________________
शतकं-१, वर्गः-, उद्देशकः-१
'लोगपईवे'त्ति लोकस्य-विशिष्टतिर्यग्नरामररूपस्याऽऽन्तरतिमिरनिराकरणेन प्रकृष्टप्रकाशकारित्वात्प्रदीप इव प्रदीपः, इदं विशेषणं द्रष्ट लोकमाश्रित्योक्तम्, अथ श्यं आमाश्रित्याह ।। लोगपञ्जोयगरे'त्ति, लोकस्य-लोक्यतइति लोकः अनयाव्युत्पत्त्या लोकालोकस्वरूपस्य समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तण्डमण्डलमिव निखिलभावस्वभावावभावससमर्थकेवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्तनेन प्रद्योतं-प्रकाशं करोतीत्येवंशीलो लोकप्रद्योतकरः - उक्तविशेषणोपेतश्च 'मिहिरहरिहरहिरण्यगर्भादिरपि तत्तीर्थिकमतेन भवतीति कोऽस्य विशेष इत्याशङ्कायां तद्विशेषाभिधानायाह-'
___ 'अभयदए'त्ति, न भयं दयते-ददाति प्राणापहरणरसिकेऽप्युपसर्गकारिणि प्राणिनीत्यभयदयः, अभया वा-सर्वप्राणिभयपरिहारवती दया-अनुकम्पा यस्य सोऽभयदयः, हरिहरमिहिरादयस्तु नैवमितिविशेषः, न केवलमसावपकारिणां तदन्येषां वाऽनर्थपरिहारमात्रं करोति अपि त्वर्थप्राप्तिमपि करोतीति दर्शयन्नाह
'चक्खुदये'त्ति, चक्षुरिव चक्षु-श्रुतज्ञानं शुभाशुभार्थविभागोपदर्शकत्वात्, यदाह॥१॥ “चक्षुष्मन्तस्य एवेह, ये श्रुतज्ञानचक्षुषा ।
सम्यक् सदैव पश्यन्ति, भावान् हेयेतरानराः॥ ... तद्दयत इतिचक्षुर्दयः, यथाहिलोकेकान्तारगतानांचौरैर्विलुप्तधनानांबद्धचक्षुषांचक्षुरुद्घाटनेन चक्षुर्दत्वा वाञ्छितमार्गदर्शनेनोपकारी भवति, एवमयंमपि संसारारण्यवर्तिनां रागादिचौरविलुप्तधर्मधनानां कुवासनाऽऽच्छदितसज्ञानलोचनानांतदपनयनेनश्रुतचक्षुर्दत्त्वा निर्वाणमान्यच्छन्नुपकारीतिदर्शयन्नाह । 'मग्गदए'त्ति,मार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकंपरमपदपुरपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनंच कृत्वा चौरादिविलुप्तान निरुपद्रवं स्थानं प्रापयन् परमोपकारी भवतीत्येवमयमपीति दर्शयन्नाह -
“सरणदए'त्तिशरणंत्राणंनानाविधोपद्रवोपद्रुतानांतद्रक्षास्थानं, तच्चपरमार्थतो निर्वाणं तद्दयत इति शरणदयः, शरणदायकत्वं चास्य धर्मदशनयैवेत्यत आह
'धम्मदेसए'त्ति, धर्म-श्रुतचारित्रात्मकं देशयतीति धर्मदेशकः, 'धम्मदये ति पाठान्तरं, तत्र च धर्म-चारित्ररूपं दयत इति धर्मादयः, यथा रथस्य सारथी रथं रथिकमश्वांश्च रक्षति एवं भगवान् चारित्रधर्माङ्गानां-संयमात्मप्रवचनाख्यानांरक्षणोपदेशाद्धर्मसारथिर्भवतीति, तीर्थान्तरीयमतेनान्येऽपि धर्मसारथयः सन्तीति विशेषयन्नाह
___ 'धम्मवरचाउरंतचक्कवट्टी ति, त्रयः समुद्राश्चतुर्थश्च हिमवान्एतेचत्वारोऽन्ताः-पृथिव्यान्ताः एतेषु स्वामितया भवतीति चातुरन्तः सचासौ चक्रवर्तीच चातुरन्तचक्रवर्तीवरश्चासौचातुरन्तचक्रवर्तीच वरचातुरन्तचक्रवर्ती-राजातिशयः, धर्मविषयेवरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, यथाहि पृथिव्यां शेषराजातिशायीवरचातुरन्तवचक्रवर्तीभवति तथा भगवान्धर्मविषये शेषप्रणेतृणां मध्ये सातिशयत्वात्तथोच्यत इति, अथवा धर्म एव वरमितरचक्रापेक्षया कपिलादिधर्मचक्रापेक्षया वा चतुरन्तं-दानादिभेदेन चतुर्विभागं चतसृणां वा नरनारकादिगतीनामन्तकारित्वाच्चतुरन्तं तदे चातुरन्तं यच्चक्रभावारातिच्छेदात् तेन वर्तितुं शीलं यस्य स तथा, एतच्च धर्मदेशक्त्वादिविशेषणकदम्बकं प्रकृष्टज्ञानादियोगे सति भवतीत्याह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org