SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १४ भगवतीअङ्गसूत्रं १/-/१/६ 'अप्पडिहयवरनाणदंसणधरे'त्तिअप्रतिहते-कटकुव्यादिभिररखलिते अविसंवादके वा अतएव क्षायिकत्वाद्वावरे-प्रधाने ज्ञानदर्शने केवलाख्येविशेषसामान्यबोधात्मिके धारयतियः सतथा, छद्मवानप्येवंविधसंवेदनसंपदुपेतः कैश्चिदभ्युपगम्यते, सच मिथ्योपदेशित्वान्नोपकारी भवतीति निश्छद्मताप्रतिपादनायाऽस्याह, अथवा-कथमस्याप्रतिहतसंवेदनत्वं संपन्नम् ?, अत्रोच्यते, आवरणाभावाद्, एनमेवास्याऽऽवेदयन्नाह - “वियट्टछउमे'त्ति व्यावृत्तं-निवृत्तमपगतं छद्म-शठत्वमावरणं वा यस्यासौ व्यावृत्तछद्मा, छद्माभावाश्चास्य रागादिजयाजात इत्यत आह - 'जिणे'त्ति, जयति-निराकरोति रागद्वेषादिरूपानरातीनिति जनः, रागादिजयश्चास्य रागादिस्वरूपतज्जयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह 'जाणए'त्ति,जानातिछाद्मस्थिकज्ञानचतुष्टयेनेतिज्ञायकः, ज्ञायक इत्यनेनास्य स्वार्थसंपत्युपाय उक्तः, अधुनातु स्वार्थसंपत्तिपूर्वकं परार्थसंपादकत्वं विशेषणचतुष्टयेनाह - 'बुद्धे'त्ति,बुद्धोजीवादितत्त्वंबुद्धवान्तथा बोहए'त्तिजीवादितत्त्वस्य परेषांबोधयिता 'तथा 'मुत्ते'त्ति मुक्तो बाह्याभ्यन्तरग्रन्थिबन्धनेन मुक्तत्वात्, तथा 'मोयए'त्ति परेषां कर्मबन्धनाम्नोचयिता । अथ मुक्तावस्थामाश्रित्य विशेषणान्याह- . सव्वन्नूसव्वदरिसी'ति, सर्वस्यवस्तुस्तोमस्यविशेषरूपतयाज्ञायकत्वेनसर्वज्ञः,सामान्यरूपतया पुनः सर्वदर्शी, न तु मुक्तावस्थायां दर्शनान्तरामिमतपुरुषवद्भविष्यजडत्वम्, एतच्च पदद्वयं क्वचिन्न दृश्यति इति, तथा। 'सिवमयल मित्यादि, तत्र 'शिवं सर्वाऽऽबाधारहितत्वाद् 'अचलं' स्वाभाविकप्रायो-गिकचलनहेत्वब्भावाद् । 'अरुजम्' अविद्यमानरोगंतनिबन्धनशरीरमनसोरभावात् । 'अनन्तम् अनन्तार्थविषयज्ञानस्वरूपत्वात् अक्षयम् अनाशंसाद्यपर्यवसितस्थितिकत्वात् अक्षतंवा परिपूर्णत्वात्पौर्णमासीचन्द्रमण्डलवत् 'अव्याबाधं परेषामपीडाकारित्वात् 'अपुनरावत्तियंति कर्मबीजाभावाद्भवावताररहितं। 'सिद्धिगइनामधेयं ति सिध्यन्ति-निष्ठितार्था भवन्ति तस्यां सा सिद्धि सा चासौ गम्यमानत्वादतिश्च सिद्धिगतिस्तदेव नामधेयं-प्रशस्तं नाम यस्य तत्तथा। 'ठाणं'ति तिष्ठति-अनवस्थाननिबन्धनकर्माभावेन सदाऽवस्थितो भवति यत्र तत्स्थानंक्षीणकर्मणोजीवस्य स्वरूपं लोकाग्रंवा,जीवस्वरूपविशेषणानितुलोकाग्रस्याऽऽधेयधर्माणामाधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं । संपाविउकामे'त्तियातुमनाः,नतुतप्राप्तः, तत्प्राप्तस्याकरणत्वेन विवक्षितार्थानांप्ररूपणाऽसम्भवात्, प्राप्तुकाम् इति च यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति-'मोक्षे भवेच सर्वत्र, निस्पृहो मुनिसत्तमः' इति वचनादिति। 'जावसमोसरणं ति, तावद्भगवद्वर्णको वाच्यो यावत्समवसरणं-समवसरणवर्णक इति, सच भगवद्वर्णक एवम्-“भुयमोयगभिंगनेकज्जलपहठ्ठभमरगणनिद्धनिकुरुंबनिचिय-कुंचियपयाहिणावत्तमुद्धसिरए"भुजमोचको-रलविशेषः भृङ्ग:-कीटविशेषोऽङ्गारविशेषोवानैलं-नीलीविकारः कज्जलं-मषी प्रहष्टभ्रमरगणः-प्रतीतः एतएव स्निग्धः-कृष्णच्छयो निकुरम्बः-समूहोयेषांते तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy