं गच्छति । अथ कथं सूत्रे सङ्ख्यातभागमात्रग्रहणे सतीदं नियतभागव्याख्यानं क्रियते?, उच्यते, 'जावइयं खेत्तं चमरे ३ अहे ओवयइ एकेणं समएणं तं सक्के दोहिं', तथा 'सक्कस्स उप्पयणकाले चमरस्स ओवयणकाले एते णं दोन्निवि तुल्ला' इति वचनतो निश्चीयते शक्रो यावदघो द्वाभ्यां समयाभ्यां गच्छति तावदूर्द्धमेकेनेति द्विगुणमधःक्षेत्रादूर्ध्वक्षेत्र, एतयोश्चापान्तरालवर्त्तितिर्यक्-क्षेत्रमतोऽपान्तरालप्रमाणेनैव तेन भवितव्यमित्यधःक्षेत्रापेक्षया तिर्यक्षेत्रं सार्द्ध योजनं भवतीति व्याख्यातं, आह च चूनिकारः-‘एगेणं समएणं ओवयइ अहे जोयणं एगेणेव समएणं तिरियं दिवटुं गच्छइ उड़े दो जोयणानि सक्को'त्ति। _ 'चमरस्सण'मित्यादि ‘सव्वत्थोवं खेत्तंचमरे ३ उटुंउप्पयइएक्केणंसमएणं'ति, ऊर्ध्वगतौ मन्दगतित्वात्तस्य, तच्च किल कल्पनया त्रिभागन्यूनं गव्यतत्रयं, 'तिरियंसंखेज्जे भागे'त्ति तस्मिन्नेव पूर्वोक्ते त्रिभागन्यूनगव्यतत्रयेद्विगुनितेयेयोजनस्य सङ्खयेया भागा भवन्ति तान् गच्छति, तिर्यगतौ शीघ्रतरगतित्वात्तस्य, 'अहे संखेज्जे भागे गच्छइति पूर्वोक्ते त्रिभागद्वयन्यूने गव्यूतषट्के त्रिभागन्यूनगव्यूतत्रये मीलिते य सङ्ग्रेयभागा भवन्ति तान् गच्छति, योजनद्वयमित्यर्थः अथकथं सङ्ख्यातभागमात्रोपादाने नियतसङ्खयेयभागत्वं व्याख्यायते?, उच्यते, शक्रस्योर्द्धगतेश्चमरस्य चोधोगतेः समत्वमुक्तं, शक्रस्य चोर्द्धगमनं समयेन योजनद्वयरूपंकल्पितमतश्चमरस्याधोगमनं समयेन योजनद्वयमुक्तं, तथा 'जावइयंसक्के ३ उड़े उप्पयइ एगेमंसमएणं तं वजं दोहिं जं वजं दोहिं तं चमरे तिहिंति वचनसामर्थ्यात् प्रतीयते शक्रस्य यदूर्ध्व गतिक्षेत्रं तस्य त्रिभागमात्ररूपं चमरस्योर्द्धगतिक्षेत्रमतो व्याख्यातं त्रिभागन्यूनत्रिगव्यूतमानं तदिति, ऊर्ध्वक्षेत्राधोगतिक्षेत्रयोश्चापानतरालवर्ति तिर्यक्षेत्रमितिकृत्वा त्रिभागद्वयन्यूनषडगव्यूतमानं तद्वयाख्यातमिति। यच्चचूनिकारेणोक्तं 'चमरोउटुंजोयण मित्यादि तन्नावगतं, 'वजं जहा सक्कस्स तहेव'त्ति वज्रमाश्रित्य गतिविषयस्याल्पबहुत्वं वाच्यं यथा शक्रस्य तथैव, विशेषद्योतनार्थं त्वाह-'नवरं विसेसाहियं कायव्वं ति, तच्चैवम्-‘वज्जस्स णं भंते ! उड़े अहे तिरियं च गइविसयस्स कयरे कयरेहितो अप्पे वा ४?, गोयमा ! सव्वत्थोवं खेत्तं वजे अहे ओवयइ एक्केणं समएणं तिरियं विसेसाहिए भागेगच्छइ उडूंविसेसाहिए भागे गच्छइत्ति, वाचनान्तरेतुएतत्साक्षादेवोक्तमिति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy