________________
भगवती अङ्गसूत्रं २/- /१०/१४६ अगुरुयलहुयगुणेहिं'ति 'अनन्तैः' स्वपर्यायपरपर्यायरूपैर्गुणैः, अगुरुलघुस्वभावेरित्यर्थः, 'सव्वागासे अनंतभागूणे'त्ति लोकाकाशस्यालोकाकाशापेक्षयाऽनन्तभागरूपत्वादिति । मू. (१४७) धम्मत्थिकाए णं भंते! के महालए पन्नत्ते ?, गोयमा ! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव फुसित्ताणं चिट्ठइ, एवं अहम्मत्थिकाए लोयागासे जीवत्थिकाए पोग्गलत्थिकाए पंचवि एक्काभिलावा ।
वृ. अथानन्तरोक्तान् धर्मास्तिकायादीन् प्रमाणतो निरूपयन्नाह - 'केमहालए' ति लुप्तभावप्रत्ययत्वान्निर्देशस्य किं महत्त्वं यस्यासौ किमहत्त्वः ?, 'लोए' त्ति लोकः, लोकप्रमितत्वाल्लोकव्यपदेशाद्वा, उच्यते च "पंचत्थिकायमइयं लोयं " इत्यादि ।
लोके चासौ वर्त्तते, इदं चाप्रश्नितमप्युक्तं, शिष्यहितत्वादाचार्यस्येति, 'लोकमात्रः ' लोकपरिमाणः, स च किञ्चिन्यूनोऽपि व्यवहारतः स्यादित्यत आह-लोकप्रमाणः, लोकप्रदेशप्रमाणत्वात्तठप्रदेशानां स चान्योऽन्यानुबन्धेन स्थित इत्येतदेवाह - 'लोयफुडे' त्ति लोकेन-लोकाकाशेन सकलस्वप्रदेशैः स्पृष्टौ लोकस्पृष्टः, तथा लोकमेव च सकलस्वप्रदेशैः स्पृष्टा तिष्ठतीति ।
पुद्गलास्तिकायो लोकं स्पृष्टथ तिष्ठतीत्यनन्तरमुक्तमिति स्पर्शनाऽधिकारादधोलोकादीनां धर्मास्तिकायादिगतां स्पर्शनां दर्शयन्निदमाह
मू. (१४८) अहेलोए णं भंते ! धम्मत्थिकायस्स केवइयं फुसति ?, गोयमा ! सातिरेगं अद्धं फुसति ।
१६२
तिरयलोए णं भंते! पुच्छा, गोयमा ! असंखेज्जइभागं फुसइ । उड्डलीए णं भंते! पुच्छा, गोयमा ! देसूनं अद्धं फुसइ ॥
वृ. ‘सातिरेगं अद्धं’ति लोकव्यापकत्वाद्धर्मास्तिकायस्य सातिरेकसप्तरज्जुप्रमाणत्वाचाधोलोकस्य ।
असंखेज्जइभागं 'ति असङ्ख्यातयोजनप्रमाणस्य धर्मास्तिकायस्याष्टादशयोजनशतप्रमाणस्तिर्यग्लोकोऽसङ्ख्यात भागवर्त्तीति तस्यासावसङ्घयेयभागं स्पृशतीति ।
'देसोनं अर्द्ध' ति देशोनसप्तरज्जुप्रमाणत्वादूर्ध्वलोकस्येति ।
मू. (१४९) इमा णं भंते! रयणप्पभापुढवी धम्मत्थिकायस्स किं संखेज्जइभागं फुसति ? असंखेज्जइभागं फुसइ ? संखिज्जे भागे फुसति ? असंखेज्जे भागे फुसति ? सव्वं फुसति ?, गोयमा ! नो संखेज्जइभागं फुसति असंखेज्जइभागं फुसइ नो संखेज्जे नो असंखेज्जे नो सव्वं फुसति इमीसे णं भंते! रयणप्पभाए पुढवीए घनोदही धम्मत्थिकायस्स पुच्छा, किं संखेज्जइभागं फुसति ? जहा रयणप्पभा तहा घनोदहिघनवायतनुवाया ।
इमीसे णं भंते! रयणप्पभाए पुढवीए उवासंतरे धम्मत्थिकायस्स किं संखेज्जतिभागं फुसति असंखेजइभागं फुसइ जाव सव्वं फुसइ ?, गोयमा ! संखेज्जइभागं फुसइ नो असंखेज्जइ भागं फुसइनो संखेज्जे० नो असंखेज्जे० नो सव्वं फुसइ, उवासंतराई सव्वाइं, जहा रयणप्पभाए पुढवीए वत्तव्वया भनिया एवं जाव अहेसत्तमाए, जंबूद्दीवाइया दीवा लवणसमुद्दाइया समुद्दा ।
एवं सोहम्मे कप्पे जाव ईसिपब्भारापुढवीए, एते सव्वेऽवि असंखेज्जतिभागं फुसति, सेसा पडिसेहेयव्वा ॥ एवं धम्मत्थिकाए, एवं लोयागासेवि, गाहा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org