________________
शतकं -२, वर्ग:-, उद्देशकः - २
१३९
अणगारस्स मं भंते ! भावियप्पणी केवलिसमुग्धाय जाव सासयमणागयद्धं चिट्ठति, समुग्धायपदं नेयव्वं ।
वृ. 'कइ णं भंते! समुग्घा 'त्यादि, तत्र 'हन हिंसागत्योः' इति वचनाद् हननानि-घाताः सम्-एकीभावेउत्-प्राबल्येन ततश्चैकीभावेन प्राबल्येन च घाताः समुदघाताः, अथ केन सहैकीभावः उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहैकीभावः, अथ प्राबल्येन घाताः कथम् ?, उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह श्लिष्टान् शातयतीत्यर्थः, अतः प्राबल्येन घाता इति ।
'सत्त समुग्घाय' त्ति वेदनासमुद्घातादयः, एते च प्रज्ञापनायामिव द्रष्टव्याः, अत एवाह'छाउमत्थिए' त्यादि, 'छाउमत्थियसमुग्धायवज्जं ति 'कइ णं भंते! छाउमत्थिया समुग्धायापन्नत्ता' इत्यादिसूत्रवर्जितं ‘समुग्घायपयं' ति प्रज्ञापनायाः षट्त्रिंशत्तमपदं समुद्घातार्थमिह नेतव्यं, तच्चैवम्'कइ णं भंते! समुग्धाया पन्नत्ता ?, गोयमा ! सत्त समुग्धाया पन्नत्ता, तंजहा - वेयणासमुग्घाए कसायसमुग्घाए’इत्यादि, इह सङ्ग्रहगाथा
॥ १ ॥ “वेयण १ कसाय २ मरणे ३ वेउव्विय ४ तेयए य ५ आहारे ६ । केवलिए चेव ७ भवे जीवमणुस्साण सत्तेव ॥
जीवपदे मनुष्यपदे च सप्त वाच्याः, नारकादिषु तु यथायोगमित्यर्थः, तत्र वेदनासमुद्घातेन समुद्धत आत्मा वेदनीयकर्मपुद्गलानां शातं करोति, कषायसमुद्घातेन कषायपुद्गलानां मारणान्तिकसमुद्घातेनायुःकर्म्मपुद्गलानां वैकुर्विकसमुद्घातेन समुद्धतो जीवः प्रदेशान् शरीराद्वहिर्निष्काश्य शरीरविष्कम्भबाहल्यमान्त्रमायामतश्च सङ्घयेययोजनानि दण्डं निसृजति निसृज्य चयथास्थूलान् वैक्रियशीरनामकर्म्मपुद्गलान् प्राग्बद्धान् शातयति यथासूक्ष्मांश्चादत्ते, यथोक्तम्“वेउव्वियसमुग्धाएणं समोहणइ २ संखेज्जाई जोयणाई दंडं निसिरइ २ अहाबायरे पोग्गले परिसाडेइ अहासुहमे पोग्गले आइयइ "त्ति ।
एवं तैजसाहारकसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन तु समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति एतेषु च सर्वेष्वपि समुद्घातेषु शरीराज्जीवप्रदेशनिर्गमोऽस्ति, सर्वे चैतेऽन्तर्मुहूर्त्तमानाः, नवरं केवलिकोऽष्टसामयिकः, एते चै केन्द्रियविकलेन्द्रियाणामादितस्त्रयो, वायुनारकाणां चत्वारः, देवानां पञ्चेन्द्रियतिरश्चां च पञ्च, मनुष्याणां तु सप्तेति । शतकं-२ उद्देशकः-२ समाप्तः
-: शतकं -२, उद्देशकः-३:
वृ. अथ तृतीया आरभ्यते, अस्य चायमभिसम्बन्धः -द्वितीयोद्देशके समुद्घाताः प्ररूपिताः, तेषुच मारणान्तिकसमुद्घातः, तेन च समवहताः केचित्पृथिवीषूत्पद्यन्त इतीह पृथिव्यः प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
मू. (११९) कति णं भंते! पुढवीओ पन्नत्ताओ ?, जीवाभिगमे नेरइयाणं जो बितिओ उद्देसो सो नेयव्वो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org