________________
१२८
भगवतीअङ्गसूत्रं २/-/१/११२ श्रृङ्गारमिव श्रृङ्गारमतिशयशोभावदित्यर्थः, 'कल्याणं' श्रेयः 'शिवम्' अनुपद्रवमनुपद्रवहेतु 'धन्यं' धर्मधनलब्धृ तत्र वा साधु तद्वाऽर्हत 'मङ्गल्यं' मङ्गले-हितार्थप्रापके साधु माङ्गल्यम्, अलङ्कृतं मुकुटादिभिर्विभूषितं-वादिभिस्तन्निषेधादनलङ्कृतविभूषितं, 'लक्खणवंजणगुणोववेयं ति लक्षणंमानोन्मानादि, तत्र मान-जलद्रोणमानता, जलभृतकुण्डिकायां हि मातव्यं पुरुषः प्रवेश्यते तत्प्रवेशे च यज्जलं ततो निस्सरति तद्यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते, उन्मानं त्वर्द्धभारमानता, मातव्यः पुरुषोहि तुलारोपितोयद्यर्द्धभारमानो भवति तदोन्मानोपेतोऽसावुच्यते, प्रमाणं पुनः स्वाङ्गुलेनाटेत्तरशताङ्गुलोच्छ्रयता, यदाह॥१॥ “जलदोणमद्धभारं समुहाइ समूसिओ उ जो नव उ ।
माणुम्माणपमाणं तिविहं खलु लक्खणं एवं॥ व्यञ्जनं-मषतिलकादिकमथवा सहजं लक्षणंपश्चाद्भवं व्यञ्जनमिति, गुणाः-सौभाग्यादयो लक्षणव्यञ्जनानां वाये गुणास्तैरुपपेतं यत्तत्तथा, उपअपइतम् इत्येतस्य स्थाने निरुक्तिवशादुपपेतं भवतीति, 'सिरीए'त्ति लक्ष्म्या शोभया वा ॥ _ 'हट्टतुट्ठचित्तमाणंदिए'त्ति हृष्टतुष्टमत्यर्थं तुष्टं हृष्टं वा-वस्मितं तुष्टं च-सन्तोषवच्चित्तं-मनो यत्र तत्तथा, तद् हृष्टतुष्टचित्तं यथा भवति एवम् ‘आनन्दितः' ईषन्मुखसौम्यतादिभावैः समृद्धिमपगतः, ततश्च 'नंदए'त्ति नन्दितस्तैरेव समृद्धतरतामुपगतः ‘पीइमणे'त्ति प्रीति-प्रीणनमाप्यायनं मनसि यस्य स तथा ‘परमसोमनस्सिए'त्ति परमं सौमनस्य॑सुमनस्कता संजातं यस्य स परमसौमनस्यितस्तद्वाऽस्यास्तीति परमसौमनस्यिकः 'हरिसवसविसप्पमाणहियए'त्ति हर्षवशेन विसर्पद्-विस्तारंव्रजन हृदयं यस्य स तथा, एकार्थिकानि वैतानि प्रमोदप्रकर्षप्रतिपादनार्थानीति 'दव्वओ णं एगे लोए सअंते'त्ति पञ्चास्तिकायमयैकद्रव्यत्वाल्लोकस्य सान्तोऽसौ, 'आयामविक्खंभेणं'ति आयामो-दैर्घ्यं विष्कम्भो-विस्तारः परिक्खेवेणं तिपरिधिना 'भुविंसुय'त्तिअभवत् इत्यादिभिश्च पदैः पूर्वोक्तपदानामेव तात्पर्यमुक्तं, 'धुवे'त्तिध्रुवोऽचलत्वात् स चानियतरूपोऽपि स्यादत आह-नियए'त्ति नियत एकस्वरूपत्वात्, नियतरूपः कादाचित्कोऽपि स्यादत आह‘सासए'त्ति शाश्वतः प्रतिक्षणं सद्भावात, सच नियतकालापेक्षयाऽपि स्यादित्यत आह
अक्खए'त्ति अक्षयोऽविनाशित्वात्, अयं च बहुतरप्रदेशापेक्षयाऽपि स्यादित्यत आह'अव्वए'त्ति अव्ययस्तप्रदेशानामव्ययत्वात, अयं च द्रव्यतयाऽपि स्यादित्याह-'अवट्ठिए'त्ति अवस्थितः पर्यायाणामनन्ततयाऽवस्थितत्वात्, किमुक्तं भवति?-नित्य इति, 'वन्नपज्जव'त्ति वर्णविशेषा एकगुणकालत्वादयः, एवमन्येऽपिगुरुलघुपर्यवास्तद्विशेषाबादरस्कन्धानाम्, अगुरुलघुपर्यवा अणूनां सूक्ष्मस्कन्धानाममूर्तानांच, 'नाणपज्जवत्तिज्ञानपर्याया ज्ञानविशेषाबुद्धिकृता वाऽविभागपरिच्छेदाः, अनन्ता गुरुलघुपर्याया औदारिकादिशरीराण्याश्रित्य, इतरेतुकर्मणादिद्रव्याणि जीवस्वरूपंचाश्रित्येति । ___'जेवि य ते खंदया पुच्छत्ति अनेन समग्र सिद्धिप्रश्नसूत्रमुपलक्षणत्वाच्चोत्तरसूत्रांशश्च सूचितः, तच्च द्वयमप्येवम्-'जेवि य ते खंदया इमेयारूवे जाव किं सअंता सिद्धी अनंता सिद्धी तस्सवियणं अयमट्टे, एवं खलु मए खंदया ! चउब्विहा सिद्धी पन्नत्ता, तंजहा-दव्वओ खेत्तओ कालओ भावओत्ति, दव्वओणंएगा सिद्धि'त्ति, इह सिद्धिर्यद्यपि परमार्थतः सकलकर्मक्षयरूपा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org