________________
भगवती अङ्गसूत्रं २//८/१४०
अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्थ णं चमरस्स चउसट्ठीए सामाणिय- साहस्सीणं चउसट्ठीए भद्दासणसाहस्सी ओ पन्नत्ताओ एवं पुरच्छिमेणं पंचण्हं अग्गमहिसीणं सपरिवाराणं पंच भद्दासणाई सपरिवाराई दाहिणपुरच्छिमेणं अब्मितरियाए परिसाए चउव्वीसाए देवसाहस्सीणं चउव्वीसं भद्दासणसाहस्सीओ -
एवं दाहिणेणं मज्झिमाए अट्ठावीसं भद्दासनसाहस्सीओ, दाहिणपञ्च्चत्थिमेणं बाहिरियाए बत्तीसं भद्दासणसाहस्सीओ पच्चत्थिमेणं सत्तण्हं अनियाहिवईणं सत्त भद्दासणाई चउद्दिसिं आयरक्खदेवाणं चत्तार भद्दासणसहस्सचउसट्ठीओ'त्ति, 'तेत्तीसं भोम' त्ति वाचनान्तरे दृश्यते, तत्र भौमानि-विशिष्टस्थानानि नगराकाराणीत्यन्ते, 'उवयारियलेणं' ति गृहस्य पीठबन्धकल्पं 'सव्वप्पमाणंचेमाणियप्पमाणस्स अद्धंनेयव्वं 'ति, अयमर्थः यत्तस्यां राजधान्यां प्राकारप्रासादसभादिवस्तु तस्य सर्वस्योच्छ्रयादिप्रमाणं सौधर्मवैमानिकविमानप्राकारप्रासादसभादिवस्तुगतप्रमाणस्यार्द्धच नेतव्यं, तथाहि
१५६
सौधर्मवैमानिकानां विमानप्राकारो योजनानां त्रीणि शतान्युच्चत्वेन, एतस्यास्तु सार्द्धं शतं, तथा सौधर्मवैमानिकानां मूलप्रासादः पञ्च योजनानां शतानि तदन्ये चत्वारस्तत्परिवारभूताः सार्द्धे द्वे शते ४ प्रलोकं च तेषां चतुर्णामप्यन्ये परिवारभूताश्चत्वारः सपादशतम् १६ एवमन्ये तत्परिवारभूताः सार्द्धा द्विषष्टि ६४ एवमन्ये सपादैकत्रिंशत् २५६, इह तु मूलप्रासादाः सार्द्धे द्वे योजनशते एवमर्द्धार्द्धहीनास्तदपरे यावदन्तिमाः पञ्चदश योजनानि पञ्च च योजनस्याष्टांशाः, एतदेव वाचनान्तरे उक्तम्
'चत्तारि परिवाडीओ पासायवडेंसगाणं अद्धद्धहीनाओ' त्ति एतेषां च प्रासादानां चतसृष्वपि परिपाटीषु त्रीणि शतान्येकचत्वारिंशदधिकानि भवन्ति, एतेभ्यः प्रासादेभ्य उत्तरपूर्वस्यां दिशि सभा सुधर्मा सिद्धायतनमुपपातसभा ह्रदोऽभिषेकसभाऽलङ्कारसभा व्यवसायसभा चेति, एतानि च सुधर्मसभादीनि सौधर्मवैमानिकसभादिभ्यः प्रमाणतोऽर्द्धप्रमाणानि, ततश्चच्छ्रय इहैषां षट्त्रिंशद्योजनानि पञ्चाशदायामो विष्कम्भश्चपञ्चविंशतिरिति एतेषां च विजयदेवसम्बन्धिनामिव ‘अनेगखम्भसयसन्निविट्ठा अब्भुग्गयसुकयवइरवेइया' इत्यादिवर्णको वाच्यः ।
तथा 'दाराणं उप्पं बहवे अट्टट्ठमंगलगा झया छत्ता' इत्यादि, अलङ्कारश्च सभादीनां वाच्यः, सर्वं च जीवाभिगमोक्तं विजयदेवसम्बन्धि चमरस्य वाच्यं यावदुपपातसभायां सङ्कल्पश्चाभिनवोत्प न्नस्य किं मम पूर्वं पश्चाद्वा कर्त्तुश्रेयः ? इत्यादिरूपः, अभिषेकश्चाभिषेकसभायां महद्धर्या सामानिकादिदेवकृतः, विभूषणा च वस्त्रालङ्कारकृताऽलङ्कारसभायां, व्यवसायश्च व्यवसायसभायां पुस्तकवाचनतः, अर्चनिका च सिद्धायतने सिद्धप्रतिमादीनां सुधर्मसभागमनंच सामानिकादिपरिवारोपेतस्य चमरस्य, परिवारश्च सामानिकादि, ऋद्धिमत्त्वं च ' एवंमहिड्डिए' इत्यादिवचनैर्वाच्यमस्येति । एतद् वाचनान्तरेऽर्थतः प्रायो ऽवलोक्यत एवेति ।
शतकं-२ उद्देशकः-८ समाप्तः
-: शतकं -२ उद्देशकः-९ :
वृ. चमरचञ्चालक्षणं क्षेत्रमष्टमोद्देशक उक्तम्, अथ क्षेत्राधिकारादेव नवमे समयक्षेत्रमुच्यत इत्येवंसम्बन्धस्यास्येदं सूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org