SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ शतकं -२, वर्ग:-, उद्देशकः-५ १५१ ‘अणण्हयफले’त्ति अनाश्रवफलः, संयमवान् किल नवं कर्म नोपादत्ते, 'तवफले 'त्ति अनाश्रवो हि लघुकर्मत्वात्तपस्यतीति, 'वोदाणफले 'त्ति व्यवदानं कर्मनिर्जरणं, तपसा हि पुरातनं कर्मनिर्जरयति, ‘अकिरियाफले 'त्ति योगनिरोधफलं, कर्मनिर्जरातो हि योगनिरोधं कुरुते, 'सिद्धिपजवसाणफले 'ति सिद्धिलक्षणं पर्यवसानफलं सकलफलपर्यन्तवर्त्ति फलं यस्यां सा तथा सवणे नाणे य विन्नाणे पञ्च्चक्खाणे य संजमे । अणण्हए तवे चेव वोदाणे अकिरिया सिद्धी ।। मू. (१३६) वृ. 'गाह' त्ति सङ्ग्रहगाथा, एतल्लक्षणं चैतद्-“विषमाक्षरपादं वा 'इत्यादि छन्दः शास्त्रप्रसिद्धमिति ।। ततारूपस्यैव श्रमणादेः पर्युपासना यथोक्तफला भवति, नातथारूपस्य । असम्यगुभाषित्त्वादिति असम्यग्भाषितामेव केषाञ्चिद्दर्शयन्नाह मू. (१३७) अन्नउत्थिया णं भंते! एवमातिक्खंति भासंति पन्नवेंति परूवेंति-एवं खलु रायगिहस्स नगरस्स बहिया वेभारस्स पव्वयस्स अहे एत्थ णं महं एगे हरए अघे पन्नत्ते अणे- गाई जोयणाइं आयामविक्खंभेणं नाणादुमसंडमंडितउद्देसे सस्सिरीए जाव पडिरूवे, तत्थ णं बहवे ओराला बलाहया संसेयंति सम्मुच्छिंति वासंति तव्वतिरित्ते य णं सया समिओ उसिणए २ आउकाए अभिनिस्सवइ । से कहमेयं भंते! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया एवमातिक्खंति जाव जे ते एवं परूवेति मिच्छं ते एवमातिक्खंति जाव सव्वं नेयव्वं । जाव अहं पुन गोयमा ! एवमातिक्खामि भा० पं० प० एवं खलु रायगिहस्स नगरस्स बहिया वेभारपव्वयस्स अदूरसामंते, एत्थ णं महातवोवतीरप्पभवे नामं पासवणे पन्नत्ते पंचधनुसयाणि आयामविक्खंभेणं नाणादुमसंडमंडिउद्देसे सस्सिरीए पासादीए दरिसणिज्जे अभिरूवे पडिरूवे तत्थ णं बहवे उसिणजोणिया जीवा य पोग्गला य उदगत्ताए वक्कमंति विउक्कमंति चयंति उववज्रंति तव्वतिरित्तेवि य णं सया समियं उसिणे २ आउयाए अभिनिस्सवइ । एस णं गोयमा ! महातवोवतीरप्पभवे पासवणं एस णं गोयमा ! महातवोवतीरप्पभवस्स पासवणस्स अट्ठे पन्नत्ते, सेवं भंते २ त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति ॥ वृ. ‘पव्वयस्स अहे’त्ति अधस्तात्तस्योपरि पर्वत इत्यर्थ 'हरए' त्ति हद: 'अधे' त्ति अधाभिधानः, क्वचित्तु 'हरए' त्ति न दृश्यते, अधेत्यस्य च स्थाने 'अप्पे 'त्ति दृश्यते, तत्र चाप्यः - अपां प्रभवो ह्रद एवेति, ‘ओराल' त्ति विस्तीर्ण - 'बलाहय' -त्ति मेघाः - 'संसेयंति' 'संस्विद्यन्ति' उत्पादाभिमुखीभवन्ति 'संमूर्च्छन्ति' उत्पद्यन्ते 'तव्वइरित्ते य'त्ति हदपूरणादतिरिक्तश्चोत्कलित इत्यर्थः ‘आउयाए’त्ति अप्कायः ‘अभिनिस्सवइ' त्ति 'अभिनिश्रवति' क्षरति 'मिच्छंते एवमाइक्खंति' त्ति मिथ्यात्वं चैतदाख्यानस्य विभङ्गज्ञानपूर्वकत्वात् प्रायः सर्वज्ञवचनविरुद्धत्वाद्वयावहारिकप्रत्यक्षेण प्रायोऽन्यथोपलम्भाच्चावगन्तव्यम् । 'अदूरसामंते' त्ति नातिदूरे नाप्यतिसमीप इत्यर्थः 'एत्थ णं' ति प्रज्ञापकेनोपदर्श्यमाने ‘महातवोवतीरप्पभवे नामं पासवणे' त्ति आतप इवातपः- उष्णता महांश्चासावातपश्चेति महातपः महातपस्योपतीरं-तीरसमीपे प्रभव- उत्पादो यत्रासौ महातपोपतीरप्रभवः, प्रश्रवति-क्षरतीति प्रश्रवणः प्रस्यन्दन इत्यर्थः, 'वक्कमंति' उत्पद्यन्ते 'विउक्कमंति' विनश्यन्ति, एतदेव व्यत्ययेनाह - च्यवन्ते चेति उत्पद्यन्ते चेति । उक्तमेवार्थं निगमयन्नाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy