________________
१४०
॥१॥
भगवतीअङ्गसूत्रं २/-/३/१२० मू. (१२०) पुढविं ओगाहित्ता निरया संठाणमेव बाहल्लं ।
विक्खंभपरिक्खेवो वण्णो गंधो य फासो य॥ वृ. 'कइणंभंते! पुढवीओ'इत्यादि, इहचजीवाभिगमेनारकद्वितीयोद्देशकार्थसङ्गहगाथा
“पुढवी ओगाहित्ता निरया संठाणमेव बाहल्लं ।
विक्खंभपरिक्खेवो वन्नो गंधो य फासो य॥ सूत्रपुस्तकेषुचपूर्वार्द्धमेव लिखितं, शेषाणां विवक्षितार्थानां यावच्छब्देन सूचितत्वादिति, तत्र 'पुढवि'त्ति पृथिव्यो वाच्याः, ताश्चैवम्-'कइ णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा! सत्त, तंजहा-रयणप्पभे' त्यादि, ओगाहित्ता निरय'त्ति पृथिवीमवगाह्य कियढूरे नरकाः? इति वाच्यं, तत्रास्यां रत्नप्रभायामशीतिसहाम्रोत्तरयोजनलक्षबाहल्यायामुपर्येकं योजनसहनमवगाह्याधोऽप्येकं वर्जयित्वा त्रिंशन्नरकलक्षाणि भवन्ति, एवं शर्कराप्रभादिषु यथायोगं वाच्यं, 'संठाणमेव'त्ति नरकसंस्थानं वाच्यं, तत्र ये आवलिकाप्रविष्टास्ते वृत्तायाश्चतुरश्राश्च, इतरे तु नानासंस्थानाः, 'बाहल्लं ति नरकाणां बाह्यं वाच्यं, तच्च त्रीणि योजनसहस्राणि, कथम् ?, अध एकं मध्ये शुषिरमेकमुपरिच सङ्कोच एकमिति।
विखंभपरिक्खेवो'त्ति एतौ वाच्यौ, तत्र सङ्ख्यातविस्तृतानां सङ्ख्यातयोजन आयामो विष्कम्भः परिक्षेपश्च, इतरेषां त्वन्यथेति।तथा वर्णादयो वाच्याः, ते चात्यन्तमनिष्टा इत्यादि बहु वक्तव्यं यावदयमुद्देशकान्तः, यदुत
मू. (१२१) जाव किंसव्वपाणा उववन्नपुव्वा?, हंतागोयमा! असतिं अदुवा अनंतखुत्ता
वृ. 'किं सव्वपाणा?' इत्यादि, अस्य चैवं प्रयोगः-अस्यां रत्नप्रभायां त्रिंशन्नरकलक्षेषु किं सर्वे प्राणादय उत्पन्नपूर्वा, अत्रोत्तरम्-'असई तिअसकृद्-अनेकशः, इदं च वेलाद्वयादावपि स्यादतोऽत्यन्तबाहुल्यप्रतिपादनायाह-'अदुव'त्ति अथवा 'अनंतखुत्तो'त्ति 'अनन्तकृत्वः' अनन्तवारानिति।
शतकं-२ उद्देशकः-३ समाप्तः
-:शतकः-२ उद्देशकः-४:वृ. तृतीयोद्देशके नारका उक्ताः, ते च पञ्चेन्द्रिया इतीन्द्रियप्ररूपणाय चतुद्दिशकः, तस्य चादिसूत्रम्
मू. (१२२) कतिणं भंते! इंदिया पन्नत्ता?, गोयमा! पंचिंदिया पन्नत्ता, तंजहा-पढमिल्लो इंदियउद्देसो नेयव्यो, संठाणं बाहल्लं पोहत्तंजाव अलोगो।
वृ. पढमिल्लोइंदियउद्देसओनेयव्वो'त्तिप्रज्ञापनायामिन्द्रियपदाभिधानस्य पञ्चदशपदस्य प्रथम उद्देशकोऽत्र 'नेतव्यः' अध्येतव्यः, तत्र च द्वारगाथा॥१॥ “संठाणं बाहल्लं पोहत्तं कइपएसओगाढे।
अप्पाबहुपुट्ठपविठ्ठविसय अनगार आहारे ॥ इहचसूत्रपुस्तकेषुद्वारत्रयमेवलिखितं, शेषास्तुतदर्थायावच्छब्देन सूचिताः, तत्रसंस्थानं श्रोत्रादीन्द्रियाणां वाच्यं, तच्चेदं-श्रोत्रेन्द्रियं कदम्बपुष्पसंस्थितं चक्षुरिन्द्रियं मसूरकचन्द्रसंस्थितं मसूरकम्-आसनविशेषश्चन्द्रः-शशी, अथवा मसूरकनचन्द्रो-धान्यविशेषदलं, घ्राणेन्द्रियम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org