________________
शतकं-२, वर्गः-, उद्देशकः-१०
१६१ 'स्कन्धप्रदेशाः', तस्यैव निरंशाअंशाः ‘परमाणुपुद्गलाः' स्कन्धभावमनापन्नाः परमाणव इति, ततो लोकाकाशेरूपिद्रव्यापेक्षया अजीवाविअजीवदेसावि अजीवपएसावि' इत्येतदर्थतः स्याद्, अणूनां स्कन्धानांचाजीवग्रहणेन ग्रहणात्। _ 'जे अरूवी ते पंचविहे'त्यादि, अन्यत्रारूपिणो दशविधा उक्ताः, तद्यथा-आकाशास्तिकायस्तद्देशस्तप्रदेशश्चेत्येवं धर्माधर्मास्तिकायौसमयश्चेतिदश, इह तु सभेदस्याकाशस्याधारत्वेन विवक्षितत्वात्तदाधेयाः सप्त वक्तव्या भवन्ति, न च तेऽत्र विवक्षिताः, वक्ष्यमाणकारणात्, ये तु विवक्षितास्तानाह-पञ्चेति, कथमित्याह -
'धम्मत्थिकाए'इत्यादि, इह जीवानां पुद्गलानां च बहुत्वादेकस्यापि जीवस्य पुद्गलस्य वा स्थाने सङ्कोचादितथाविधपरिणामवशाद्बहवो जीवाः पुद्गलाश्च तथा तद्देशास्तप्रदेशाश्च संभवन्तीतिकृत्वा जीवाश्च जीवदेशाश्च जीवप्रदेशाश्च, तथा रूपिद्रव्यापेक्षयाऽजीवाश्चाजीवदेशाश्चाजीवप्रदेशाश्चेतिसंगतम्, एकत्राप्याश्रये भेदवतो वस्तुत्रयस् सद्भावात्,धर्मास्तिकायादौतुद्वितयमेवयुक्तं, यतोयदासंपूर्ण वस्तु विवक्ष्यते तदाधर्मास्तिकायादीत्युच्यते, तदंशविवक्षायां तु तत्प्रदेशा इति, तेषामवस्थितरूपत्वात्, तद्देशकल्पना त्वयुक्ता, तेषामनवस्थितरूपत्वादिति, यद्यपि चानवस्थितरूपत्वं जीवादिदेशानामप्यस्ति तथाऽपितेषामेकत्राश्रये भेदेन सम्भवः प्ररूपणाकारणम् इह तु तन्नास्तिधर्मास्तिकायादेरेकत्वादसङ्कोचादिधर्मकत्वाच्चेति, अत एव धर्मास्तिकायादिदेशनिषेधायाह ।
'नोधम्मत्थिकायस्स देसे' तथा 'नो अधम्मस्थिकायस्स देसे'त्ति।
चूर्णिकारोऽप्याह-'अरूविणो दव्या समुदयसद्देणं भन्नंति, नीसेसा, पएसेहिं वा नीसेसा भनिना, नो देसेणं, तस्स अणवट्ठियप्पमाणत्तणओ, तेण न देसेण निद्देसो, जो पुण देससद्दो एएसु कओ सो सविसयगयववहारत्थं परदव्वफुसणादिगयववहारत्थं चेति, तत्र स्वविषयेधर्मास्तिकायादिविषयेयो देशस्य व्यवहारो-यथाधर्मास्तिकायः स्वदेशेनोलोकाकाशं व्याप्नोतीत्यदिस्तदर्थं, तथा परद्रव्येण-उर्ध्वलोकाकाशादिना यः स्वस्य स्पर्शनादिगतो व्यवहारो यथोर्ध्वलोकाकाशेन धर्मास्तिकायस्य देशः स्पृश्यते इत्यादिस्तदर्थःमिति।
'अद्धासमय'त्ति अद्धा-कालस्तल्लक्षणः समयः-क्षणोऽद्धासमयः, सचैक एव वर्तमानक्षणलक्षणः, अतीतानागतयोरसत्त्वादिति।
कृतं लोकाकाशगतप्रश्नषट्कस्य निर्वचनम्, अथालोकाकाशं प्रति प्रश्नयन्नाह
मू. (१४६) अलोगागासेणं भंते ! किंजीवा? पुच्छा तह चेव, गोयमा! नो जीवा जाव नोअजीवप्पएसाएगे अजीवदव्वदेसे अगुरुयलहुए अनंतेहिं अगुरुयलहुयगुणेहिं संजुत्ते सव्वागासे अनंतभागूणे।
वृ. 'पुच्छातहचेव'त्ति यथालोकप्रश्ने, तथाहि-'अलोकाकासेणंभंते! किंजीवाजीवदेसा जीवप्पएसा अजीवा अजीवदेसा अजीवप्पएस'त्ति ।
निर्वचनं त्वेषांषन्नामपि निषेधः, तथा 'एगे अजीवदव्वदेसे'त्तिअलोकाकाशस्य देशत्वं लोकालोकरूपाकाशद्रव्यस्य भागरूपत्वात् 'अगरुयलहुए'त्ति गुरुलघुत्वाव्यपदेश्यत्वात् 'अनंतेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org