________________
भगवती अङ्गसूत्रं २/-/१०/१४४
वृ. 'जीवेण 'मित्यादि, इह च 'सउड्डाणे' इत्यादीनि विशेषणानि मुक्तजीवव्युदासार्थानि ‘आयभावेणं’ति आत्मभावेन - उत्थानशयनगमनभोजनादिरूपेणात्मपरिणामविशेषेण 'जीवभावं ति जीवत्वं चैतन्यम् ‘उपदर्शयति प्रकाशयतीति वक्तव्यं स्याद् ?, विशिष्टस्योत्थानादेर्विशिष्टचेतनापूर्वकत्वादिति ।
१६०
'अनंताणं आभिनिबोहिए' त्यादि, 'पर्यवाः' प्रज्ञाकृता अविभागाः पलिच्छेदाः, ते चानन्ता आभिनिबोधिकज्ञानस्यातोऽनन्तानामाभिनिबोधिकज्ञानपर्यवाणां सम्बन्धिनम्, अनन्ताभिनिबोधिकज्ञानपर्यवात्मकमित्यर्थः, 'उपयोगं' चेतनाविशेषं गच्छतीति योगः, उत्थानादावात्मभावे वर्त्तमान् इति हृदयम्, अथ यद्युत्थानाद्यात्मभावे वर्त्तमानो जीव आभिनिबोधिकज्ञानाद्युपयोगं गच्छति तत्किमेतावतैव जीवभावमुपदर्शयतीति वक्तव्यं स्यात् ? इत्याशङ्कयाह
‘उवओगे’त्यादि, अतउपयोगलक्षणं जीवभावमुत्थानाद्यात्मभावेनोपदर्शयतीति वक्तव्यं स्यादेवेति । अनन्तरं जीवचिन्तासूत्रमुक्तम्, अथ तदाधारत्वेनाकाशचिन्तासूत्राणि -
मू. (१४५) कतिवहे णं भंते! आगासे पन्नत्ते ?, गोयमा ! दुविहे आगासे प० तंजहालोयागासे य अलयागासे य ।
लोयागासे णं भंते! किं जीवा जीवदेसा जीवपदेसा अजीवा अजीवदेसा अजीवपएशा गोयमा ! जीवावि जीवदेसावि जीवपदेसावि अजीवदेसावि अजीवपदेसावि जे जीवा ते नियमा एगिंदिया बेंदिया तेइंदिया चउरिंदिया पंचेंदिया अनिंदिया ।
जे जीवदेसा ते नियमा एगिंदियदेसा जाव अनिंदियदेसा, जे जीवपदेसा ते नियमा एगिंदियपदेसा जाव अनिंदियपदेसा ।
जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूवी य अरूवी य, जे रूवी ते चउव्विहा पन्नत्ता, तंजहा - खंधा खंधदेसा खंधपदेसा परमाणुपोग्गला, जे अरूवी ते पंचविहा पन्नत्ता, तंजहाधम्मत्थिकाए नो धम्मत्थिकायस्स देसे धम्भत्थिकायस्स पदेसा अधम्मत्थिकाए नो अधम्मत्थिकायस्स देसे अधम्मत्थिकायस्स पदेसा अद्धासमए ।
वृ. तत्र लोकालोकाकाशयोर्लक्षणमिदं
॥१॥
“धर्म्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ इति ॥
'लोगागासे ण' मित्यादौ षट् प्रश्नाः, तत्र लोकाकाशेऽधिकरणे 'जीव' त्ति संपूर्णानि जीवद्रव्याणि 'जीवदेस' त्ति जीवस्यैव बुद्धिपरिकल्पिता द्वयादयो विभागाः, 'जीवपएस' त्ति तस्यैव बुद्धिकृता एव प्रकृष्टा देशाः प्रदेशा, निर्विभागा भागा इत्यर्थः ।
‘अजीव’त्तिधर्मास्तिकायादयो, ननु लोकाकाशे जीवा अजीवाश्चेत्युक्ते तद्देशप्रेशास्तत्रोक्ता एव भवन्ति, जीवाद्यव्यतिरिक्तत्वाद्देशादीनां ततो जीवाजीवग्रहणे किं देशादिग्रहणेनेति ?, नैवं, निरवयवा जीवादय इति मतव्यवच्छेदार्थत्वादस्येति, अत्रोत्तरं -
'गोयमा ! जीवावी'त्यादि, (जे जीवेत्यादि) अनेन चाद्यप्रश्नत्रयस्य निर्वचनमुक्तम् । अथान्त्यस्य प्रश्नत्रयस्य निर्वचनमाह - 'रुवीय'त्ति मूत्ता, पुद्गला इत्यर्थः, 'अरूवी य'त्ति अमूत्ता, धर्मास्तिकायादय इत्यर्थः, 'खंध' त्ति परमाणुप्रचयात्मकाः स्कन्धाः 'स्कन्धदेशाः ' द्वयादयो विभागाः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International