________________
१५३
शतकं-२, वर्गः-, उद्देशकः-७ वर्त्तन्ते भवनवासिन इति । “एवं सव्वं भाणियव्वं'ति ‘एवम्' उक्तन्यायेनान्यदिप भणितव्यं, तच्चेदम्-‘समुग्घाएणंलोयस्सअसंखेज्जइभागे'त्ति मारणान्तिकादिसमुदघातवर्त्तिनो भवनपतयो लोकस्यासङ्खयेय एव भागे वर्तन्ते ।
तथा 'सट्ठाणेणं लोयस्स असंखेज्जे भागे' स्वस्थानस्य-उक्त भवनवाससातिरेककोटीसप्तकलक्षणस्य लोकासङ्घयेयभागवर्तित्वादिति, एवमसुरकुमाराणाम्, एवं तेषामेव दाक्षिणात्यानामौदीच्यानाम्, एवं नागकुमारादिभवनपतीनांयथौचित्येन व्यन्तराणांज्योतिष्काणां वैमानिकानां च स्थानानि वाच्यानि, कियडूरं यावदित्याह
'जाव सिद्धे'त्ति यावत्सिद्धगण्डिका-सिद्धस्थानप्रतिपादनपरं प्रकरणं, सा चैवम्-'कहि णं भंते ! सिद्धाणं ठाणा पन्नत्ता?' इत्यादि, इह च देवस्थानाधिकारे यत्सिद्धगण्डिकाऽभिधानं तत्स्थानाधिकारबलादित्यवसेयं, तथेदमपरमपि जीवाभिगमप्रसिद्धं वाच्यं, तद्यथा-'कप्पाण पइट्ठाणं' कल्पविमानानामाधारो वाच्य इत्यर्थः, सचैवम्___‘सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी किंपइट्ठिया पन्नत्ता ?, गोयमा ! घनोदहिपइट्ठिया पन्नत्ता' इत्यादि, आह च॥१॥ “घनउदहिपइट्ठाणा सुरभवणा होति दोसु कप्पेसु ।
तिसु वाउपइट्ठाणा तदुभयसुपइट्ठिया तिसु य॥ तेण परं उवरिमगा आगासंतरपइट्ठिया सव्वे।"त्ति । तथा 'बाहल्ल'त्ति विमानपृथिव्याः पिण्डो वाच्यः, स चैवम्-‘सोहम्मासाणेसुणं भंते ! कप्पेसु विमाणपुढवी केवइयं बाहल्लेणं प०? गोयमा ! सत्तावीसं जोयणसयाई'इत्यादि, आह च॥१॥ “सत्तावीस सयाई आइमकप्पेसु पुढविबाहल्लं ।
एक्किक्कहाणि सेसे दु दुगे य दुगे चउक्के य॥ ग्रैवेयकेषु द्वाविंशतिर्योजनानां शतानि, अनुत्तरेषु त्वेकविंशतिरिति । 'उच्चत्तमेव'त्ति कल्पविमानोच्चत्वं वाच्यं, तचैवम्-‘सोहम्मीसानेसुणं भंते ! कप्पेसु विमाणा केवइयं उच्चत्तेणं पन्नत्ता?, गोयमा ! पंचजोयणसयाइं इत्यादि, आह च॥१॥ "पंचसउच्चत्तेणं आइमकप्पेसु होति उ विमाणा।
एकेक्कवुड्डि सेसे दु दुगेय दुगे चउक्के य॥ ग्रैवेयकेषु दश योजनशतानि अनुत्तरेषु त्वेकादशेति, 'संठाणं'ति विमानसंस्थानं वाच्यं, तच्चैवम्-“सोहम्मीसानेसुणं भंते ! कप्पेसु विमाणा किंसंठिया पन्नत्ता?, गोयमा! जे आवलियापविठ्ठा ते वट्टा तंसा चउरंसा, जे आवलियाबाहिरा ते नाणासंठिय'त्ति।।
उक्तार्थस्य शेषमतिदिशन्नाह-जीवाभिगेत्यादि, सच विमानानांप्रमाणवर्णप्रभागन्धादिप्रतिपादनार्थः ॥ इति द्वितीयशते सप्तमः॥
शतकं-२ उद्देशकः-७ समाप्तः
-शतकं-२ उद्देशकः-८:वृ.अथ देवस्थानाधिकाराच्चमरचञ्चाभिधानदेवस्थानादिप्रतिपादनायाष्टमोद्देशकः, तस्य चेदं सूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org