________________
शतकं-२, वर्गः-, उद्देशकः-५
१४५ -आओगपओगसंपउत्ता' आयोगो-द्विगुणादिवृद्धयाऽर्थप्रदानं प्रयोगश्च-कलान्तरं ती संप्रयुक्ती-व्यापारितोयैस्तेतथा, 'विच्छड्डियविउलभत्तपाणा' विच्छर्दितं-विविधमुज्झितंबहुलोकभोजनत उच्छिष्टावशेषसम्भवात् विच्छर्दितं वा-विविधविच्छित्तिमद्विपुलं भक्तं च पानकं च येषांते तथा, 'बहुदासीदासगोमहिसगवेलगप्पभूया' बहवोदासीदासा येषां तेगोमहिषगवेलकाश्च प्रभूता येषां ते तथा, गवेलका-उरभ्राः, 'बहुजणस्स अपरिभूया बाहोर्लोकस्यापरिभवनीयाः
-सवे त्यादौ क्रियाः-कायिक्यादिकाः 'अधिकरणं' गन्त्रीयन्त्रकादि 'कुसल त्ति आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः, ‘असहेजे'त्यादि, अविद्यमानं साहाय्यंपरासहायकम् अत्यन्तसमर्थ-त्वाद्येषां तेऽसाहाय्यास्तेचते देवादयश्चेतिकर्मधारयः, अथवा व्यस्तमेवेदंतेनासाहाय्याआपद्यपिदेवादिसाहायकानपेक्षाः स्वयं कृतं कर्मस्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः अथवा पाषण्डिभि प्रारब्धाः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षन्ते, स्वयमेव तत्प्रतिधात-समर्थत्वाजिनशासनात्यन्तभावितत्वाच्चेति ।
तत्रदेवा-वैमानिकाः 'असुरे'तिअसुरकुमाराः 'नाग'त्तिनागकुमाराः, उभयेऽप्यमीभवनपतिविशेषाः, सुवण्ण'त्ति सद्वर्णाज्योतिष्काःयक्षराक्षसकिंनरकिंपुरुषाः-व्यन्तरविशेषाः ‘गरुल'त्ति गरुडध्वजाः सुपर्णकुमाराः-भवनपतिविशेषाः गन्धर्वा महोरगाश्च-व्यन्तरविशेषाः 'अनतिकमणिज्जत्ति अनतिक्रमणीयाः-अचालनीयाः, 'लद्धट्ठ'त्ति अर्थश्रवणात् ‘गहियट्ठ'त्ति अर्थावधारणात् 'पुच्छियदृ'त्ति सांशयिकार्थप्रश्नकरणात् 'अभिगहियट्ठ'त्ति प्रश्नितार्थस्याभिगमनात् 'विनिच्छियह'त्ति एदम्पर्यार्थस्योपलम्भाद् अत एव ‘अद्विमिंजपेम्मानुरागरत्ता' अस्थीनि चकीकसानि मिआ च-तन्मध्यवर्ती धातुरस्थिमिजास्ताः प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिरूपकुसुम्मादिरागेण रक्ताइवरक्तायेषांतेतथा, अथवाऽस्थिमिञासुजिनशासनगतप्रेमानुरागेण रक्ता येते तथा, केनोल्लेखेन? इत्याह
___ 'अयमाउसो'इत्यादि, अयमिति प्राकृतत्वादिदम् ‘आउसो त्तिआयुष्मन्नितिपुत्रादेरामन्त्रणं 'सेसे'त्ति शेष-निर्ग्रन्थप्रवचनव्यतिरिक्तंधनधान्यपुत्रकलत्रमित्रकुप्रवचनादिकमिति, 'ऊसिचफलिहत्तिउच्छ्रितम्-उन्नतं स्फटिकमिव स्फटिकंचित्तं येषां ते उच्छ्रितस्फटिकाः मौनीन्द्रप्रवचनावाप्तयापरितुष्टमानसाइत्यर्थइतिवृद्धव्याख्या, अन्येत्वाहुः-उच्छ्रितः-अर्गलास्थानादपनीयोर्दीकृतो नतिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः परिधः-अर्गला येषां ते उच्छ्रितपरिधाः, अथवोच्छ्रितो-गृहद्वारादपगतः परिघोयेषांतेउच्छ्रितपरिघाः, औदार्यातिशयदतिशयदानदायित्वेन भिक्षुकाणां गृहप्रवेशनार्थमनर्गलितगृहद्वारा इत्यर्थः, 'अवंगुयदुवारे तिअप्रावृतद्वाराः-कपाटादिभिरस्थगितगृहद्वाराइत्यर्थः, सद्दर्शनलाभेनन कुतोऽपिपाषण्डिकाद्विभ्यति, शोभनमार्गपरिग्रहेणोद्घाट-शिरसस्तिष्ठन्तीति भाव इति वृद्धव्याख्या।
अन्ये त्वाहुः-भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थः, 'चियत्तंतेउरघरप्पवेसा' 'चियत्तो'त्ति लोकानां प्रीतिकर एवान्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्रानाशङ्कनीयास्त इत्यर्थः, अन्ये त्वाहु:-'चियत्तो'त्ति नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेशःशिष्टजनप्रवेशनंयेषांतेतथा, अनीालुताप्रतिपादनपरंत्यं विशेषणमिति, अथवा 'चियत्तो'तति 5101
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org